________________
जगद्देवप्रबन्धः। ततो विषिण्ण(षण्ण)मनसा राज्ञा सा गर्चायां क्षेपिता। तया प्रसूय बालो मुक्तः । नवप्रसूता हरिणी तं निजस्तन्येन जीवयति । अथ टंकशालायां हरिण्यंकिता द्रम्माः पतंति । राजा तथा विज्ञायानीय च गोपुरद्वारि सायं मुक्तः । तत्रस्थो बाल: संडेन रक्षितः । ततो राज्ञा समानीय स बालो लालितः श्रीपुंजराजा बभूव ।
श्रीपुंजराज्ञः पुत्री श्रीमाता मर्कटमुखी जाता । तस्या जातिसरणं जातमिति-पुरा अर्बुदाचले मर्कटी फालां ददाना शाखया विद्धा । कुंडोपरि गलित्वा देहं पतितम् । शिरो शाखायां विलग्नमेव स्थितम् । ततो देहं 5 मानवाकारं कुंडपतनप्रभावादजनि । ततस्तत्रागत्य शिरोऽपि तया तत्र क्षिप्तं कुंडे । ततोऽर्बुदे तपसंती तां तत्र रसीयाकनामा योगी ददर्श। प्रार्थितं तेनेति-यन्मम पनी भव । तयोक्तम्-द्वादशपद्या विधेहि एकरात्रि मध्ये । तेन तथाकृते श्रीमात्रा कृत्रिमकुर्कुटा वासिताः । कृत्रिमशुनश्चरणयोर्विलग्नाः । ततो हृदयस्फोटनेन स स्वयं विनष्टः ।
15
३९. जगद्देवप्रबन्धः (G.) $१९८) मुद्गलपातसाहिसमीपात्समागतो जगद्देवः श्रीसिद्धराजभूपतिना नवलक्षकंकणं परिधापितः। अत्रांतरे 10 केनापि कविना काव्यमिदं न्यगादि(२७१) उन्मीलन्मणिरश्मिजालजटिलश्चायं रणे कङ्कणं
बिभ्राणस्तव वैरिवीरकदनक्रीडाकठोरः करः। हित्वा संयति जीवितानि रिपवो ये स्वर्गमार्ग गतास्तानाक्रष्टुमिवाविवेश सहसा चण्डद्युतेर्मण्डलम् ॥
___ इति पठिते तसै तत्कङ्कणं दत्तम् । एकदा सभायां अधो विलोक्यमानस्य चिंताप्रपन्नस्य कस्यापि कवेः पार्श्वे जगद्देवेन पृष्टम्-कवे! महती चिन्ता। तेनोक्तम्-विमर्शनाऽस्ति । शृणु ! (२७२) दरिद्रान् सृजतो धातुः कृतार्थान् कुर्वतस्तव । जगद्देव ! न जानीमः काश्रमेण विरंस्यति ॥
इति पठिते जगदेवेन सुवर्णलक्षो दत्तः। 20 जगद्देवेन समागतस्य कस्यापि कवेः पार्थे नवविशेषं देशस्वरूपं पृष्टे तेनोक्तम्-देव ! चित्रमस्ति । असत्सार्थे । पान्थस्सैकस्य पार्श्वे सरसः समुत्थितेन चक्रवाकेनैकेनेति पृष्टम्(२७३) चक्रः पप्रच्छ पान्थं कथय जनपदः कोऽपि संपत्स्यते मे
वस्तुं नो यत्र रात्रिर्भवति स च विचिंत्येति तं प्रत्युवाच । नीते मेरौ समाप्ति कनकवितरणैः श्रीजगद्देवनाना। सूर्येऽनन्तर्हिते स्यात्कतिपयदिवसैर्वासराद्वैतसृष्टिः॥
इत्युक्ते जगद्देवेन सुवर्णसहस्रा दश दत्ताः । कसिन्नपि पण्डिते समागते श्रीजगद्देवेन वारं वारं पृष्टे सति जीवेति वारं वारं जल्पति पंडितः, नान्यत् । तेनोक्तम्-कथमेतत् जीवेति वचः १ । कविनोक्तम्-"त्वयि जीवति जीवंति० ॥" (२७४) स्वस्ति क्षत्रियदेवाय जगद्देवाय भूभुजे । यद्यशःपुंडरीकान्तर्गगनं भ्रमरायते ॥ 30
इति गदिते लक्षदानम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org