Book Title: Puratana Prabandha Sangraha
Author(s): Jinvijay
Publisher: ZZZ Unknown

Previous | Next

Page 153
________________ पुरातनप्रबन्धसङ्ग्रहे द्विजेष्वभुक्तेषु शूद्राणामन्नं दत्तम् । एषा वधूः न सामान्या । तयाऽऽराटिः कृता । सोमभट्टे समायाते उक्तम् । तेन तातादिना ताडयित्वा निष्कासिता । सा सुतद्वयमादाय, एकं कट्यां कृत्वा परमङ्गुल्यां, निःसृता । श्वश्या पुत्र: पृष्ठे सानुतापया प्रहितः-त्वरितं गत्वा समानय । इतः शिशुः सुतस्तृषितो नीरमयाचत । तया श्रीनेमिचरणौ स्मृत्वा मही पादेन दारिता । दीर्घिका प्रादुर्बभूव । सुतो नीरं पायितः । वृद्धेनोक्तम्-अहं क्षुधितः । तत्राम्रः 5 प्रकटीबभूव । तत्र सहकारलुम्बि गृहीत्वा पुत्रायार्पयत् । इतः पाश्चात्ये प्रियमायान्तं दृष्ट्वा भीता श्रीनेमिपादौ स्मृत्वा कूपे पुत्रैः सह झम्पां ददौ । सोऽपि स्त्री-भ्रूणघातिनं खं मन्यमानः पृष्ठौ झम्पां ददौ । अम्बा रैवतके श्रीनेमिचैत्येऽधिष्ठात्री जाता । सोमस्तस्या वाहने सिंहो जातः। ॥ इति देव्यम्बाप्रबन्धः॥ ४९. उज्जयन्ततीर्थात्मकरणप्रबन्धः (P.) 10६२२१) सुराष्ट्रायां गोमण्डलन[ग]रे सप्तशतयोधैः सह सप्तपुत्रावृतस्त्रयोदशशतशकटयुतस्त्रयोदशकोटीस्वामी धारानामा श्रावकः सङ्घ कृत्वा तीर्थ[न]मस्यै गतः । विमलाद्रौ युगादिं नत्वा रैवततलहट्टिकायां स्थितः। तीर्थ दिग्वस्त्रैः पूर्वमधिष्ठितमस्ति । तैरपि पञ्चाशद्वर्षभोगात् पश्चाद्वौद्धान् वादे जित्वा आत्मायत्तं कृतम् । दिगम्बराणां द्वादशवर्षाणि जातानि । श्वेताम्बरीयधाराकेनोक्तं चतुरशीतिमण्डलाचार्याणां समीपे-यदहं देवं नन्तुं समेतः । तैरुक्तम्-दिगम्बरीभूयागच्छ । तेनाचिन्ति-प्राणान्तेऽपि स्वगुरुलोपं न कुर्वे । अन्यदुजयन्तनतिं 15 विना गृहे न यामि । चिन्तात्तॊ जातः। पुत्ररूचे-किं कारणम् । हे पुत्रास्तीर्थ नन्तुं न लभ्यते । पुत्रैरुक्तम् दिग्वस्त्राधिष्ठिते तीर्थेऽपि किं कार्यम् ? । तातेन कथितम्-पूर्वमात्मीयमेव, इदानीमेभिरधिष्ठितम् । एवं तर्हि बलादपि यास्यामः, चिन्ता न कार्या । तत्पुत्रैमण्डलाचार्याणां कथापितम्-यद्वयं बलादपि तीर्थ वन्दिष्यामहे । तैर्निजभक्तखंगारस्य ज्ञापितम् । तेन किञ्चित्सैन्यं प्रहितम् । तैः पुत्रैस्तस्य सैन्येन साकं युद्धं प्रारब्धम् । सप्त पुत्राः सप्तशतयोधसहिता मारिताः। सङ्घपतिर्धाराको न भुङ्क्ते । तृतीयोपवासेऽम्बिकयाऽभाणि-वत्स! कन्यकुज20 देशे गोपालपुरे आमो राजा । स पूर्वभवे भूण्डपर्वते तपस्वी तपस्तत्वा नृपोऽभूत् । तस्य पार्श्वे बप्पभट्टिसरयः सन्ति । तैरेते जीयन्ते नान्येन । एतेषां मत्रा व्यन्तराश्च सबलाः। इति ज्ञात्वा तत्र गच्छ । धाराकः सङ्घ मुक्त्वाऽष्टश्रावकैः सह तत्र गतः। श्रीसूरयस्तदा आमराजस्य सभायाश्चाग्रे रसेन व्याख्यां कुर्वाणाः सन्ति । धाराकेन नत्वा सङ्घाज्ञा तेषां दत्ता । राज्ञा साक्षेपमैषिष्ट । आचार्यैस्तत्पार्श्वतो वृत्तान्तः पृष्टः। तेन समूलं वृत्तान्तमुक्तम् । राज्ञा खभावश्रवणरैवतप्रभावाकर्णनहर्षपूरवशादभिग्रहो गृहीतः-श्रीनेमिनतिं विना न भोक्ष्ये । तद्भा25 र्यया कमलादेव्या कथितम्-सोमेश्वरनमस्करणं विना न भोक्ष्ये । ततः सर्वेऽपि चलिताः। लक्ष १ पोठियां, उष्ट्रसहस्र २०, हस्ति ७००, घोटक लक्ष १, पदाति लक्ष ३, श्रावकसहस्र २० । राजा त्रिंशत्तमे दिने स्तम्भतीर्थे आगतः । रात्रावम्बिकयाऽभाणि-राजन् ! श्रीनेमिस्तव सत्त्वेनात्रैष्यति । प्रभाते पारणं कार्यम् । यत्र च गृहली पुष्पप्रकरथोपरि त्वया तत्र खनितव्यं हस्तेन नेमिः प्रग(क)टीभविष्यति । प्रभाते तदेव जातम् । नेमि नतः । राजपन्याऽभाणि-स्वामिन् ! पारणं क्रियताम् । त्वां विना कथं करोमि । तत् क्षणात्सोमेश्वरलिङ्गः प्रादु30रभूत् । तद्दिने नदीस्थाने सोमनाथेन च्छिरा (१) नीतो अभिज्ञानाय । तत्रेभ्यानां देवकुलद्वयकृते द्रव्यमर्पितम् । एतसिन्पुरे प्रासादद्वयं कारयितव्यम् । यथा वलमानाः पश्यामः । ततः प्रयाणकं जातम् । सङ्घसमीपे मानुषं प्रहितम् । सूरिभिर्मण्डलाचार्यपार्श्वे-यदि युध्यते तदा बहुजीवसंहारो भवति; अतो वादे जय-पराजयौ ज्ञेयम् । सभ्याः कृताः। मासं यावद्वादो जातः । श्रीनृपेण धाराकेन च प्रभूणामग्रे विज्ञप्तम्-बहवो दिना जाताः। प्रभुणाऽभाणि-अद्य निर्वाहयिष्यामि । एकत्रिंशे दिने प्रभुणा भणितं मण्डलाचार्याग्रे यदद्य मण्डले कुमारी उपवेश्या । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220