Book Title: Puratana Prabandha Sangraha
Author(s): Jinvijay
Publisher: ZZZ Unknown

Previous | Next

Page 151
________________ पुरातनप्रबन्धसङ्घहे द्वात्रिंशता स्तवे कृते श्रीपाश्वे प्रकटीभूते, समग्र [सङ्घ] सहितैर्वन्दिते, देहरोगो गतः। तत्र स्नात्रपूजाधं कृत्वा प्रासादार्थ द्रव्यं मीलयित्वा महिषपुरात् श्रीमल्लवादिशिष्य आनेश्वराभिधो नियुक्तः। कर्मान्तरं कारयामास । शुभ मुहूर्ते श्रीअभयदेवसूरयो बिम्ब स्थापयामासुः । धरणेन्द्रादेशात् स्तोत्रमध्यात्तद्वयं मन्त्रगर्भित निष्काशितम् । तमिन् प्रत्यक्षीभवने, त्रिंशद्वृत्ता स्तुतिर्जाता । सा पठ्यमाना क्षुद्रोपद्रवविनाशिनी । ततः प्रभृत्यदस्तीर्थ 5 मनोवाञ्छितपूरणं जातम् । रोगशोकादिदुःखदावधनाधनः। अद्यापि कल्याणके प्रथमकलशो धवलककीयस्य सङ्घस्य । बिम्बासनस्य पश्चाद्भागेऽक्षरपंक्तिरैतिह्यात् श्रूयते । पूर्व कथैषा प्रथिता जने । (२९३) नमस्तीर्थकृतस्तीर्थे वर्षे द्विकचतुष्टये । (२२२२) आषाढश्रावको गौडोऽकारयत् प्रतिमात्रयम् ॥ . (२९४) श्रीमानभयदेवोऽपि शासनस्य प्रभावकः। पत्तने श्रीकर्णराज्ये धरणोपास्तिशोभितः ॥ (२९५) विधाय योगनीरोधं धिकृतापरवासनः । परलोकमलंचक्रे धर्मध्यानैकधीनिधिः ॥ ॥ श्रीअभयदेवसूरिप्रबन्धः ॥ ४६. वाग्भटवैद्यवृत्तम् (G.) 15 ६२१६) पुरा मालवके वाग्भटनामायुर्वेदवेदी प्रथमं कुपथ्येन निजदेहे रोगानुत्पादयति, औषधेन पुनर्निवारयति । एवमेकदा जलोदरमुत्पादितम्, तदौषधं विहितम् । कुटुंबकस्येति उक्तं च-यन्मम चतुःप्रहरं यावत् जलं याचितमपि न देयम् । दैवयोगेन कुटुंबस्य तद्वचो विस्मृतौ गतम् । प्रहरचतुष्टयानन्तरं जलोदरे क्षीणेऽपि जलं न पायितः । पिपासापीडितो मृतश्च । अतः(२९६) कचिदुष्णं कचिच्छीतं कचित् कथितशीतलम् । कचिद् भेषजसंयुक्तं कचिद्वारि न वारितम् ॥ ६२१७) राज्ञः श्रीभोजस्य सिंहद्वारि वाग्भटवैद्यपरीक्षार्थमश्विनीकुमारौ पक्षिरूपं विधाय नित्यं नित्यं वारत्रयं 'कोऽभुक्' इति रवं विधाय गच्छतः । राज्ञा तदनवगत्य सर्वेऽपि विद्वांसः पृष्टाः । कोऽपि किमपि न कथयति । तदा वाग्भटेनोक्तम् (२९७) अशाकभोजी घृतमत्ति योऽन्धसा पयोरसान् शीलति नातिपोऽम्भसाम् । अभुक विरुट वातकृतां विदाहिनां मलप्रमुक् जीर्णभुगल्पशीररुक् ॥ ततोऽश्विनीकुमाराभ्यां निजरूपमाविर्भूय वाग्भटोऽतिप्रशंसितः । ६२१८) अथ वृद्धवाग्भटजामात्रा लघुवाग्भटेन कृष्णच्छायाप्रवेशदर्शनेन राज्ञः क्षयरोगोत्पत्तिनिवेदिता । 30 राज्ञोक्तम्-ततो मम वर्षत्रयमेवायुरस्ति । तेनोक्तम्-नैवं राजन्! (२९८) यावदुच्चसति प्राणी तावत् कुर्यात् प्रतिक्रियाम् । कदाचिदैवयोगेन दृष्टारिष्टोऽपि जीवति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220