________________
वीसलदेववृत्तम् । ६९७८) श्रीवीसलदेवस्याग्रेऽवसरे जायमाने रागानभिज्ञस्य राज्ञो रागसंकेताः कृताः संति श्रीनागलदेव्या । श्रीरागस्य शरीरं, वसंतस्य कुसुमं, भैरवस्य भेरीरवः, पंचमस्यांगुलिपंचकं, मेघरागस्याकाशः, नट्टनारायणस्य चक्रं, कानडा कर्णः, धनासी धान्यं, नाटसारि पासकः, सोरठी पश्चिमा, गूर्जरी सिंहासनं, देवशाखायां द्वारशाखादर्शनम्-एवम् । एकदा कोऽपि बइकारः समागतो देवशाखायामवलगां करोति । राजा रागं न वेत्ति । राज्ञी तु वारं वारं द्वारशाखां दर्शयति । एवं बइकारेणोक्तम्-राज्ञि! भवती चेत् द्वारशाखां विदारयति, ततोऽपि राजा 5 न वेत्ति । इत्युक्ते राजा हसितः ।
$१७९) एकदा श्रीवीसलदेवेन नागलदेव्यग्रे न्यगादि-यन्मां रागपद्धति शिक्षय । एवमुक्ते दिनपंचसप्तकानंतरं यवनिकांतरितया देव्या बहुदासिकाभिः प्रत्येकं तदेव कार्य निजगदे । राज्ञोक्तम्-देवि! किमेतत् सर्वा अपि दासिकास्तदेव कार्य निगदंति ? । देव्योक्तम्-देव! काः कियंत्योऽभूवन् ? । राज्ञा सर्वा अपि नामग्राहं कथिताः । देव्यूचे-राजन् ! रागपद्धतिरेवमेव ज्ञायते । ततो देव्या वीणामादाय राजा रागान् सर्वानपि शिक्षितः। 10
६१८०) अन्यदा मध्यरात्रौ नागलदेवी राज्ञश्चरणसंवाहनं कुर्वाणा श्रांता । ततस्तयोक्तं वृद्धमहिलीबउलीपुरःयत् त्वं चरणसंवाहनं कुरु । अहं श्रांतासि । ततो मयणसाहारेणोक्तम्-यत् त्वं आत्मानं पखाउजीपुत्रीत्वं न वेत्सि । पखाउजसत्कं भोजनं कुसणाती निर्विण्णा न । अधुना खिन्ना । ततो रुषितया (रुष्टया?) तया मयणसाहारस्य नासाच्छेदः कारितः। ततो देवगिरौ गतः । राज्ञा सिंहणदेवेन पृष्टः । तेनेत्युक्तम्-अत्र स आगच्छति यस्य नासा न स्यात् । इति श्रुतेन नूतना नासा कुतोऽप्यानीय तत्क्षणमारोपिता । लग्ना । अन्यदा पुन: 15 श्रीपत्तने समागतः । राज्ञा पृष्टः स वक्ति-अन्यस्य समीपे नासा याति । परं सिंहणदेवसमीपे गतापि समागच्छति । इति हृष्टेन प्रसादो दत्तः।
६९८१) श्रीवीसलदेवस्य द्वारभद्देन नीराजनावतरणसमये प्रचुराकारणैरागताया नागलदेव्याः कथितमितिकथं आत्मानं न जानासि । इयती वेलां विलंबसे । इति कथिते कुपिता[ऽत्यर्थं] तद्वचनेन । मारणे गाढाग्रहां मत्वा राज्ञा न मारितः, किं तु मयणसाहारस्य नेत्राकर्षणं कृतम् । तेनापमानेन स मालवपतिनरवर्मसमीपं 20 गतः । तेनावर्जितेन ग्रासशासनादि समर्पितम् । एकवेलं राज्ञा कथितम्-मदन ! वीसलेन राज्ञा तव नेत्रे कथं कर्षिते ? । गाढाग्रहं पृष्टेन तेनोक्तम-विवेकनारायण! गर्जरधराधिपतिरस्मत्स्वामी विवेकबहस्पतिः । यथा रणभन्नस्य नृपाधमस्य मुखमसाकीनानि पात्राणि द्वारभट्टादीनि न पश्यति । अत एवं विहितम् । स नरवर्मराजा वीसलेन वारत्रयं भग्नोऽस्ति । श्रुत्वैव स्थितः। [ज्ञातं ] चरपरंपरया श्रीवीसलदेवेन । मयणसाहारः समाकारितः । अतीव मानं दत्तम् । एकदा पृष्टम्-कथमीदृग्वाक्येन नरवर्मराज्ञो विषादो न जातः ? 125 तेनोक्तम्-स उभयवंशविशुद्धः, न भवादृशः । यतः-भवान् (भवत् ? ) पितृपक्षे लूणसीहः स पदातिमात्रः । मातृपक्षे महिषीभक्षका जेठेया इति । राज्ञा किमपि न कथितम् ।
६१८२) एकदा श्रीवीसलदेवस्य दक्षिणे चक्षुपि अंजनीरोगो जातः । तद्यथा दिनत्रयस्य मध्ये बहुभिरुपचारैरपि नोपशमति । ततोऽरिसिंहराजवैद्यस्याकारणं प्रहितम् । तेन समेतेन गदितं इति-अहो प्रधाना! विहिते भेषजे राज्ञो घटिकाचतुष्टयं यावन्महती व्यथा भविष्यति । तदाहं मार्यमाणो रक्षणीयो भवद्भिः। तैरुक्तम्-भवतु । 30 इत्युक्ते भेषजं दत्तं वैद्येन । ततो विशेषेण वेदना जाता । ततो राज्ञोक्तम्-अमुं मारयत । परं स रक्षितः। अथ घटिकाचतुष्कादनंतरं निरामयेन राज्ञा वैद्यस्यामंत्रणं प्रेषितम् । प्रधानरुक्तम्-स मारितः । राजातीव दुःखितोऽभूत् । तदनु समानीतो वैद्यः । तत्पुरो राज्ञोक्तम्-मम भेषजं कथय, अन्यथा मारयिष्ये । व्यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org