________________
७८
पुरातनप्रबन्धसङ्ग्रहे ६१७५) अंत्ययात्रायां महं वस्तुपालस्य आकेवालीयसरस पाल्यां आकली समेता। तत्र स्थितो मंत्री । भूमौ मुक्तः । श्रीसंघे तत्रागते उत्सवे विधीयमाने च मंत्रिणोऽश्रुपातः समजनि । कारणं पृष्टः । तदा मंत्रिणोक्तम्न मे संसारविषये चिंता वर्तते, परम्
सुकृतं न कृतं किंचित् ॥१॥ 5 (२६०) नृपव्यापारपापेभ्यः सुकृतं खीकृतं न यैः। तान् धूलिधावकेभ्योऽपि मन्ये मूढतरान्नरान् ॥
(G.) सङ्ग्रहगतं वीरधवलवृत्तम् ।
६९७६) अथ श्रीवीरधवलवारके नांदउद्रीपालितः, अढारहीउ बडूउ हरदेवः बड्याचाचरीयाकस्य शिष्यः । अन्यदा आशापल्यां समेतः । ततो दिवससप्तके जाते तत्परिवार इति कथयति-शंबलं नास्ति किंचित् । चाचरं क्षिपत । स भणति-स्थिरीभवत । अहं नित्यं नगरमनुष्यमनोऽभिप्रायं विलोकयन्नसि । इतश्च महाराष्ट्रीयो गोविंद10 चाचरीयाकः समाययौ । यस्याष्टादशपुराणानि अष्टौ व्याकरणानि चउपईबंधेन मुखपाठेनागच्छंति । तेन. चच्चरः क्षिप्तः । पारूथाद्रम्माश्चतुर्विंशतिसहस्रसंख्यका मिलितास्तस्य । ततो हरदेवचाचरीयाको विशेषतः परिच्छदेन प्रोत्साहितो लवदोसिकहढे सायमुपविष्टः । ततस्तेन सहजतो वातां कुर्वाणेन सीतारामप्रबंधः कथयितुमारेभे । प्रथमं दश द्वादश जना मिलिताः । क्रमेण बहवः । मध्यरात्री सुखासनाधिरूढा अमात्याद्याः शृण्वंतः संति ।
इतश्वोत्थितः यथा श्रोतॄणां विधातो न भवेत्तथा भणन् बहिः साभ्रमतीनदीतीरं गतः । ततो गानं विसृष्टम् । 15 ततः शीतभीता लोका इति वदंति-यत्त्वं तथा कुरुष्व यथा सुखेन नगरे गम्यते । ततस्तेन पुनरुत्तररामचरित्र
गानमारब्धम् । तदनु सोऽपि जनः परमरसमनश्चतुष्पथे समानीतः। ततो लोकेन मुद्रिका-पट्टकूलादि-दानेन द्रामलक्षत्रयी दत्ता। (G.) सङ्ग्रहगतं वीसलदेववृत्तम् ।
६१७७) श्रीजिनदत्तसूरिशिष्येण पं० अमरनाम्ना कोऽपि देशांतरी निरामयो विहितः । तेन श्रीसारस्वतमंत्रो 20 दत्तः । तत्प्रभावान्महाकविरभूत् । ततः पं० सोमेश्वरदेवसान्निध्यात् प्रथमं गद्यभारतम् , तदनु च्छेकभारतं च
चकार । ततः सोमेश्वरदेवेन श्रीवीसलदेव इति विज्ञप्तः-राजन् ! कविः कर्ता एव, परं राजा ग्रंथं वर्त्तापयति । इत्युक्ते ग्रंथविलोकनहेतोः पूजा विहिता । शलाकया श्लोको विलोकितः । तद्यथा
दधिमथनविलोलल्लोलगवेणिदंभा०॥१॥ ततो वेणीकृपाण इति विरुदं जातम् । ग्रंथो विदितो जातः । श्रीबालभारते समग्रेऽपि निष्पन्ने निशि व्यासेन 25 चोरितं पुस्तकम् । प्रातर्यावद्विलोकयति तावता पुस्तकं नास्ति । महाविषादोऽजनि । तावता व्यासेनोक्तम्-कथं विषादं कुरुषे । त्वया मम सपादलक्षग्रंथस्य चौर्यवृत्तिर्विहिता । अन्यत् मम नामापि न गृह्णासि । तव ग्रंथः कथं वर्तिष्यते । एवमुक्त्वा पुस्तकमर्पितम् । त्वद्विचारे यत्समायाति तद्विधेयम् । ततः प्रातश्चतुश्चत्वारिंशत्सर्गधुरि एकैकं नवं काव्यं चकार । अन्यदा श्रीबालभारते जगद्विदिते जाते वायडज्ञातीयमजाजैनवाणउटीपद्मनाम्ना पं० अमरस्येति गदितम्-पंडित! तव चेत् सरखत्यपि प्रसन्ना जाता । तर्हि कथं मिथ्यात्वं स्वीकृतम् ? । कथमा30त्मीये चरित्राण्यपि न विद्यते ?-इति प्रतिबुद्धेन पंडितेन त्रिषष्टिशलाकापुरुषचरितं पद्मानंद*नामा ग्रंथः कृतः।
. * एतच्छब्दोपरि पृष्टस्याधोभागे एवंरूपा टिप्पणी लिखिता लभ्यते-"तत्रारम्भः-मद्गोर्मिथ्यापथभ्रान्ता नाति श्रान्तिमलच्छिदे । चतुर्विंशतितीर्थेशचरित्रामृतसागरे ॥"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org