________________
पुरातनप्रबन्धसङ्घहे ६१६९) अन्यदा निशि पट्टशालास्थितश्रीविजयसेनसूरीन्नमस्कृत्य मत्री अपवरकस्थितश्रीउदयप्रभसूरीणां वन्दनाय गतः । तत्रैते न विद्यन्ते । एवं दिनत्रयं समेत्य विलोकितम् । चतुर्थदिने विनयपूर्व वृद्धगुरवः पृष्टाः । तैरुक्तम्-मत्रिन् ! अद्य कल्ये नगरेऽत्र चाचरीयाक एको महाविद्वानुपागतोऽस्ति । तस्य वचनविशेषश्रवणाय नित्यं सूरयो वेषपरावर्तेन यान्ति । तद्विज्ञाय मत्रिवस्तुपालस्तत्र गतः । सूरयः प्रच्छन्ना वीक्षिताः। प्रातः मत्रिणा 5 आकारितस्य चाचरीयाकस्य सहस्रद्वयी न्यासे कृता । इत्युक्तं च यत् त्वया पौषधशालाद्वारे चच्चरे चचरो मण्डनीयः । एवं षण्मासं मण्डितः । ततः सत्कृत्य प्रहितः।
१७०) मत्रिणा श्रीउदयप्रभसूरयः पृष्टाः-कथं चतुर्विंशतिजिनेन्द्रध्यानदेव एक एव भवति । तत् कथं चतुर्विंशतिमध्ये को ध्येयः १ । गुरुभिरुक्तम्-महानयं सन्देहः । श्रीसरस्वती विना सन्देहनिर्णयो न भविष्यति । गुरुभिर्निशि देव्याराधनं विहितम् । श्रीभारत्या उच्छीर्षके श्लोकोऽयं समर्पितः10(२५१) अहं स्मरामि तादात्म्यात्तं रूढ्या परमेश्वरम्। स्थितं वाग्ब्रह्मणः पारे परं ब्रह्मेति यं विदुः॥
मत्रिणोक्तम्-अत्रापि सन्देहः । परब्रह्मेति वाक्यं सर्वाण्यपि दर्शनानि निजनिजदेवस्य कथयन्ति । गुरुभिः पुनः सरखत्याराधनं विहितम् । देव्या पुनर्निशि कथितम्(२५२) सुवर्ण.........ग्रीवामण्डनेऽन्त्यमणिद्वये । प्रभोर्यस्याङ्कितं नाम स्तुमहे परमेश्वरम् ॥
अर्हमिति सिद्धम् । 15६१७१) श्रीभृगुकच्छे श्रीमुनिसुव्रतनाथाधिष्ठायकाः श्रीबालहंससूरयो विद्वांसः । तेषां मठे घोटकसप्तशती
राज्यम् । एकदा मत्री सङ्घ विधाय तत्रायातः। सर्वः स्नात्रपूजादिविधिर्विहितः। श्रीसूरयो नमस्कृताः। सूरिभिः समस्तश्रीसङ्घसमक्षमाशीवोदो दत्तः।।
(२५३) अस्मिन्नसारसंसारे सारं सारंगलोचनाः । -इति वारसप्तकं पठितम् , व्याख्यातं च । ततो मत्रिणा चिन्तितम्-यत् सूरयोऽतिविषयिणः। तदनु गुरु20 भिरुत्तरार्द्धमुक्तम्
यत्कुक्षिप्रभवा मन्ये वस्तुपाल ! भवादृशाः॥
___ ततो मत्रिणा हर्षितेन ग्रामद्वादशकं श्रीदेवपादानां दत्तम् । ६१७२) एकदा वड्याग्रामे श्रीमाणिक्यसूरीणां श्रीवस्तुपालेनाकारणं प्रहितम् । परं नागताः । तदनु मंत्रिणा __ मह(०त्य ?)वदातवती विज्ञप्तिका निमंत्रणार्थ प्रहिता । तत्रेदं काव्यम्25 (२५४) इदं ज्योतिर्जालं जटलितविहायःस्थलमलं
सखे मा माणिक्य प्रथय परितः सर्वहरितः। अयं गुंजापुंजाभरणसुभगंभावुकवपुः
__ पुलिंद्राणा(०दाना?)मिंद्रस्तव नहि परीक्षाक्षममतिः॥ तथापि सूरयो नायाताः । तदा द्वितीयविज्ञप्तिकायां श्लोकोऽयं प्रहितः । तद्यथा “जडसंगमे प्रहषीं(?) द्विजिह्व 30 जनवल्लभोऽति तुच्छपदः । वटकूप० ।" अनेन श्लोकेन सूरयो रुष्टाः । तत आशीर्वादे विशेषावदाते श्लोकोऽयं प्रहित:(२५५) वंशार्धा परिस्फूर्त्या रे पिंजन ! विज॑भसे ।
गुणालीजन्महेतूनां तूलानां हृद्विपाटयन् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org