________________
पृथ्वीराजप्रबन्धः ।
८७
२००) इतः कवासे विसूत्रिते नूतनो मत्री जातः । नृपः प्रतापसिंहस्य भ्रातृव्यमतिबलिनं मत्वा कारायां चिक्षेप । मत्रिणि विसूत्रितेऽपि न त्यजति । स सुरत्राणाय मिलितः । तेन कटकं शकानामहूतम् । आयतं श्रुत्वा पृथ्वीराजः सम्मुखो निःसृतः । तुरङ्गलक्ष ३, गज सहस्र १०, मनुष्य लक्ष १५; एवं... ..आशीमतिक्रम्याग्रे कटकं गतम् । इतः सुरत्राणस्य मत्रिणो वार्ता जाता । तेन कथापितम् - प्रस्तावे आकारयिष्यामि । अथ पृथ्वीराजः प्रसुप्तः दिनानि १० परं कोऽपि न जागरयति । यो 5 जागरयति तं मारयति । इतः प्रधानेन सुरत्राण आकारितः । राजा न जागर्ति। मन्दं मन्दं केऽपि सामन्ता युध्वा मृताः । केऽपि प्रणष्टाः । अश्वसहस्र .. ....वशिष्यमाने [ भगिन्या ] नृपो जागरितः । खड्गमाकृष्य धावतः भगिन्योक्तम् - स्वं जनं मारयसि । कटकं सर्वं तव निद्राणस्य मारितम् । नृपस्त्वाह- अहमत्रि... तस्मिन् विनष्टे नृपः शाकंभरीं मनसि कृत्य नाटारम्भावे आरुह्य प्रणष्टः । भ्रात्रा सह पृष्टिधावितैस्तुरकैर्न गृह्यते । इत आशी देशे पर्वतिकाद्वयस्य मध्ये भट्टोऽस्ति । तव (तत्र ) नृपं प्रेष्य जस- 10 राजः स्थितः । तेन किञ्चित्कटकं खलहितम् । स तत्र मारितः । सुरत्राण साहबदीनेन स मंत्री. पुच्छरहितः सर्पवत्कृतः । स्थाने गतः केन गृहीतुं शक्यः १ । तेनोक्तम्-छन्देन । वाद्यान् वादयतः, यथा तुरगो नृत्यति । तथा कृते तुरगो नर्त्तितुं प्रवृत्तो न चलति । नृपस्य कण्ठे शृङ्गिण्यः पेतुः । राजा गृहीतः सुरत्राणे [न] । स्वर्णनिगडे प्रक्षिप्य योगिनीपुरे समानीतो भाषितश्च राजन् ! यदि जीवन्तं मुञ्चामि ततः किं कुरुषे ? । नृपतिः प्राह - मया त्वं सप्तवारान् मुक्तस्त्वं मामेकवेलमपि न मुञ्चसि १ । इतो नृपोत्तारकसम्मुखं सुरत्राणः सभायामुपवि- 15 शति । नृपः खिद्यते । स प्रधानः समभ्येति -देव ! किं क्रियते, दैवादिदं जातम् । नृपेणोक्तम्- यदि मे शृङ्गिणीं वाणांश्चार्पयसि, तदाऽणुं मारयामि । तेनोक्तम्-तथा करिष्ये । पुनर्गत्वा सुरत्राणाय निवेदितम् - यत्र त्वया नोपविशनीयम् । सुरत्राणेन तत्रायः पुत्तलकः स्वस्थाने निवेशितः । राज्ञः शृङ्गिणी समर्पिता । राज्ञा बाणं मुक्तम् । अयः पुत्तलको द्विधा कृतः । नृपेण शृङ्गिणी त्यक्ता । न मे कार्यं सरितमन्यः कोऽपि मारितः । तदनु सुरत्राणेन गर्त्तायां प्रक्षिप्य लोष्टैर्हतः। सुरत्राणेनोक्तम् अस्य रुधिरे भूमौ पतिते शिवं स्यात् । तथैव मारितः । संवत् 20 १२४६ वर्षे दिवं ययौ । योगिनीपुरं परावृत्य सुरत्राणस्तत्र स्थितः ।
॥ इति पृथ्वीराजप्रबन्धः ॥
(G.) सङ्ग्रहे पृथ्वीराजविषयकवृत्तम् ।
२०१) श्री योगिनी पुरे श्रीप्रथिमराज्ञ उपरि अष्टादशभिर्लक्षैरश्वानां पातसाहिरागतः । तदा एकादशीपारणं विधाय निद्राग्रथिलो राजा प्रसुप्तोऽस्ति । तदा महाविग्रहे जायमाने प्राकारे खंडिः पतिता । राजानं कोऽपि भीत्या 25 न जागरयति । कुब्जिकयांगुष्ठमोटनेन जागरितः । तावता तां मारयित्वा पुनः सुप्तः । द्वितीयदिने वीरचतुष्टयेन जागरितः । स्वरूपं ज्ञात्वा यावता स्वयं प्राकारवातायने निविष्टस्तावताऽरिभिर्विशेषविग्रहो मंडितः । अत्याकुलेन राज्ञा तारादेवी स्मृता । प्रत्यक्षीभूता । तया निशि श्रीपातसाहिसमीपे मुक्तः सः । यावता तन्मारणाय प्रहारं मुंचति, तावता चतुर्भुजो दृष्टः, मुक्तः । द्वितीयवेलायां जटाधारी दृष्टः, मुक्तः । तृतीयवेलायां ब्रह्मा दृष्टः । देव्या भणितोऽपि न मारयति । वस्त्र - प्रहरणादि गृहीत्वा समागतः । प्रातस्तत्सर्वं पातसा हेर्दर्शितम् । इति 30 कथापितं च- यथा वस्त्राण्यानीतानि तथा मारयिष्ये । पातसाहिना सर्वाणि वस्त्राणि याचितानि । राज्ञोक्तम्प्रयाणसप्तके प्रेषयिष्ये । तथा विहिते कटकं तथैव चलितम् । राजा जीवग्राहं गृहीतः । बंदीकृतस्य तस्यान्यदा भोजनं स्वानेनात्तम् । तदवलोक्य विषण्णः । आः किमेतत् ! मदीया रसवती संढिसप्तशत्या समागतवती । सांप्रतमियमवस्था । ततो मृतो युद्धेन ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org