________________
पुरातनप्रबन्धसङ्ग्रहे
३८. श्रीमाताप्रबन्धः (B.P.) ___६१९६) पूर्वस्यां लखणावतीपुरी। राजा लखणसेनः। तस्यान्वये राजा रत्नपुञ्जः। तस्य राजपाट्यां व्रजतः काचित् स्त्री सगर्भा अक्षतपात्रकरा सम्मुखा जाता। नृपेणाक्षतपात्रनालिकेरोपरि दुर्गा निविष्टा दृष्टा । नृपेण शाकुनिका पृष्टः । तेनोक्तम्-अस्याः सुतोत्र नृपो भावी । राज्ञा आरक्षक आदिष्टः-यदेनां प्रछन्नं परावहिर्नीत्वा गायां 5क्षिप । सा तलारेण नृपादेशादहिनीता । तयोक्तम्-क मां नयसि । तेनोक्तम्-मारयिष्यामि । तया भयभीतयोक्तम-अहं बहिर्भूमौ यास्यामि । सा गता। भयाद्दर्भः पपात । सा चीवरेणावेष्ट्याययौ । तैारिता सा। स बालो एकया हरिण्या दृष्टः । कृपया स्तन्यं पायितः । सा प्रतिदिनं तं पालयति । लुब्धकेन एकेन बालं स्तन्यं पाययन्ती मृगी दृष्टा । नृपाय निवेदितं बालखरूपम् । राज्ञा तलारः पृष्टः। तेनोक्तम्-सा मृत्युवेलायां बहि
भूमौ गता । नृपेण बालस्ततः समानीय पुरपरिसरे मुक्तः । यथा धेनोश्चरणपातेन मरति । इतस्तस्य बालस्य 10क्षुधितस्य वाक्यमुत्पन्नम् ।
(२७०) यो मे गर्भस्थितस्यापि वृत्तिं कल्पितवान् पयः।
शेषवृत्तिविधानाय स किं सुप्तोऽथवा मृतः॥ काचिद्धेनुर्नवप्रसूता तत्रागत्य पाययति । नृपेण चिन्तितं न म्रियते । स धवलगृहे आनीतः । श्रीपुञ्जेति नाम कृतम् । कालेन नृपतिना राज्यं दत्तम् । श्रीपुञ्जस्य राज्यं पालयतः क्रमेण पुत्री जाता । तस्याः शरीरं 15 दिव्यम् , मुखं वानर्याः । क्रमेण प्रौढा जाता । कोऽपि न याचते । तस्याः खेदपराया जातिसरणमुत्पेदे । पाश्चात्य
भवो दृष्टः । तया नगरमध्ये शब्द: पातितः। यः कोऽपि मरुस्थल्याः समायातः सोऽभ्येतु । एकः पुरोऽभूत । कुमार्या पृष्टः-अर्बुदं वेत्सि? । सर्व वेद्मि । तत्र कामिकतीर्थाग्रे कुण्डमस्ति, तस्य तटे वंशजाल्यस्ति । तत्र जाल्यां वानरीशिरो लग्नमस्ति । इतो मत्सकाशाद्रव्यमादाय तत्र गत्वा तच्छिरो जलान्तः क्षिप्वा समागच्छ । स तत्र गत्वा यावज्जले क्षिपति तच्छिरस्तावदेव कुमार्याः श्रीमाताया मुखं दर्शनीयं जातम् । नृपेण पृष्टा-वत्से ! किमि20 दम् । तयोक्तम्-देव! मरुस्थल्यामष्टादशशिती] देशमध्ये नन्दिवर्द्धनो नाम पर्वतस्तत्र कामिकतीर्थमस्ति । तस्य तीरे वंशजाली । तत्राहं पूर्वभवे वानरीरूपाधिरूढा । फालच्युता वंशकीलेन विद्धा मृता । मम शरीरं गलित्वोदके पतितम् । तत्प्रभावादहं तव पुत्री जाता । शिरस्तत्र स्थितम् । अतो मे ईदृशं मुखम् । अधुना जनः प्रेषितः । तेन शिरसि जले क्षिप्ते वदनं स्वभावे जातम् । इतस्तसिन्नरे समायाते परिणयनपराङ्मुखी जाता । अतिनिर्ब
न्धेन पितरावापृच्छय, बहुपरिकरेण अर्बुदाद्रावाययौ । तत्र तपः कर्तुं प्रारेभे । इतस्तत्र रसीअउ तपस्वी तपः 25 करोति । स तां दृष्ट्वा क्षुब्धः। पाणिग्रहणार्थं ययाचे । तयोक्तम्-यदि सूर्योदयाद् अर्वाक् द्वादश पाजा अत्र पर्वते करोषि, तदा त्वां परिणये । तेन तपः शक्त्या शीघ्रं चकार । इति कियत्यपि रात्रिशेषे श्रीमातया तपःप्रभावात्कुक्कुटः स्वरः कृतः। स तं श्रुत्वा विभातमिति कृत्वा क्षुब्धः । हृदयस्फोटान्मृतो व्यन्तरो जातः । साऽपि सपश्चात्तापा वैश्वदेवे प्रवेशं कृत्वा देवी श्रीमाता जाता।
॥ इति तपसि श्रीमाताप्रबन्धः॥
30(G.) सङ्ग्रहगतं श्रीमातावृत्तम् ।
६ १९७) पुरा रत्नपुरे रत्नशेखरो राजाऽऽसीत् । तेन दिग्विजयव्यावृत्तेन प्रवेशमहोत्सव..................तीति पृष्टः । ताभिः संतानाभावान्नेति कथितम् । ततः संतानहेतोर्नवांतःपुरचिकी राजा शाकुनिकेन बहिनिष्क्रांतः । ततः शाकुनिकेनापन्नसत्त्वां कामपि कामिनी काष्ठभारवाहिनीमुदीक्ष्यायाः सुतस्तव राज्ये भविता एवं जगाद ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org