________________
वस्तुपाल-तेजःपालप्रबन्धः। अनेन मर्मणा मंत्रिमनसि महान् विषादोजनि। तदनु तत्रत्यमंत्रिणा...... पान्निवनिष्पादितत्रिषष्टिशलाकापुरुषचरितभंडारो रात्रौ चौरवृत्त्या निःकाशितः । प्रातः सूरयो विषादिताः । चित्तनिवृत्त्यर्थं वाहरा विहिता । ततो मंत्रिणा दिनेषु सप्तसु गतेषु कस्यापि पथिकस्य हस्ते उपलेखपत्रे श्रीसूरीणां विज्ञप्तिका प्रहितेति-यदत्र तत्रभवतां भवतां श्रीसूरीणां पुस्तकमांडागारो वलितोऽस्ति । यदि कार्यं भवति तदाऽऽगंतव्यम् । श्रीसूरयस्तद्विज्ञाय प्रस्थिताः । मंत्रिणा महाप्रवेशोत्सवो विहितः तदनु मध्याह्ने श्रीसंघपूजायां श्रीसूरिभिः काव्यमिदं प्रोक्तम्- 5 (२५६) देव! स्वर्नाथ ! कष्टं क इह ननु भवानन्दनोद्यानपाल:
खेदस्तत्कोऽद्य केनाप्यहह हृत इतः काननात्कल्पवृक्षः। हुं मा वादीः किमेतत्किमपि करुणया मानवानां मयैव ।
प्रीत्या दिष्टोऽयमुास्तिलकयति तलं वस्तुपालच्छलेन ॥ (२५७) वैरोचने रचितवत्यमरेशमैत्रीमेकत्र नाकनगरं च गते द्वितीये। 10
दीनाननं भुवनमूमधश्चापश्यदाश्वासितं पुनरुदारकरेण येन ॥ ततः श्रीसूरयो मंत्रिणा विज्ञप्ताः । किमेतदधुनागमनकारणम् ? । गुरुभिरुक्तम्-वयं सरखतीपुत्रकाः, भवांश्च सरस्वतीकंठाभरणमिति । यत्र सा तत्र वयम् । इति हर्षितः ।
६१७३) श्रीवस्तुपालसभायां हरिहर-मदननामानौ पंडितौ महाकवीश्वरौ परस्परं निरंतरं विजय(विवद्य ?)मानौ स्तः।तौ द्वावपि परस्परं मत्सरं कुर्वतौ न तिष्ठतः। ततो मंत्रिणा दौवारिकस्योक्तम्-यत् त्वया एकसिन् पंडितेऽन्तः-15 स्थिते द्वितीयपंडितप्रवेशो न देयः । एकदा हरिहरे सदसि विद्याविनोदं वितन्वति मदनोऽपि समेतः । तेनोक्तम्(२५८) हरिहर ! परिहर गर्व कविराजगजांकुशो मदनः ।
द्वितीयेनोक्तम्
मदन ! विमुद्रय वदनं हरिहरचरितं स्मरातीतम् ॥ ततो मंत्रिणा प्रोक्तम्-यः पणे काव्यशतं प्रथमं विधास्यति, स महाकविः । एवं सति मदनेन नालिकेरवर्णने 20 काव्यशतं त्वरितं विहितम् । अथ हरिहरेण काव्यषष्टिः। ततो मंत्रिणोक्तम्-हरिहर! त्वया हारितम् । तेनोक्तम्
(२५९) रे रे ग्रामकुविंद कंदलयता वस्त्राण्यमूनि त्वया
___ गोणीविभ्रमभाजनानि बहुशः स्वात्मा किमायास्यते । अप्येकं रुचिरं चिरादभिनवं वासस्तदासूश्यतां यन्नोज्झन्ति कुचस्थलात् क्षणमपि क्षोणीभृतां वल्लभाः॥
ततो मत्रिणा हर्षितेन द्वावपि मानिती। ६१७४) एकदा व्यापारे व्यतीते नागडमंत्रिणि व्याप्रियमाणे श्रीवीसलदेवस्य मातुलो मूलराजः प्रातः श्रीवस्तुपालगुरुपौषधशालाप्रत्यासन्ने पथि व्रजन् लघुक्षुल्लकत्यक्तपुंजकेन खरंटितः । तदनु मंत्रिणा क्षुल्लकपराभवत्वात्तस्य करः छदापितः । बंबारवो जातः। ततो रुष्टेन राज्ञा वस्तुपालवधाय सैनिकाः प्रेषिताः । मंत्रीशोऽपि राजानमागत्येति जगाद-किं मया कृतम् ? । राज्ञोक्तम्-प्रत्यक्षमिदम् । मंत्रिणोक्तम्-अहं तवायशः सोढुं नालम् । 30 दर्शनपराभवोद्भवमयशो अपरराजमंडले याति । इति वचः श्रुत्वा विचार्य च राजापि हर्षितः । प्रसादं ददौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org