Book Title: Puratana Prabandha Sangraha
Author(s): Jinvijay
Publisher: ZZZ Unknown

Previous | Next

Page 146
________________ नागार्जुनप्रबन्धः। अथ वराहमिहिरस्य पुत्रो जातः । ततः पित्रा जातके चतुरशीतिवर्षाणि आयुर्वर्तितम् । तदनु जिनदीक्षादीक्षितश्रीभद्रबाहुपार्श्वे व‘पनिकाकृते मनुष्यः प्रहितः । तद्वचः श्रुत्वा सूरिभिरुक्तम्-जातस्य सप्तदिनानि आयुरस्ति । सप्तदिनान्तेऽस मार्जारिकया मरणं भविष्यति । तेन सर्वत्र मार्जारिका रक्षिता । निर्णीतवेलायां अर्गलिकामार्जारिकया मरणमजनि । ततो विषण्णेन तेन पुस्तकैः सह काष्ठभक्षणं प्रारब्धं यावता तावता तत्रागतेन श्रीभद्रबाहुना कथितम्-कथं काष्ठसाधनं कुरुषे ।। शास्त्राणि न वितथानि । परं या दोरिका भवताभिज्ञाने विहि । ताऽभूत् सा कुब्जिकया महाकष्टेन प्राप्ता। तदा वेलाव्यतिक्रमोऽजनि । तया तु सप्तदिनान्येवायुस्ततो मानितम् ॥ ४३. नागार्जुनप्रबन्धः (Br.) ६२०८) ढंकपर्वते श्रीशत्रुञ्जयशिखरैकदेशे राजपुत्ररणसिंहस्य भोपलानाम्नी सुता जातानुरागो वासुकिर्नागराजः सिषेवे । पुत्रो जातः । नागार्जुन इति नाम कृतम् । स च वासुकिना सुतस्नेहात् सर्वासामौषधानां पत्राणि फलानि भोजितः। तत्प्रभावेन सर्वसिद्धिभिरलङ्कृतः सिद्धपुरुष इति ख्यातः । पृथिवीं विचरन् पृथिवीस्थान-10 पत्तने सातवाहननृपस्य कलागुरुर्जातः । स च विद्याध्ययनार्थ पादलिप्तकपुरे पादलिप्ताचार्य विद्यार्थी सेवते । स गुरुः पादतललेपबलेन तपोधनेषु विहरितुं गतेषु श्रीशत्रुञ्जयादिषु देवान्नत्वा स्थानमायाति । आगताना नागार्जुनश्चरणक्षालनं कृत्वा स्वाद-वर्ण-गन्धादिभिः सप्तोत्तरं शतमौषधानाममीलयत् । तेनोपदेशं विनाऽपि जलेन चरणलेपे कृते कुर्कुटोत्पातमुत्पत्य पतितो व्रणजर्जरिताङ्गो गुरुभिः पृष्टः-किमेतत् १ । पूज्यपादप्रसादः । कथम् । यथास्थिते उक्ते गुरवस्तस्य कौशल्येन रञ्जिताः । गुरुभिरुक्तम्-गुरून् विना कलाः कथं 15 फलदाः स्युः। प्रसादमाधातु गुरवः । भवतो मिथ्यात्ववासितस्य कलां न दमि । श्रावकत्वमङ्गीकुरु । तेन तथा कृते, तन्दुलजलेन लेपं कृत्वा गगने खैरं व्रजति स । ६२०९) एकदा खैरं विचरता गुरुमुखात् श्रुतम्-यत् रससिद्धि विना दानेच्छा न पूर्यते । तदनु रसं परिकर्मयितुं प्रवृत्तः। खेदन-मर्दन-जारण-मारणानि चक्रे। परं स्थैर्य न बध्नाति । गुरवः पृष्टास्तैरुक्तम्-दुष्टनिर्दलनसमर्थश्रीपार्श्वनाथस्य दृष्टौ साध्यमानः सर्वलक्षणोपलक्षितया महासत्या मृद्यमानो रसः स्थिरीभूय 20 कोटिवेधी भवति । तत् श्रुत्वा स श्रीपार्श्वनाथप्रतिमामन्वेष्टुमारेमे । इतश्च नागार्जुनेन खपिता वासुकिया॑तः । प्रकटीभूतः। पृष्टं च-श्रीपार्श्वस्य काश्चिदिव्यां प्रतिमां कथय । तेनोक्तम्-पुरा द्वारावत्या श्रीसमुद्रविजयेन श्रीनेमिनाथमुखात् श्रीपार्श्वप्रतिमा प्रासादे स्थापयित्वा पूजिता। पूर्दाहानन्तरं समुद्रेण प्लाविता । प्रतिमा तथैव समुद्रमध्ये स्थिता । कालेन कान्तीपुरीवासिनो धनपतिनामकस्स सांयात्रिकस्स यानपात्रं देवतातिशयात् खलितम् । अत्र जिनविम्ब तिष्ठतीति दिव्यवाचा निश्चित्य, तत्र नाविकान् निक्षिप्य आमतन्तुभिः सप्तभिर्वद्धो-25 द्धृता प्रतिमा । स्वपुरे नीत्वा प्रासादे स्थापिता । चिन्तातीतो लाभो जातः । स नित्यं नित्यं पूजां करोति । ततः सर्वातिशयसम्पन्नं तद्विम्बं ज्ञात्वा नागार्जुनो रससिद्ध्यै सेडीनदीतटेऽपहृत्यानीतवान् । तस्य पुरतः श्रीशातवाहनस्य नृपस्य चन्द्रलेखां देवीं महासती व्यन्तरीसानिध्यादानीय प्रतिनिशं रसमर्दनं कारयति । एवं तत्र भूयो भूयो गतागतेन देव्या बांधव इति प्रतिपन्नः। तया तेषामौषधानां मर्दने कारणं पृष्टम्-कोटिवेधी रसोऽसौ । अन्यदा देव्या स्वपुत्रयोरुक्तम्-यत्सेडीनदीतटे नागार्जुनस्य रससिद्धिर्भविष्यति । तौ रसलुब्धौ 80 नागार्जुनान्तिकमागतौ। कपटेन रसं जिघृक्ष छन्नं भ्रमन्तौ यस्था रन्धनीगृहे नागार्जुनो भुनक्ति तामालपतः । त्वं नागार्जुनरसवतीं लवणबहुलां कुर्याः । यदा तां क्षारां वक्ति तदा कथनीयम् । षण्मासान्ते क्षारेत्युक्तया + जैनानां मते देवानां मनुजेन सह सम्बन्धो न युज्यते-टिप्पनी। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220