________________
वस्तुपाल-तेजःपालप्रबन्धः। (२४१) समुद्रत्वं श्लाघेमहि महिमधानोऽस्य बहुधा
_ यतो भीष्मग्रीष्मोपमविषमकालेऽप्यजनि यः। क्षणेन क्षीणायामितरजनदानोदकतनी
दयावेलाहेला द्विगुणितगुणत्यागलहरिः ॥ २० ॥ (२४२) यः ससाननसप्तिसोदरयशाः सप्ताब्धिगम्भीरिमा
सप्तार्चिापरितसकाञ्चनरुचिः सप्तर्षिसर्गावधिः। सप्तद्वीपधरानरालिमुकुट[:]पुण्याय सप्त व्यधात्
यात्राः सप्तजगच्चमत्कृतकृती सप्त क्षिपन्दुरर्गतीः ॥ २१ ॥ (२४३) किमस्तु वस्तुपालस्य मन्त्रीन्दोः साम्यमिन्दुना । यद्दत्ते व[सु]धामेष सुधामेवापरः पुनः ॥ (२४४) नाभीपङ्कजमङ्कजन्मविधिना वृद्धेन रुद्धं हरे
स्तापव्यापदमापदुष्णमहसो लीलासरोज पुनः । किश्चैतजलजं जलप्रकृतिकं तेन श्रिया शिश्रिये
यत्पाणिनहि चेदमुष्य पुरतस्तस्थौ न दौस्थ्यं कथम् ॥ २२ ॥ (२४५) मुक्त्वापि पुण्डरीकाक्षं श्रीरिमं शिश्रिये किल ।
देहार्धनव(?)बन्धेन विरूपाक्षः प्रियां भिया ॥ २३ ॥ (२४६) अन्वयेन विनयेन विद्यया विक्रमेण सुकृतक्रमेण च । कापि कोऽपि न पुमानुपैति मे वस्तुपालसदृशो दृशोः पथि ॥ २४ ॥
॥ इति वस्तुपालसम्बन्धिकाव्यानि ॥
10
15
(G.) सङ्ग्रहगतं वस्तुपाल-तेजःपालसम्बन्धिवृत्तम् ।
६१५८) अथ व्यापारे प्राप्ते महं० श्रीतेजःपालः श्रीस्तम्भतीर्थव्यापाराय प्रहितः। तत्र नोडासईदस्यामिलितं 20 वीक्ष्य तस्य कोऽपि न भेटयति । अमात्योऽपि तद्विज्ञाय तं भेटयामास । अन्यदा तेन एकांते चिट्ठडकवाचनच्छलेन तस्य शिरश्छेदितम् । तस्य भांडागारोऽपि धृतः। सर्वमपि टीपयित्वा गृहीतम् । उपवरिकात्रये मृत्तिका वीक्ष्य सा स्वयं गृहीता । सईदभागिनेयेन राज्ञो मिलित्वा सर्व कथितम् । राजा म० तेजःपालस्य कुपितः । मत्रिणोऽग्रेऽकथयत्-भवता रम्यं न कृतम् । अकथयित्वा त्वया कथं मारितः। तेनोक्तम्-राजन् ! आज्ञोल्लंघनकारकमन्यमपि न सहामि । राज्ञोक्तम्-तर्हि उलपितविषये दिव्यं देहि, घटसर्पमाकर्षय । इति प्रतिपन्ने घटसर्पा-25 कर्षणसमये महं० श्रीतेजःपालेन सर्वसमक्षमित्युक्तम्-यन्मया सर्वमपि सईदस्य सत्कं राज्ञे दत्तम् । यदि कदापि सईदस्य धूलिर्मम गृहे तिष्ठति तदोत्स्पृखल(?)मिति भणित्वा सईदभागिनेयस्य पर्यङ्के घटात्सर्प आकृष्य क्षिप्तः। स च मृतः । सा च धूलित्रयस्त्रिंशत्कोटिप्रमाणा गृहे स्थिता ।
६१५९) एकदा कटकस्थेन राणकेन मन्त्रीशो लेखकं याचितः । मत्रिणोक्तम्-अत्र नास्ति । राज्ञोक्तम्-कल्ये समानेतव्यमेव । एवं स्थिते मत्रिणा तुरगारूढो देपाकः प्रेषितः । तेन पुरान्तश्चतुष्पथे गच्छता भक्त्या श्रीवीत-30 रागो नमस्कृतः। पश्चाल्लेखकं गृहादानीय दत्तं स्वामिनोऽग्रे । अत्रान्तरे तत्रैव पुरे कश्चिद्विजो व्यापारी वर्त्तते । तस्य पुत्रयुगं विनष्टम् । तृतीयोऽङ्गजो ग्रथिलो जातः । पश्चाद्गर्त्तायां षण्मासं यावत् क्षिप्तः । ततो व्यन्तरेणोक्तम्-व्यापारिन् ! कथं निजपुत्रसारां न कुरुषे । तेनोक्तम्-किं करोमि ? । मम देपाकपाश्र्थात् पुण्यं दापय । ततो
पु०प्र० स० 10
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org