________________
पुरातनप्रबन्धसङ्ग्रहे (२६६) नगरे वससि हे बालेऽटव्यां नैव यास्यसि।
सिंहव्याघ्रमनुष्याणां कथं जानासि भाषितम्॥ (२६७) देव! द्विजप्रसादेन जिह्वाग्रे मम भारती।
तेनाहं नन्द ! जानामि भानुमतीतिलकं यथा ॥ 5 नृपेणोपलक्ष्य पण्डितो मानितः । आरक्षकस्य प्रसादो दत्तः।
॥ इति विश्वासघातकविषये नन्दपुत्रप्रबन्धः॥ (G.) सङ्ग्रहे नन्दनृपोल्लेखः। - ६१८९) पाटलीपुरे नंदनामा नृपोऽजनि । महाकृपणः कस्यापि किमपि न दत्ते । ततः सर्वेषां द्वेष्योऽजनि ।
अत्रांन्तरे कालदोषेण स मृतः । तदनु परकायप्रवेशविद्यासिद्धद्विजेन राज्ञः शबे स्वात्मा निवेशितः। ततः शबं 10 समुत्थितम् । सकलराजलोकस्य महानंदोऽजनि । सर्वेषां राज्ञा प्रसादो दत्तः । मंत्रिणः सर्वेऽपि तदौदार्य विलोक्य पुरे द्विजदेहसंस्कारं कारितवंतः । स एव राजा कृतः।
३७. वलभीभङ्गप्रबन्धः ( P.) ६ १९०) मरुमंडले पल्लीग्रामे काकू-पाताको भ्रातरौ । तयोर्लघुधनवान् । ज्यायांस्तु तद्गृहे वृत्त्या वर्तते । एकदा प्रावृट्काले लघूक्तिः-केदारास्ते स्फुटिताः । स्वकर्म निन्दन् कुद्दालस्कन्धो यावद्याति तावत्कर्मकराः सेतून् 15 बन्धयन्ति । के यूयम् ? । तैः प्रोचे-भवद्भातुः कर्मकराः । मदीयाः क्व सन्ति । वलभ्याम् । गतस्तत्र सः, गोपुरसमीपे आभीराणां संनिधौ तार्णगृहे स्थितः। अत्यंत कृशतया तै रंक इति नाम कृतम् । इतः कोऽपि कार्पटिको कल्पप्रमाणेन रैवतशैलादलाबुना सिद्धरसकूपात तुंबिका भृता । तामादाय कावडिमध्ये गुप्तीकृता मध्ये मार्गस्य याति । तुंबकमध्यादशरीरिणी 'काकूइ तूंबडी' इति वाणीमाकर्ण्य जातविस्मयभीर्वलभ्यां तस्य च्छमिनो वणिजः समनि समागतः। तत्र सरंक इति ज्ञात्वा पूर्वनामभीतः सरसमलाबु तत्र स्थापयांचक्रे । स्वयं सोमेश्वरयात्रायां गतः । 20 गलदिन्दुनाऽधस्तापिका स्वर्णमयी। सिद्धरसं मत्वा सर्व कृष्ट्वा गृहज्वालनं कृतम् । सर्वजनस्य समक्षं रोदति । स्वच्छद्म प्रकटीकरणम् । लोकैः पर्यवसापितस्तथैव प्रज्वलितं गृहं मुक्त्वाऽन्ये गोपुरे गृहं कृतम् । तत्र मोगाः संति । तसिन् साहसादुवास स निर्भयः । क्षेत्रे रात्री वसति । पत्नी प्रति गृहे वक्ति पतामि ३ । प्रातः कथितम् । सा क्षेत्रे स्वयं गृहे । पुनः शब्दे पतेति प्रोक्तः। स्वर्णपौरुषसिद्धिप्रदः । सत्त्वैक-अगण्यपुण्यप्रभावात् स्वर्णपुरुषसिद्धिः । तत्र प्राज्याज्यक्रयः । अन्यदा घृतभांडमक्षीणं प्रेक्ष्य सुस्थके चित्रकवल्ली दृष्टा । स्त्रियाः कैतवेन
अधिः । अथ स्वसताया रत्नखचितकांचनकंकतिकायां राज्ञा स्वसताकते प्रसभमपहतायां तद्विरोधो जातः। “काके शौचं०॥" सोऽपि म्लेच्छान् वलभीभंगाय । यदृच्छास्वर्णदानम् । तदनुपकृत एकश्छत्रधरो निशि राज्ञि सुप्तजाग्रदवस्थे पूर्वसंकेतितनरसमालापः । अस्मिन् स्वामिनो नास्ति विचारलेशोऽपि, न परमपि पृच्छति । रंकवणिजा प्रेरितः सूर्यपुत्रं शिलादित्यं प्रति याति । प्रातः प्रयाणविलम्बं दृष्ट्वा तस्य स्वर्णदानम् ।
पुनर्द्वितीयदिने पुनः "सिंहस्सैकपदं० ॥ कः स्थास्यति मे स्वामिनः०।" प्रयाणम् । 30 १९१) खेडमहास्थाने देवादित्यसुता बालविधवाऽर्कसंमुखावलोके सौर मंत्र जपति । तेनैव भुक्ता । गर्भः।
लज्जमानेन पित्रा वलभ्यां प्रस्थापिता। पुत्रजन्म । सोऽष्टाब्दः । लेखशालापराभूतो पितृनामानवगम्य मर्तुकामोऽर्केण करे कर्करोऽर्पितः । सापराधे शिलाऽन्यथा तवैव सा इत्युक्तः । ततः शिलादित्यः । तत्पुरनपेण परीक्षायै
25 ग्रहीता
कापण्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org