________________
वस्तुपाल-तेजःपालप्रबन्धः ।
७५
यावता पुण्येन राजकुले कार्यं तावद्विधीयते । राज्ञेोक्तम्- तव व्ययेन मम किं पुण्यम् । मत्रिणोक्तम् - राजन् ! केवलमहं भाण्डागारिक इवास्मि, सकलद्रव्यव्ययफलं तवैव । इत्युक्ते राणको जगाद - मन्त्रिन् ! यद्येवं तदा द्विगुणं दानं देयम् ।
(१६४) श्रीवस्तुपालः प्रथमयात्रायां पिशुनप्रवेशभयान्मत्रितेजः पालं तत्र विमुच्य प्रस्थितः । ततो मंत्रितेजःपालस्य महाविषादः संजातः - यदहं श्रीशत्रुञ्जययात्रायां न चालितो मन्त्रिणा । तदनु राणकेन तदवलोक्य 5 गाढाग्रहेण प्रेषितः । ततस्तेजः पालेन महं० देपाक आत्मस्थाने स्थापितः । ततस्तेजः पालं समेतं वीक्ष्य मत्रिणोक्तम्-त्वया न कृतं रम्यम् । यतः प्रभुरात्मीयो न भवति । तावता द्विजवामनेनेति राज्ञोऽग्रे निवेदितम् - राजन् ! मन्त्री यात्रायै न गतः, किं तु निधाननिक्षेपाय गतः । यदि राजादेशो भवति, तदा द्रव्यमानयामि । राज्ञेोक्तम्मध्याह्ने स्मारयेथाः । यथा कटकमर्पयामि । तावता तद्विज्ञाय महं० देपाकेन मत्रिणः संढियकः प्रहितः । स्नात्रावसरे संढियकमुत्सुकं समागच्छन्तं वीक्ष्य मन्त्रिणा तेजःपालस्योक्तम् - इदं तव चरितमायाति । संढियकेन सर्व- 10 मपि निवेदितम् । मन्त्रिणा संघस्याग्रे प्रसादः समेत इति विज्ञप्तम् । निशि भ्रातृद्वयेन मत्रं विधाय निधाननिक्षेपाय मानवा अरण्ये प्रहिताः । तत्र तेषां खनतां नवं निधानमुन्मीलितं वीक्ष्य मत्रिणोक्तम् - नैवात्मनां राजभयम् । तावता द्वितीयसंढियकेनाभ्येत्य स्वरूपं कथितमिति - वामनोऽन्यायकारी राज्ञा विधृतः । पुनः प्रसादो भवतां प्रहितः । ततः कुशलेन यात्रा विहिता ।
९१६५) अनुपमया गुरवो नंदीश्वरतपः करणोद्यापनं पृष्टाः । गुरुभिरुक्तम् - वत्से ! भवत्या न प्रष्टव्यम् । तयो-15 क्तम्–कथम् ? । भवती पृच्छका, अहं कथकः । यदि न विधीयते तदा किम् । पुनरुक्तम् - भगवन् ! कथ्यताम् । गुरुभिरुक्तम् - वत्से ! जघन्यं बावनी ढौक्यते, मध्यमं बावन-बावनी, उत्तमं नंदीश्वरप्रासादः । ५२ आचार्यपद - ५२ सिंहासन- ५२ पाट एवं सर्वं विधीयते । देव्या प्रतिज्ञा विहिता - द्वितीयवेलायां तदा भोक्ष्ये, यदा प्रासादं कारयिष्यामि । गुरुभिरपि ततोऽभिग्रहो गृहीतः - वयमाचाम्लान् तदा मोक्ष्यामः, यदा भवदभिग्रहः सेत्स्यति । भोजनवेलायां देव्या मत्रिणो भाजने शालिभक्तं प्राशुकजलं च मुक्तम् । मत्रिणा कारणं पृष्टम् । तयोक्तम् - 20 भवतामभिग्रहोऽस्ति यत् गुरुदत्तशेषं भोक्तव्यम् । गुरवः पृष्टाः सर्व जगदुः । ततो वामदेवस्य सूत्रधारस्य पटं दर्शयित्वा प्रासादः कारितः ।
(१९६६) एकदा तीर्थयात्रायां श्रीशत्रुञ्जये सङ्घपतिना अवारितं सत्रागारा विहिताः । ततः सङ्घवात्सल्ये विधी - यमाने घृतं त्रुटितम् । सङ्घपतिचित्ते विषादो जात इति यद्विरंगो भविष्यति । सूरिभिः श्रीयशोभद्राख्यैर्ज्ञातम् । आकृष्टिविद्यया श्रीपत्तनात् कस्यापि गृहात् घृतमानीतम् । वात्सल्यं पूर्णमजनि । ततो गुर्वनुज्ञया तेन तावन्तो 25 द्रम्मास्तस्यार्पिताः । तेनोक्तममी कीदृशा द्रम्माः ? । तेन समग्रोऽपि वृत्तान्तो निवेदितः । तेनोक्तम् - यदि ममाज्यं श्रीशत्रुञ्जयस्योपरि साधर्मिकवात्सल्ये व्ययितं तदाहं न ग्रहीष्ये । ततस्तेन घृतवसतिका श्रीपत्तने निष्पन्ना ।
९१६७) एकदा धवलक्कके कलशप्रतिष्ठायां मिलितेषु बहुषु सूरिषु द्वौ वक्तारौ पिप्पलाचार्यौ मिलितौ । तत्र ताभ्यामनुपमदेव्यै उपदेश इति दत्तः । यतः - पात्रदानमल्पं विनोददानं बहुतरम् । अनुपमदेव्योक्तम्- नैवम् । वचः स्मृत्वा स्थितौ । ततस्ताभ्यां रात्रौ वेषपरावर्त्तेन मत्रिमन्दिरे गत्वा मत्रिदेवीपुरतो महासतीचन्दनाचरितं 30 गातुमारब्धम् । चतुर्विंशतिसहस्रद्रम्मा लब्धाः । प्रातरनुपमदेव्यै दर्शितं सर्वम् । सत्यं मानितम् ।
९१६८) अन्यदा तीर्थयात्रायां गच्छन्तो देशान्तरादागताः श्रीसङ्घा निमन्त्रिताः श्रीवस्तुपालेन । तदा मंत्री चरणप्रक्षालनं कुर्वाणः सेवकैर्निषिद्धः । तदा मत्रिणोक्तम् - " अद्य मे फलवती ० " ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org