Book Title: Puratana Prabandha Sangraha Author(s): Jinvijay Publisher: ZZZ UnknownPage 51
________________ प्रास्ताविक-टिप्पनीसूचितपरिशिष्टसंग्रह । नेहाट्यभाषणपूर्व भोजनवस्त्राभरणादिदानं विधाय कौबेरी प्रति तेन मुनिना समं गृहीत्वा गतः । रुक्मिणी परिणीता । तया रुक्मिण्या एकान्ते महास्नेहे जाते पतिः ऋषिदत्तावृत्तान्तः पृष्टः । तेन कथितम्-ऋषिदत्तायाः शीलगुणो विनयगुणो रूपगुणादिकोऽनिर्वचनीयस्तत्र किं कथ्यते । उक्तं च रूपलक्ष्मीयुषो यस्याः समस्या कामकामिनी । कर्णिका-मेनिका-नागयोषितः पदपांशवः ॥१४॥ जाते तद्विरहे दैवादासी त्वमसि मे प्रिया । यत् क्षीरेण विना घृष्टिरपि प्रीतिकरी न किम् ॥१५॥ तदभावे त्वं मया परिणीता । यथा षट्रसपेशलस्य भोजनस्याप्राप्त्या किं कथितान्नं न भुज्यते । तद्वचनं श्रुत्वा गृहवासमवगणय्य सा रुक्मिणी पूर्वकारितं निजं पौरुषं सर्वं कथितवती । कुमारस्तदाकर्ण्य महासकोपस्तामात्त्यक्त्वा, रे! पापिष्ठे ! आत्मानं मां च नरके कथं क्षिपसि? गच्छ, मम नेत्रादपसर । अदृष्टमुखी भव । सा रूपवती महासती कथाशेषी कृता। लोकद्वयविरुद्धमप्रेक्ष्य तदा मुनिस्तद्वचनं श्रुत्वा निजकलङ्कगमनेनातीव हृष्टः । निशान्ते राजाङ्गणे चितां कारयित्वा कुमारः काष्ठभक्षणाय श्वशुरेण लोकेन च वार्यमाणोऽपि यावचलितः, तदा सर्वलोकवचनोपरोधात्तपखिमुनिनोक्तम्-हे कुमार! कोऽपि मृत्वा कर्मवशाद् भिन्नगतिक आत्मप्रियस्य मिलितः ? । इति वारितोऽपि यदा न तिष्ठति तदा मुनिनेत्युक्तम्-देव! तव खेहाकृष्टा सा मृताऽपि मिलिष्यति, इति ज्ञानेन जानामि । कुमारः पृच्छति-भवद्भिः क्वापि सा दृष्टा ज्ञाता वा । कथं किंवा हास्यपदम् ?-इति पृष्टे यमपुरे कृतान्तमन्दिरे तव प्रिया विद्यते । यदि तस्याः स्थाने ग्रहणके कोऽपि मुच्यते, तदा समेति । इत्युक्ते कुमारश्चिन्तातुरः तत्र को याति, कस्तिष्ठति?; इत्युक्ते मुनिनोक्तम्-देवाहं यास्यामि । यतो दुस्त्यजः स्नेहस्त्वया समम् । यदि भवान् ममादेशं दास्यति तदाहं यास्यामि । कुमारः प्राह-मयाग्रे तुभ्यं जीवितव्यं हृदयं दत्तम् , शेषं जीवितव्यं विद्यते तदपि गृहाण । तेनोक्तं पुनर्मूते कार्ये यत्किञ्चिदहं याचि (?) तन्निषेधयितव्यं नहि । ओमित्युक्ते प्रतिश्रुते स मुनिलक्षसंख्यलोकसमक्षं पटान्तरे प्रविष्टः । क्षणान्तरे मुक्तं पूर्वम् । दृष्टिः क्षिप्ता । ततोऽतीव हृष्टः कुमारः । ऋषिदत्तायुतः श्वशुरेण पूजितः । निजा सुता निर्भसिता । अकृत्यकारिणीति भणित्वा । पश्चात्प्रयाणकमुहूर्ते ऋषिदत्ताया अग्रे इति भणितम्-अहं खमित्रं यममन्दिरे तत्र (व.) स्थाने मुक्त्वा कथं यामि गृहम् ? । अहं मित्रसमीपे गमिष्यामि । तदा हसित्वा प्रिया प्राहदेव! एतत्सर्वं जनकदत्तौषधविलसितम्। भवद्भिरन्यन्नावधारणीयम् । परं यथा रुक्मिण्यां प्रसादो भवति तथा कर्तव्यम् । यतः न हसंति परं न थुणंति अप्पयं विप्पिअंपि न चवंति । एसो जाण सहावो नमो नमो ताण पुरिसाण ॥ १६ ॥ प्रियावचनं श्रुत्वा हृष्टः । श्वशुरेण प्रेषितः । प्रियाद्वययुतो निजपितृगृहं ययौ । ततो हेमरथो राजा निजापराधविलक्षो वधूमनुनीय कुमारं राज्ये संस्थाप्य भद्राचार्यपाधैं व्रतं गृहीत्वा मुक्तिं गतः । ततः कनकरथस्य पृथ्वीं पालयतः ऋषिदत्तायाः सिंहरथो जातः । हर्षपूरितस्य राज्ञः कियत्यपि गते काले गवाक्षोपविष्टस्य मेघमण्डलं संपूर्ण दृष्ट्वा प्रचण्डपवनेन खण्डीकृतं गलितं च विज्ञाय चेतसि विरागवान् जातः संसारोपरि । इति चिन्तयति जजरइ जहा देहं खणेण तहा जोवणं विणासेइ । खणदिट्ठनहरूवा इह इट्टसमागमा सवे ॥ १७ ॥ ऋषिदत्तायाः समं यावत् रात्रौ इति चिन्तयति, तावत्प्रभाते उद्यानपालकेन तत्रायातसूर्यागमनं कथितम् । ततः प्रियया सह गुरुं प्रणम्य देशनां श्रुत्वा प्रियाया राक्षसीकलङ्ककारणं निष्कारणं पृष्टवान् । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220