Book Title: Puratana Prabandha Sangraha
Author(s): Jinvijay
Publisher: ZZZ Unknown

Previous | Next

Page 71
________________ पुरातनप्रबन्धसचन्हे इति भित्तिपुरतः सुप्तेन मयूरेण-सुभ्रुशब्दस्थाने चण्डीत्याख्यां कथय, यतोऽस्या दृढकोपायाश्चण्डीशब्द उचितः। इति पितुर्वचनेन कुपिता लज्जिता भर्तृवचनं मानयित्वा सतीत्वप्रभावेण पितरं कुष्ठीभवेति शप्तवती । सञ्जातकुष्ठेन मयूरेण राजभणितेन सूर्याराधनाय पट्पादं रज्जुयत्रं बद्धा खदिराङ्गारचितां काराप्य तत्स्तवने एकैकवृत्ते छुरिकया एकैकरज्जुपादच्छेदे यावता पश्च च्छिन्नाः । षष्ठच्छेदे सूर्यपरितोषे नव्यदेहदानेन मयूरप्रमोदे बाणपक्षीयरुक्तं 5 राजसभायाम् (४५) यद्यपि हर्षोत्कर्ष विदधति मधुरा गिरो मयूरस्य । ___ घाणविजृम्भणसमये तदपि न परभागभागिन्यः ॥ राज्ञोक्तम्-यूयं गुणिषु मत्सरिणो यस्य शक्तिर्भवति किमप्यधिकं दर्श्यते । ततो बाणेनोक्तम्-मम हस्तपादौ छेदय, यथा नव्यान् करोमि । ततश्छिन्नेषु चण्डिकास्तुतौ सप्तमाक्षरे नव्या जाताः । तथाप्युभयोर्विवादे राज्ञो10 क्तम्-काश्मीरे श्रीसरस्वती विवादं भञ्जयति । यो हारयति तेन पुस्तकानि ज्वाल्यानि । इति प्रतिज्ञाय राजपुरुषैः समं काश्मीरगमने देव्या समस्याऽर्ण्यन्त । पदे पृष्टे बाणस्य शीघ्रपूरणे मयूरस्य सविलम्बे-तथाहि (४५) दामोदरकराघातविह्वलीकृतचेतसा । दृष्टं चाणूरमल्लेन शतचन्द्रं नभस्तलम् ॥ मरेण पराभूतत्वादागत्य पुस्तकज्वालने श्रीसूर्यशतकपुस्तकेऽदग्धे उभयोर्मानदानैः राजप्रसादः । ६२६) अन्यदा राज्ञा मत्रिसम्मुखं भणितम्-पश्य भूमिदेवानां कीदृक् प्रभावः । मत्रिणोक्तम्-जिनशासनेऽपि 15 महाप्रभावोऽस्ति । यदि कौतुकं ततः श्रीमानतुङ्गाख्यं सूरिमाकार्य विलोकय । राज्ञोक्तमाकारयस्व । ततो मत्रिणा गत्वा भक्तिवचनैर्दर्शनप्रभावार्थ निरीहा अपि तत्रानीताः । राज्ञो धर्मलाभाशिषं दत्वा यथोचितासनसमासीनाः। मयूर-बाण-प्रशंसापूर्व राजोवाच-यदि भवतां काचिच्छक्तिरस्ति तत्किञ्चित् कौतुकं दर्शयत । गुरुभिरुक्तम्-अस्माकं किमपि कार्य नहि । जिनमते मोक्षार्थ एवाभ्यस्यते । तथापि शासनोत्कर्षाय दर्शयामः । ततो राज्ञा तमसि आपादमस्तकं चतुश्चत्वारिंशल्लोहशृंखलाभिर्नियंत्र्यापवरके विश्वा तालकं दत्त्वा मोचिताः । ततो 'भक्तामरस्तवः' 20 कृतः। एकैकवृत्तपाठे एकैकनिगडभङ्गे निगडसंख्यया वृत्तभणनम् । सूरयो मुत्कला जाताः। तालकं भग्नम् , स्वयं कपाटोद्घाटने निर्गत्य सभायां राज्ञ आशीर्वादं ददुः । राज्ञाऽनेकस्तुतीः कृत्वा सविनयं नत्वा कृत्यादेशेन प्रसीदत । सूरिणोक्तम्-अस्माकं कापीच्छा नहि । परं तव हिताय ब्रूमः-जिनधर्म प्रपद्यस्व । राजाऽङ्गीचकार । दानपात्रौचित्यात्रिधा दानं देयं-जीर्णोद्धारे(रं) नव्यविम्बकारणं चैत्यादिधर्ममादिश्य प्रभावनां कृत्वा सूरयः स्वाश्रयं गताः । तदाख्यातो 'भक्तामरस्तवः' अद्यापि सर्वोपद्रवहर्ता । अन्यदा कर्मवशात् सञ्जातकुष्ठोऽनशनाय धरणेन्द्र 25 ससार । प्रत्यक्षीभूयायुःशेषतया धरणेन्द्रोऽष्टादशाक्षरं पार्श्वनाथमत्रं दत्तवान् । सूरयः सर्वोपद्रवहरं तन्मत्रगर्भितं 'भयहरस्तवं कृत्वा पुनर्नवतां प्राप्ताः। ६२७) एकदा तन्नगरेशसैन्ये परदेशं प्राप्ते तद्रिपवस्तमल्पवलं ज्ञात्वा सम्भूय भूरिसैन्यैस्तनगरमावेष्ट्य तस्थुः। पौरजने व्याकुले, भयभीते राज्ञि, गोपुरेषु पिहितेषु राज्ञा वाण-मयूरादिषु पण्डितेषु तदुपसर्गोपशमनायादिष्टेषु पातालप्रवेशार्थमिव भूमिमालोकयत्सु श्रीसूरयो धवलगृहमूर्धानमारुह्य 'भयहरं' प्रकटीचक्रुः । तत्प्रभावात् तेषु 30वैरिषु स्तम्भितेषु गुरोराज्ञया तेषां घातमकुर्वन् सर्वस्वं हस्ति-हयाद्यं जग्राह नृपः। ततः सूरि राजानं नत्वाऽऽज्ञां प्रपद्य प्रसादं च प्राप्य खं खं स्थानं ययुः । ततो 'भयहरस्तवः' पठ्यमानो भयहर्ता सर्वेषाम् । इत्थं प्रभावनां कृत्वाऽन्तसमयं प्राप्य श्रीगुणाकरसूरिं न्यस्य पदेऽनशनमरणेन सूरयो दिवं ययुः। ॥ इति श्रीमानतुङ्गसरिप्रबन्धः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220