________________
विश्वासघातकविषये नन्दपुत्रप्रबन्धः ।
३६. विश्वासघातकविषये नन्दपुत्रप्रबन्धः (B. )
।
६१८८) एकदा पाटलीपुरे नन्दो नृपस्तस्य भानुमती देवी | एकदा नृपस्त्वाखेटकं गतः । तत्र भोजनवेला जाता। नृपो देवीदर्शनं विना न भुनक्ति । इतो वररुचिना देवी भारतीप्रसादाद्देवीरूपं कृतम् । गुह्यदेशे बिन्दुः पपात । एकवेलमपाकृतः । पुनस्तथैव । तेन चिन्तितमत्रास्ते । राजा देवीं निर्वर्ण्य हृष्टो भुक्तव । बिन्दुं दृष्ट्वा कुपितो नूनमसावन्तःपुरे विनष्टः । राजा रक्षकेण च्छन्नं वररुचिर्मारितः । आरक्षकेण भूमिगृहे स्थापितस्तस्य पुत्रान् 5 पाठयति । इतो नृपस्य तनयो राजपाट्यां गतोऽश्वापहृतो वनं ययौ । अश्वस्तु मुक्तमात्रो मृतः । कुमारोऽपि फलास्वादं कृत्वा वासार्थं वृक्षं प्राप्तः । तत्र उपरि रिछोऽस्ति । इतो नरगन्धाद् व्याघ्रः समायातः । कुमारः प्राणभयाबृक्षमारूढः । रिछेनोक्तम् - एहि एहि त्वं ममातिथिः । व्याघ्रस्तु वृक्षमूले स्थितः । रिंछेनोक्तम् - व्याघ्रस्य मम वैरमस्ति । त्वया तु न भेतव्यम् । कुमारस्तस्य समीपं गतः । रिंछेनोक्तम् - स्वस्थीभूय निद्रां कुरु । स रिंछांके शिरो दत्वा सुप्तः । व्याघ्रेणोक्तम्- भो ! रिंछामुं नरं यद्यर्पयसि तदाऽऽवयोः प्रीतिः स्यात् । आवां स्वजनावेकत्र 10 वनवासिनौ । तेनोक्तम्-नाहं विश्वस्थनः । अमुं युगान्तेऽपि नापयामि । इतः कुमारो जागरितः । रिछेनोक्तम्त्वं जागृहि शयनमहं करोमि । परमसौ मां याचयिष्यति । असौ कपटवानस्ति । त्वया तु मलिनता न कार्या । एवमुक्त्वा स्वकेशान् शाखायां बद्धा सुप्तः । इतो व्याघ्रेणोक्तम्- भो राजपुत्रा ममापय । यथा त्वां जीवन्तं मुञ्चामि । अन्यथा वनात्कथं यास्यसि । असौ मलिनोऽस्ति प्रातस्त्वां हत्वा खादयिष्यति । कुमारेण रिंछस्तद्वचसा क्षिप्तः । स केशैर्बद्धैः स्थितः, न पतितः । तेन कुमार उक्तः - रे किमिदम् ? अधुना किम् ? । स चरणयोर्निप- 15 त्याह-अहं भुल्लः । तेनोक्तम्-त्वं वचनाद्भष्टः । अतस्ते तत् यातु । तेन सदैन्यमुक्तः - अनुग्रहं देहि । तेनोक्तम्'विसेमिरा' एवं जल्पसि । यदि कोऽप्यमुं व्याख्यानयिष्यति तदा ते वचः पटुतरं स्यात् । इतः प्रभाते तुरगपदैः सैन्यमायातम् । व्याघ्रस्तु वनं गतः । रिंछोऽपि गतः । कुमारः पुरमाययौ । परं 'विसेमिरा' एतदेव वक्ति । मात्रिकैर्जल्प्यमानोऽपि तदेव वक्ति । पण्डितेन आरक्षकः पृष्टः - नृपसभायां का वार्ता ? । स्वरूपं श्रुत्वोक्तम्- मां तत्र नयसि तदा सञ्जं करोमि । तेनोक्तम् - चल | ... कथमाकारणं विना गम्यते १ । आरक्षकेण नृपः पृष्टः - देव 120 मम गृहे युवत्येकाऽऽयातास्ति सा सञ्जीकरिष्यति । नृपेणाहूता । पण्डितः स्त्रीवेषो नृपसभां गतः । यवनिकान्तरितः स्थितः । कुमारो जल्पितस्तेन
(२६२) विश्वासप्रतिपन्नानां वञ्चने का विदग्धता । अङ्कमारुह्य सुप्तस्य हन्तुः किं नाम पौरुषम् ॥ इत्युक्ते आद्याक्षरो मुक्तः । (२६३) सेतुं गत्वा समुद्रस्य महानद्याञ्च सङ्गमे । ब्रह्महा मुच्यते पापान्मित्रद्रोही न मुच्यते ॥ इति द्वितीयाक्षरः ।
Jain Education International
(२६४) मित्रद्रोही कृतघ्नश्च यो वै विश्वासघातकः । तावत्ते नरकं यान्ति यावच्चेन्द्राश्चतुर्दश ॥
[ इति तृतीयाक्षरः । ] (२६५) राजंस्त्वं राजपुत्रस्य यदि कल्याणमिच्छसि । देहि दानं द्विजातीनां वर्णानां ब्राह्मणो गुरुः ॥
[ इति चतुर्थाक्षरः ।]
पु० प्र० स० 11
For Private Personal Use Only
८१
25
30
www.jainelibrary.org