________________
पुरातनप्रबन्धसङ्घ
सर्वसाधारणा । त्वं तु कुत्रापि यास्यसि । अतोऽहं सर्वविदितं औषधं विधास्ये । तेन पीलूकुलीयकः कथितः । ततो राज्ञा सन्मानितः । बहुद्रव्यं दत्तम् । औषधं सर्वत्र विदितं कृतम् ।
$ १८३) अन्यदा आशापल्यां राजीमतीछिंपिकया गुरुपार्श्वे आगमोक्ततपांसि द्वात्रिंशन्मितानि कृतानि । तत आंबिलवर्द्धमानतपोऽभिग्रहे गुरुभिरुक्तम् - यत्तपसि क्रोधो न विधीयते । क्रोधेन तपःक्षयो भवति । इति 5 क्रोधस्याभिग्रहो गृहीतः । एवं राजश्रीवीसलदेवस्य सदसि महं० सात्कस्य व्यासस्य च होडा जाता । यन्मनुष्यः सक्रोधो भवत्येव । मंत्रिणोक्तम् - अहमक्रोधिनं दर्शयिष्यामि । ततो वंठपार्श्वात्तुरगखुरै रंगभांडभंगे कृते तस्याः, तया तु तुरगचरणानां शीतलजलेन क्षालनं विहितम् । राज्ञा तदवगत्य तस्याः पंचांगप्रसादः, सर्वांगाभरणानि दत्तानि । ततस्तया तेन द्रव्येण प्रासादः कारितः ।
८०
१८४) मंत्रिणि श्री [ वस्तुपाले] दिवंगते पं० सोमेश्वरदेवेन व्यासविद्यासमर्थिता ( ०र्थना ?) त्यक्ता । ततः 10 श्रीवीसलदेवेन महानप्युपरोधो विहितः । विशेषग्रासलाभोऽपि दर्शितः । परं [तेनोक्तम् - मंत्री श्री ] वस्तुपालस्याग्रे व्यासविद्यां विधाय नान्यस्य पुरो विदधामि । ततो राज्ञा गणपतिनामा व्यासः कृतः ।
( अत्रार्द्धप्राया पंक्ति
20
25
१९८६) अथ भद्रेश्वरे वसाहजगहूनामा वसति । अन्यदा राजकीयप्रवहणे वाजिपंचक राशिर्विहितः । आग15 च्छमानं यानं तटे एव भग्नम् | राजा समुद्रोपकंठे विलोकनाय गतः । तत्र समेतेन मनुष्येणैकेन प्रवहणमध्यस्वरूपं समग्रमपीति कथितम् । याने १४४ घोटका आसन् । तेषां मध्यात् प्रधानाश्वपंचकं वसाहजगडूकस्य । तेषां मध्ये करडाकनामा सर्वोत्तमस्तुरगो विद्यते । ततो वसाहेनोक्तम् - मदीया अश्वाः समेष्यंत्येव । राज्ञोक्तम्कथमस्माकं तुरगा यास्यति, कथं तवोद्गरिष्यंति ? | वसाहेनोक्तम् - तवापि ममापि च भाग्यं सदृशं नेति वार्त्ता कुर्वतोर्द्वयोः समुद्रान्तश्चतुर्भिस्तुरगैः सह करडाकः प्रकटीबभूव । समागतश्च सकलोऽपि लोकश्चमत्कृतः ।
$ १८५) पुरा मुद्गलबंदीकृतवसा हजगड श्रीवीसलदेवेन दुर्गादागत्य निशि ...... र्नष्टा ) .. ...... द्रव्यमादाय नष्टः । भद्रेश्वरे व्यवहारी जातः ।
(१८७) अन्यदा सं० १३१५ वर्षे दुर्भिक्षकाले श्रीवीसलेन चणकत्रुटौ भद्रेश्वरव्यापारिणो नागडस्य लेखः प्रहितः । जगकोऽत्र धृत्वा समानेतव्यः । तेन तस्य लेखं दर्शयित्वा श्रीपत्तने तेन सह गतः नागडः । सर्वायपि रंककुटुंबानि तत्रागतानि । तेषां दानं दातुमारब्धम् । ततः स्थालैः ३६० तटा कृता । विशुद्धवेपाणां वणिक्पुत्राणां मध्ये तं सामान्यवेषस्थं वीक्ष्य राजा नोपलक्षयति । ततो मंत्रिणा दर्शितः । राज्ञोक्तम्-कथमीश एव वेषः । तेनोक्तम् - राजन् !
(२६१) तन्वंति डंबर भरैर्महिमा न मन्ये श्लाघ्यो जनस्तु गुणगौरवसंपदैव । शोभाविभूषणगणैरितरांगुलीनां ज्येष्ठत्वमेव रुचिरं खलु मध्यमायाः ॥
इति अष्टादशखंडै: सिंगिणिर्विदेशराज्ञा प्रहिता तस्यार्पिता । उक्तं च - राजन् ! किमर्थमहमाकारितः १ । राज्ञोक्तम् – चणकहेतोः । तेनोक्तम् - मयानंतगुणं लाभं विचार्य कणकोष्ठागाराः सर्वेऽपि रंकहेतोर्दत्ताः । राज्ञो - क्तम्-तर्हि मया वडरंकेन भाव्यम् । एवं हर्षितेन मूढकशत १८ चणकसमर्पणं विहितम् ' ।
+ अत्र पृष्टस्योपरितनभागे एतादृशी टिप्पणी
Jain Education International
अ य मूडसहसा बीसलदेवस्स सोल हम्मीरा । एकवीसा सुलताना पर्यादिन्ना जगड दुकाले ॥ नवकरवाली मणिअडा तिहिं अग्गला चियारि । दानसाल जगडूतणी कित्ती कलिहि मझारि ॥ निर्यातदानदाता हरिकांता हृदय हार शृंगारः । दुर्भिक्षसंनिपाते त्रिजगडू जगडू चिरं जीयात् ॥
For Private Personal Use Only
www.jainelibrary.org