Book Title: Puratana Prabandha Sangraha
Author(s): Jinvijay
Publisher: ZZZ Unknown

Previous | Next

Page 72
________________ माघपण्डितप्रबन्धः । ७. माघपण्डितप्रबन्धः (BR. ) ९२८) अथ दत्तत्रनोर्माघस्योच्यते । माघस्य जन्मनि पित्रा जातकं कारितम् । आयुर्वर्षाणां चतुरशीतिः, परं प्रान्ते चरणशोफेन मृत्युः । पित्रा ऋद्धिप्राग्भारकलितेन षोडशवर्षादूर्द्ध दिनदिनसम्बन्धी लट्टितो हारको द्रम्माणां मुक्तः । अतिव्ययवानपीयता सुखं निर्वहिष्यते । स प्रौढः सन् पठितुं प्रवृत्तः । कवित्वं कृत्वा पितुर्दर्शयति । ईदृशानि कवित्वानि कुरुषे, पूर्वकवित्वानां शतांशेनापि न प्रभवन्ति । पुत्रेण शिशुपालवधो नाम - 5 काव्यं कृत्वा चुल्हकोपरि च्छन्नं धृतम् । एकदा पितुः पुस्तकं जीर्णप्रायं धूमेन कृत्वा दर्शितम् । पिता वाचयन् शिरोऽवधूनन् आह - वत्स ! ईदृशानि कवित्वानि क्रियन्ते । तेनोक्तम्-तात ! भव्यानि १ । किमुच्यते । तर्हि मया कृतानि । जनकेनोक्तम् - मया छलः कृतोऽतस्ते इयता कवित्वसीमा जाता । अतः परं तव कवित्वं न । स अधीत्य पितर्युपरते विलसितुं प्रवृत्तः । जन्मपत्रिकां दृष्ट्वा सशिखं हारकं व्ययीकुरुते । ९२९) तस्य भोजनृपतिना मालवाधीशेन मैत्री जाता । एकदा श्रीभोजेन मिलितुमाकारितो माघस्तत्र गतः । 10 नृपेण सगौरवं धवलगृहे स्थापितः । स्नानं कुर्वता पण्डितेन मुखं कूणितम् । नृपेण भोक्तुमुपविष्टस्य दिव्यरसवती - समाना रसवती परिवेषिता । स मुखमेव कूणयति । नृपेण चिन्तितम् - स्वगृहे किमसौ भुनक्ति । उत्थितः । पृष्टो नृपेण - रसवती कीदृशी । देव ! कदशनेनोदरं पूर्त्तम् । भव्यशीतरक्षा पार्श्वे हसंतिका च रात्रौ सुप्तः । पण्डितो नृपस्य नातिदूरे । रात्रौ पण्डितः शय्यायां पुनः पुनः पार्श्वे घातं करोति । नृपेण- किमसौ भुनक्ति, कथं शेतेऽस्य गृहे ? | अवलोकनीयं गत्वा एतत् । प्रातरुत्थिते नृपेण पृष्टम् - सुखेन निद्रा समायाता ? | देव ! रासभवद्भारितानां 1.5 निद्रा कुतः । दिनचतुष्कं स्थित्वा पण्डितेन नृपो मुत्कलापितः । राज्ञा श्रीमाले भोजखामिप्रासादः कारितः । तस्य पुण्यं पण्डितस्य प्रदाय पण्डितः सम्प्रेषितः । पण्डितेनोक्तम् - देव ! कदाचिन्ममोपरि प्रसादं विधायास्मत्पुरे पादमवधारणीयम् । एवमित्यभिधाय सम्प्रेष्य नृपः प्रत्यावृत्तः, स्वगृहमायातः । इतो द्वितीये शीततौं नृपः प्रौढकटकेन श्रीमाल प्राप्तः । माघेन सम्मुखं गत्वा नृपः स्वगृहे एव सकटकोऽप्युत्तारितः । नृपस्तु आवासमवलोकितुं प्रवृत्तः । स्थाने स्थाने विचित्रकौतुकानि पश्यन् स्थाने स्थाने धूपघटीपरिमलमाजिघ्रन्, सञ्चारभूमिमतीव परिमलाढ्यां 20 पृष्टवान् किमेष देवतावसरोपवरकः ? । देव ! एष सञ्चारकोऽपवित्रः । नृपो लज्जितः । इतो मज्जनावसरे पूर्व मर्दनिकैर्मर्दनं दत्तं यथा नृपोऽतिरञ्जितः । स्नानपीठे स्वर्णमये महाविच्छित्या स्नानं कारितः । तदनु देवदूष्यसमा नि नासानिःश्वासहार्याणि वस्त्राण्याजग्मुः । महर्ज्या देवान् नत्वा भोक्तुमुपवेशितः । स्वर्णस्थाले द्वात्रिंशत्कञ्च्चोलकैर्वृते मण्डिते क्षीरमयं पक्वान्नं परिवेषितम् । क्षीरतन्दुलमयः कूरः । एवं वटकान्यपि तस्यैव । अपराणि नानाव्यञ्जनानि परिवेषितानि । नृपश्चिन्तयति स्म य ईदृशीं रसवतीं भुनक्ति तस्य मे रसवती कथं रोचते । भुक्तोत्तरं पञ्चसु - 25 गन्धिनामताम्बूले जाते वार्त्ता विदधतो रात्रिरजनि । सर्वोपरितनभूमौ नृपाय पल्यङ्कः सञ्जितः । राज्ञोक्तम्-मित्र ! शीतकालं न जानीथ ? | देव ! जानीमः । चन्दनं सञ्जितम् । नृपस्तत्र शय्यामलंचक्रे । तत्र महान् तापश्चन्दनमर्पितम् । तालवृन्तैर्विज्यमानस्य निद्राऽऽयाता । प्रातः पण्डितेन पृष्टम् - देव ! शीतकाल उष्णकालो वा १ । उष्णकाल इति प्रत्युत्तरं ददौ । पण्डितप्रीत्या कियन्ति दिनानि स्थित्वा मुत्कलाप्य नृपः स्वपुरीं ययौ । Jain Education International १७ 30 ९३०) क्रमेणैवंविलसतः पण्डितस्य धनं क्षीणं वार्द्धक्यमपि चागमत् । इतः पण्डितेन प्रिया उक्ता(४६) न भिक्षा दुर्भिक्षे पतति दुरवस्थाः कथमृणं लभन्ते कर्माणि क्षितिपरिवृढान् कारयति कः । अदत्त्वापि ग्रासं ग्रहपतिरसावस्तमयते क्व यामः किं कुर्मो गृहिणि ! गहनो जीवनविधिः ॥ इति निर्वाहमविमृश्येत माघेन माघकाव्यपुस्तकमर्पयित्वा प्रिया माल्हणादेवी नाम्नी धारायां नृपसमीपे प्रहिता - यदमुं ग्रन्थं ग्रहणकेऽङ्गीकृत्य लक्षत्रयं द्रम्माणां ददत । सा तत्र गता नृपेण शुद्धिः पृष्टा । पुस्तकमर्पितम् । लक्षत्रयी याचिता । राज्ञा शलाका क्षेपिता । प्रातर्वर्णने पण्डितस्वरूपसूचकं काव्यं निस्सृतम् - पु० प्र० स० 3 For Private Personal Use Only . 35 www.jainelibrary.org

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220