Book Title: Puratana Prabandha Sangraha
Author(s): Jinvijay
Publisher: ZZZ Unknown

Previous | Next

Page 140
________________ जगद्देवप्रबन्धः। ततो विषिण्ण(षण्ण)मनसा राज्ञा सा गर्चायां क्षेपिता। तया प्रसूय बालो मुक्तः । नवप्रसूता हरिणी तं निजस्तन्येन जीवयति । अथ टंकशालायां हरिण्यंकिता द्रम्माः पतंति । राजा तथा विज्ञायानीय च गोपुरद्वारि सायं मुक्तः । तत्रस्थो बाल: संडेन रक्षितः । ततो राज्ञा समानीय स बालो लालितः श्रीपुंजराजा बभूव । श्रीपुंजराज्ञः पुत्री श्रीमाता मर्कटमुखी जाता । तस्या जातिसरणं जातमिति-पुरा अर्बुदाचले मर्कटी फालां ददाना शाखया विद्धा । कुंडोपरि गलित्वा देहं पतितम् । शिरो शाखायां विलग्नमेव स्थितम् । ततो देहं 5 मानवाकारं कुंडपतनप्रभावादजनि । ततस्तत्रागत्य शिरोऽपि तया तत्र क्षिप्तं कुंडे । ततोऽर्बुदे तपसंती तां तत्र रसीयाकनामा योगी ददर्श। प्रार्थितं तेनेति-यन्मम पनी भव । तयोक्तम्-द्वादशपद्या विधेहि एकरात्रि मध्ये । तेन तथाकृते श्रीमात्रा कृत्रिमकुर्कुटा वासिताः । कृत्रिमशुनश्चरणयोर्विलग्नाः । ततो हृदयस्फोटनेन स स्वयं विनष्टः । 15 ३९. जगद्देवप्रबन्धः (G.) $१९८) मुद्गलपातसाहिसमीपात्समागतो जगद्देवः श्रीसिद्धराजभूपतिना नवलक्षकंकणं परिधापितः। अत्रांतरे 10 केनापि कविना काव्यमिदं न्यगादि(२७१) उन्मीलन्मणिरश्मिजालजटिलश्चायं रणे कङ्कणं बिभ्राणस्तव वैरिवीरकदनक्रीडाकठोरः करः। हित्वा संयति जीवितानि रिपवो ये स्वर्गमार्ग गतास्तानाक्रष्टुमिवाविवेश सहसा चण्डद्युतेर्मण्डलम् ॥ ___ इति पठिते तसै तत्कङ्कणं दत्तम् । एकदा सभायां अधो विलोक्यमानस्य चिंताप्रपन्नस्य कस्यापि कवेः पार्श्वे जगद्देवेन पृष्टम्-कवे! महती चिन्ता। तेनोक्तम्-विमर्शनाऽस्ति । शृणु ! (२७२) दरिद्रान् सृजतो धातुः कृतार्थान् कुर्वतस्तव । जगद्देव ! न जानीमः काश्रमेण विरंस्यति ॥ इति पठिते जगदेवेन सुवर्णलक्षो दत्तः। 20 जगद्देवेन समागतस्य कस्यापि कवेः पार्थे नवविशेषं देशस्वरूपं पृष्टे तेनोक्तम्-देव ! चित्रमस्ति । असत्सार्थे । पान्थस्सैकस्य पार्श्वे सरसः समुत्थितेन चक्रवाकेनैकेनेति पृष्टम्(२७३) चक्रः पप्रच्छ पान्थं कथय जनपदः कोऽपि संपत्स्यते मे वस्तुं नो यत्र रात्रिर्भवति स च विचिंत्येति तं प्रत्युवाच । नीते मेरौ समाप्ति कनकवितरणैः श्रीजगद्देवनाना। सूर्येऽनन्तर्हिते स्यात्कतिपयदिवसैर्वासराद्वैतसृष्टिः॥ इत्युक्ते जगद्देवेन सुवर्णसहस्रा दश दत्ताः । कसिन्नपि पण्डिते समागते श्रीजगद्देवेन वारं वारं पृष्टे सति जीवेति वारं वारं जल्पति पंडितः, नान्यत् । तेनोक्तम्-कथमेतत् जीवेति वचः १ । कविनोक्तम्-"त्वयि जीवति जीवंति० ॥" (२७४) स्वस्ति क्षत्रियदेवाय जगद्देवाय भूभुजे । यद्यशःपुंडरीकान्तर्गगनं भ्रमरायते ॥ 30 इति गदिते लक्षदानम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220