________________
पुरातनप्रबन्धसङ्ग्रहे देपाकस्य राजादेशः प्रहितः। ततो मत्रिश्रीवस्तुपालस्य महदुपरोधेन देपाकः सदने समागतोऽपि भयेन व्यन्तरपार्श्वे नाभ्युपैति । नृपरोधेनानीतः। व्यन्तरेण सन्मानितः । इत्युक्तं च यत् त्वया तुरगाधिरूढेन श्रीवीतरागो नमस्कृतः, तत्पुण्यं मे देहि । तेनोक्तम्-कथमस्य लग्नोऽसि । व्यन्तरेणोक्तम्-अनेन......ना मया वारितेनापि मम बलीवईयुगं प्रभुतयैव गृहीतम् । तद्विरहेणाहं मृतः । ततो मयास्य पुत्रयुगं मारितम् । अस्य पातकं कथं 5 गृह्णामि, अतो मोक्ष्यामि । ततस्तेन पुण्यं दत्तम् ।
६१६०) श्रीभृगुपुरात् खंडेरायसांखुलाकः श्रीस्तंभतीर्थे श्रीवस्तुपालोपरि कटकं गृहीत्वा समागतः । तदा निर्णीतदिने संग्रामे जायमाने भूणपालेन विंशतिः शंखपत्तयः शंखं भणित्वा मारिताः । तदा मत्रिणोक्तम्-रे ! शंखमातुः शंखाः कियन्तो जाता विद्यन्ते । तदाकर्ण्य शंखः खयमुत्थितः। सोऽपि श्रीमत्रि-भूणपालाभ्यां पातितः । तदा श्रीसोमेश्वरदेवेनोक्तम्10 (२४७) श्रीवस्तुपाल ! प्रतिपक्षकाल ! त्वया प्रपेदे पुरुषोत्तमत्वम् ।
तीरेऽपि वाढेरकृतेऽपि मात्स्ये दूरं पराजीयत येन शंखः ॥ ६१६१) अन्यदा पं० सोमेश्वरदेवेनोक्तम्__ (२४८) बाणे गीर्वाणगोष्टी भजति मघवति ब्रह्मभूयं प्रपन्ने
___ व्यासे विद्यानिवासे कलयति च कलां कैशवीं कालिदासे । माघे मोघां मघोनः सफलयति दृशं चाद्य वाग्देवतायाः सोऽयं धात्रा धरित्र्यां निवसनसदनं प्रस्तुतो वस्तुपालः॥
काव्यस्यैतस्य दशसहस्रा मत्रिणा दत्ताः। तेनैव एकदा सभायां मत्रिकाव्यमिदमपाठि(२४९) पाणिप्रभापिहितकल्पतरुप्रवालश्चौलिक्यभूपतिसभानलिनीमरालः।
_ दिग्चक्रवालविनिवेशित.........श्रीमानयं विजयतां भुवि वस्तुपालः ॥ इति श्रुत्वा मत्रिणि अधोविलोकयति तेन पुनरिदं प्रोक्तम्(२५०) एकस्त्वं भुवनोपकारक इति श्रुत्वा सतां जल्पितं
लज्जानम्रशिरा धरातलमिदं यद्वीक्ष्यसे वेद्मि तत् । वाग्देवीवदनारविंदतिलक! श्रीवस्तुपाल! ध्रुवं पातालालिमुद्दिधीर्षुरसकृन्मार्ग भवान् मार्गति ॥
[एतच्छ्रुत्वा ] द्रव्यसहस्राणि चतुश्चत्वारिंशत्संख्यानि मत्री ददौ । ६१६२) एकदा श्रीशत्रुञ्जयतलहट्टिकायां श्रीसङ्घपूजायां जायमानायां [वस्खपोटली-] बंधनं कस्यापि पंडितस्थार्पितं मत्रिणा । ततस्तेनोक्तम्-तद्वीक्ष्य वस्त्रं मत्रीशाभिमुखं “कचित्तूलं कचित्सूत्रं.” इति भणिते सहस्रा दश दत्ताः । 80 ६१६३) एकदा केनापि खलेन बहुदानं दीयमानं विलोक्य राणश्रीवीरधवलस्य विज्ञप्तम्-स्वामिन् ! तव
भाण्डागारो यथेच्छं व्ययमानोऽस्ति । तद्वचनाद्विलोकनार्थ तत्रागतः। तद्दिने ब्राह्मणश्रमणवनीपकदेशांतरिणां विशेषतो दानं दीयमानं दृष्ट्वा मनसि दूमितो राणकः । राणकेनोक्तम्-मत्रिन् ! ईदृशेन व्ययेन कथं पूजयिष्यति । मन्त्रिणोक्तम्-यावान् आदेशो भवति, तावान् विधीयते । राज्ञोक्तम्-इयन्ति दिनानि कथं ममादेशो न कृतः ।
20
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org