Book Title: Puratana Prabandha Sangraha
Author(s): Jinvijay
Publisher: ZZZ Unknown

Previous | Next

Page 123
________________ ६८ पुरातनप्रबन्धसङ्ग्रहे नृपस्योपायने कृत्वा, एककोटि १६ लक्ष, वर्ष यावत् चडावके कृत्वा गृहीतम् । व्ययस्तादृगेव । केनापि कविना नृपं प्रति प्रोक्तम्(२००) एतावतैव वीसल ! पश्य प्राग्वाट-लाटयोर्भेदम् । एक इभानुपनिन्ये प्रथमश्चरमस्तु खरमेकम् ॥ 5 तेजपालेन स हस्ती ढौकने कृतः । लाटेन समराकेन वेसरश्वकः । द्रम्म लक्ष ३६ त्रुटो, द्वितीयवर्षे श्रीकरणं मुक्तम् । (२०१) बौद्धैबौद्धो वैष्णवैर्विष्णुभक्तः, शैवैः शैवो योगिभिर्योगरङ्गः । जैनस्तावजैन एवेति कृत्वा सत्त्वाधारः स्तूयते वस्तुपालः॥ ६१४६) सं० १२९८ वर्षे मन्त्री नृपं मुत्कलाप्य चलितः । नागडस्तु राणकसाथै मण्डलीं गतः । तत्र 10 तपोधनसाराविषये शिक्षा दत्त्वा अङ्केवालीआग्रामे०............प्रासादः । सरः । सत्रशालात्रयं च कारितम् । (B सङ्ग्रहे अत्र एतदेव वर्णनं किञ्चिद्विस्तारेण लिखितं लभ्यते । यथा-) {संवत् १२९८ वर्षे जातकेनायुषोऽन्तं परिज्ञाय नृपं मुत्कलापयामास-देव! क्षम्यताम् , यत्स्वामिन ऊणं खूणं वा कृतः । राजा-हे मत्रिन् ! कथमेतत् ? । देवसेवायै यास्यामि । मनिन् ! त्वं मदीय[तात]वीरधवलसमोऽतस्त्वां कथं प्रेषये । कदाचिद्देयद्रम्माणां शङ्का भवति। तदा न कार्यम् । मदीयं शरीरं तवायत्तम् , द्रव्यः किम् , 15 द्रम्माणां पत्रं विदारयिष्यामि । परं मा व्रज । मत्री प्राह-देव ! द्रम्माणां किम् ?, द्रम्मा बाह्याः । देहं तु तव पिण्डैः पोषितम् । परमवसाने प्रत्यासन्ने देव ! तीर्थसेवा युक्ता । अश्रुपातपूर्व राज्ञा बीटकं दत्तम् । मत्रिजनान् क्षमयित्वा श्रीवस्तुपालो महता परिच्छदेन सह श्रीशत्रुञ्जयोपरि चचाल । इतो राणकनागडो मत्रिप्रयाणं श्रुत्वा सम्प्रेषयितुं चचाल । मंडल्यां गतेन मत्रिणाभिहितम्-राणक! राजकार्याणि सीदन्ति । यूयं प्रसादं कृत्वा वलत । तेनोक्तम्-तव गृहे बटुरसि । तवोपजीवनेन इयतीं ऋद्धिम् । करणीयं किमप्यादिश । मत्रिणोक्तम्20 (२०२) न कृतं सुकृतं किश्चित्सतां संस्मरणोचितम् । मनोरथैकसाराणामेवमेव गतं वयः॥ राणकः प्राह-परं किञ्चन मनसि दुष्यति, ममाग्रे किं नोच्यते । देव! मयि गते सति एते वतिनो दुःखिनो भविष्यन्ति । मत्रिन्! इत्थं कथमुच्यते ? । यद्भवतां पार्थात् सुखिनः करिष्यामि । परमियं चिन्ता न विधेया। इति राणको मुत्कलाप्य वलितः । मत्री अंकेवालिआग्रामे गतः । गुरवस्तत्रोक्ताः-भगवन् ! मेऽनशनं प्रयच्छत । तत्र तेजःपालानुमत्या गुरुभिरनशनं प्रदत्तम् । मन्त्री क्षमित-क्षामणापूर्वं पञ्च परमेष्ठिनः स्मरन् स्वर्ग गतः। संस्का25 रादनु तेजःपालेनास्थीनि श्रीशत्रुञ्जये प्रहितानि । तत्र स्वर्गारोहणप्रासादः कारितः । अंकेवालिआग्रामे प्रासादः कारितः । सरोवरं च सत्रशाला च । तत्र धर्मस्थानत्रयं कारितम् । तेजःपालो यात्रां विधाय पत्तने समायातः।) ६१४७) व्यापारे वर्ष १८ तदनु बइठा ऊठि । तथा १३०८ वर्षे महं० तेजःपालेन वर्गमनाय राजा [Ps. वीसलदेवः] मुत्कलापितः । तदा द्रम्मा लक्ष २७ देया आसन् । राज्ञा मुक्ताः'। [तथा राज्ञा द्रम्मा लक्षत्रयं धर्मव्ययाय वितीर्य* ] तेजःपालः प्रहितः । श्रीसद्धं क्षमयित्वा श्रीशङ्केश्वरोपरि चलितः । चन्द्रोमाणा30 ग्रामे गतः । 'जातकमवलोकितम्-यच्चन्द्रोमाणाग्रामे पाश्चात्यप्रहरे व्ययः । मत्री अनशनमादाय दिवमगमत् । तत्र कीर्तनत्रयम् । ६१४८) अथ मत्रिणि दिवं गते श्रीवर्धमानसूरयो वैराग्यादाम्बिलवर्द्धमानं तपः कर्तुं प्रारेभिरे । श्रीशद्धेश्वरपार्श्वनाथाभिग्रहं च जगृहुः। यत्तपसि सम्पूर्णे देवं नमस्कृत्य पारणकं करिष्यामः । सम्पूर्णे जाते देवं नन्तुं , 1 B दम्मान् विमुच्य । * Ps आदर्श एवैतद्वाक्यं लभ्यते। + एतत्पंक्तिस्थाने P 'पाश्चात्यदिने दिवंगतः' इत्येव संक्षिप्तः पाठः। 1B आदर्श एतत्प्रकरणं प्राप्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220