Book Title: Puratana Prabandha Sangraha
Author(s): Jinvijay
Publisher: ZZZ Unknown

Previous | Next

Page 131
________________ पुरातनप्रबन्धसङ्घहे ६१६९) अन्यदा निशि पट्टशालास्थितश्रीविजयसेनसूरीन्नमस्कृत्य मत्री अपवरकस्थितश्रीउदयप्रभसूरीणां वन्दनाय गतः । तत्रैते न विद्यन्ते । एवं दिनत्रयं समेत्य विलोकितम् । चतुर्थदिने विनयपूर्व वृद्धगुरवः पृष्टाः । तैरुक्तम्-मत्रिन् ! अद्य कल्ये नगरेऽत्र चाचरीयाक एको महाविद्वानुपागतोऽस्ति । तस्य वचनविशेषश्रवणाय नित्यं सूरयो वेषपरावर्तेन यान्ति । तद्विज्ञाय मत्रिवस्तुपालस्तत्र गतः । सूरयः प्रच्छन्ना वीक्षिताः। प्रातः मत्रिणा 5 आकारितस्य चाचरीयाकस्य सहस्रद्वयी न्यासे कृता । इत्युक्तं च यत् त्वया पौषधशालाद्वारे चच्चरे चचरो मण्डनीयः । एवं षण्मासं मण्डितः । ततः सत्कृत्य प्रहितः। १७०) मत्रिणा श्रीउदयप्रभसूरयः पृष्टाः-कथं चतुर्विंशतिजिनेन्द्रध्यानदेव एक एव भवति । तत् कथं चतुर्विंशतिमध्ये को ध्येयः १ । गुरुभिरुक्तम्-महानयं सन्देहः । श्रीसरस्वती विना सन्देहनिर्णयो न भविष्यति । गुरुभिर्निशि देव्याराधनं विहितम् । श्रीभारत्या उच्छीर्षके श्लोकोऽयं समर्पितः10(२५१) अहं स्मरामि तादात्म्यात्तं रूढ्या परमेश्वरम्। स्थितं वाग्ब्रह्मणः पारे परं ब्रह्मेति यं विदुः॥ मत्रिणोक्तम्-अत्रापि सन्देहः । परब्रह्मेति वाक्यं सर्वाण्यपि दर्शनानि निजनिजदेवस्य कथयन्ति । गुरुभिः पुनः सरखत्याराधनं विहितम् । देव्या पुनर्निशि कथितम्(२५२) सुवर्ण.........ग्रीवामण्डनेऽन्त्यमणिद्वये । प्रभोर्यस्याङ्कितं नाम स्तुमहे परमेश्वरम् ॥ अर्हमिति सिद्धम् । 15६१७१) श्रीभृगुकच्छे श्रीमुनिसुव्रतनाथाधिष्ठायकाः श्रीबालहंससूरयो विद्वांसः । तेषां मठे घोटकसप्तशती राज्यम् । एकदा मत्री सङ्घ विधाय तत्रायातः। सर्वः स्नात्रपूजादिविधिर्विहितः। श्रीसूरयो नमस्कृताः। सूरिभिः समस्तश्रीसङ्घसमक्षमाशीवोदो दत्तः।। (२५३) अस्मिन्नसारसंसारे सारं सारंगलोचनाः । -इति वारसप्तकं पठितम् , व्याख्यातं च । ततो मत्रिणा चिन्तितम्-यत् सूरयोऽतिविषयिणः। तदनु गुरु20 भिरुत्तरार्द्धमुक्तम् यत्कुक्षिप्रभवा मन्ये वस्तुपाल ! भवादृशाः॥ ___ ततो मत्रिणा हर्षितेन ग्रामद्वादशकं श्रीदेवपादानां दत्तम् । ६१७२) एकदा वड्याग्रामे श्रीमाणिक्यसूरीणां श्रीवस्तुपालेनाकारणं प्रहितम् । परं नागताः । तदनु मंत्रिणा __ मह(०त्य ?)वदातवती विज्ञप्तिका निमंत्रणार्थ प्रहिता । तत्रेदं काव्यम्25 (२५४) इदं ज्योतिर्जालं जटलितविहायःस्थलमलं सखे मा माणिक्य प्रथय परितः सर्वहरितः। अयं गुंजापुंजाभरणसुभगंभावुकवपुः __ पुलिंद्राणा(०दाना?)मिंद्रस्तव नहि परीक्षाक्षममतिः॥ तथापि सूरयो नायाताः । तदा द्वितीयविज्ञप्तिकायां श्लोकोऽयं प्रहितः । तद्यथा “जडसंगमे प्रहषीं(?) द्विजिह्व 30 जनवल्लभोऽति तुच्छपदः । वटकूप० ।" अनेन श्लोकेन सूरयो रुष्टाः । तत आशीर्वादे विशेषावदाते श्लोकोऽयं प्रहित:(२५५) वंशार्धा परिस्फूर्त्या रे पिंजन ! विज॑भसे । गुणालीजन्महेतूनां तूलानां हृद्विपाटयन् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220