________________
वलभीभङ्गप्रबन्धः। तथाकृते मृते राज्ञि स एव राजा । अर्कदत्ताश्वारूढो नभश्वर इवेच्छाविहारी । जैनः । शत्रुञ्जयोद्धारकः । कदा. चित् सौगतैस्तमधिष्ठितम् । तद्भागिनेयो मल्लनामा क्षुल्लः वेषपरावर्तेन बौद्धपार्श्वे । खे भारत्योक्तम्-के मिष्टाः । वल्लाः । षण्मासान्ते-केन सह । घृतगुडाभ्याम् । इत्युक्ते तुष्टा भारती । जिताः सौगता निष्कासिताः। शिलादित्येनाचार्यपदं कारितम् । श्रीमल्लवादिसरिः ।
६१९२) इतो वलभ्याः श्रीचन्द्रप्रभविम्बं सांबाक्षेत्रपालादि अधिष्ठातुर्बलेन व्योम्नि शिवपत्तने गतम् । अश्विनीपू- 5 र्णिमास्यां रथाधिरूढा श्रीवीरप्रतिमा श्रीमालपुरे । ततः पूर्देवतया श्रीवर्द्धमानसूरीणां बहिभूमौ रोदनेन ज्ञापनम् । (२६८) का त्वं सुंदरि जल्प देविसदृशे किं कारणं रोदिषि
भंगं श्रीवलभीपुरस्य भगवन् पश्याम्ययं प्रत्ययः। भिक्षायां रुधिरं भविष्यति पयो लब्धं भवत्साधुभिः
स्थातव्यं मुनिभिस्तदेव रुधिरं यस्मिन् पयो जायते ॥ पुरीसमागताः श्रावकाणां पुरः प्रोच्याशिवं चलिताः । तैश्च समं शकटसहस्र १८ चलिताः । मोढेरपुरे रुधिरं पतगृहे पयो जातम् । पुरीपरिसरे म्लेच्छाः । रंकेण पंचशब्दवादकान् बहुवर्णेन विभेद्य तस्य तुरगस्यारोहणकाले एव क्रियमाणे पंचशब्दसाराविणे तार्थ्यवदुड्डीय स दिवमुत्पतितः। किंकर्तव्यतामूढः शिलादित्यस्तैर्निजन्ने । "भवंत्युपा०॥" "तावचंद्र०॥" (२६९) पणसइरी वासाइं तिन्निसयाइं अइक्कमेऊणं ।
15 विक्कमकालाउ तओ वलहीभंगो समुप्पन्नो ॥
॥ इति वलभीभङ्गप्रबंधः॥
(G.) सङ्ग्रहे वलभीभङ्गवृत्तम् ।। .६ १९३) अथ पातसाहिकटके चलिते यवनव्यंतर एको वलभ्यामुपागतः। कुत्रापि प्रवेशं न लभते । कियद्भिर्दिनैः कपिशीर्षमेकं रिक्तं वीक्ष्य स्थितः। ततस्तत्र कश्चिद्दरिद्री द्विजो नित्यमग्निहोत्रहेतोः कपिलगोघृतमादातुं स्वां भार्या 20 प्रहिणोति । तया विषण्णतया तद्व्यंतरावेशेन खरमूत्रमानीयार्पितम् । तेन होमो दत्तः। प्रातर्यावता विलोकयति तावता सुवर्ण दृष्टम् । नित्यमेवं विधत्ते । ब्राह्मण्या तु निजसख्या अग्रे कथितम् । एवं परंपरया पुरे सर्वत्र खर[मूत्रहोमोजनि । तेन पुरं निर्दैवतं जातम् । यवनव्यंतराः प्रसृताः सर्वत्र । ततो यवनकटकमागतम् । . . ६१९४) वलभ्यां श्रीदेवचन्द्रसूरयो रात्रौ सुप्ताः कांचन देवतां प्रत्यक्षां द्वादशवर्षरूपां पश्यंति स्म । पृष्टं च-"का त्वं सुंदरि०॥" तत्स्वरूपं परिज्ञाय गुरुभिः श्रीसंघस्य राज्ञश्च निवेदितम् । ततः कियानपि श्रीसंघो निःसृतः। 25
६१९५) अथ राज्ञोक्तम्-भगवन् ! निजव्यंतरैः शुद्धिः कार्या। ततः सूरिभिर्निजव्यंतरद्वयं प्रहितम् । तत् द्वयं वलमानं यवनव्यंतरैधृतं, कुट्टितं च । दिनत्रयं स्थापितं च । तावता गुरूणां उसेरिर्जाता । दिनत्रयं यावत् कटके चलिते मुक्तम् । ततस्ताभ्यां समग्रमपि स्वरूपं श्रीपूज्यानां निवेदितम् । गुरवो गताः । राजा स्थितः । अश्विनीपूणिमादिने रथयात्रायां श्रीमालपुरे श्रीमहावीरः, कासद्हे श्रीयुगादिदेवः, हारीजे श्रीपार्श्वनाथः, श्रीशत्रुजये बलभीनाथश्चाययो । तदनु रंकेण सर्वेऽपि यवना रणे क्षिप्ता मारिताः।
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org