Book Title: Puratana Prabandha Sangraha
Author(s): Jinvijay
Publisher: ZZZ Unknown

Previous | Next

Page 145
________________ पुरातनप्रबन्धसज्जन्हे म्मदपुत्रमहमदं यदि सेनान्यं करोषि तदा ते जयः स्यात् । तदा ते आकारिताः । तेषां पञ्चशती मिलिता । देव्योक्तम्-स वामनेत्रे काणोऽस्ति । स आकारितः दलपतिश्च कृतः। इतः शेषमपि कटकमानीतम् । इतः सुहागदेव्योक्तम्-देव! राज्यं कस्य । कर्पूरदेव्यास्तनयस्य । यदि मत्स्नोर्ददाति भवान् तदाऽद्यापि परचक्र चलति । राझोक्तम्-त्वयाऽऽनीतम् १ । तया प्रोक्तम्-अन्येन केन । तदा स्त्रीचरितं नीतिं च स्मृत्वा-ज्येष्ठपुत्रमभिषिच्य, 5 तामदृष्टव्यमुखाऽऽसीरित्युक्त्वा दृष्ट्वा(? ज्येष्ठा )याः सुतं राज्ये निवेश्य, पतिमारिकायास्तस्याः सुतं वृद्धि (०द्धं १) सहादाय नृपो युद्धाय निस्ससार । महति संयुगे जायमाने नृपेणोक्तम्-रे गलितकंसस्य ६४ जोटकानि निश्वानानां किं स्फुटितानि ? । [कथं]न श्रूयन्ते । देव ! वाद्यमानानि सन्ति परं शृङ्गिणीगुणैरुपलप्सा(रुद्धा)नि । नृपस्तत् श्रुत्वा उदरे शस्त्रिको क्षिप्त्वा पुत्रं चाग्रे करिण्यधिरोप्य यमुनायां करिणमक्षेप्सीत् । स पश्चत्वमाप । ज्येष्ठपुत्रोऽपि निःसृत्य युद्धे विनष्टः । संवत् १२४८ वर्षे चैत्र शुदि १० दिने वाराणसीमा10 दाय सुरत्राणः प्रवेशं कतुं प्रवृत्तः । कर्पूरदेवी यमगृहं प्रविष्टा । द्वितीया सुहागदेवी लघुपुत्रमादाय प्रतोल्यां स्थिता। सुरत्राणेनोक्तम्-केयम् १ । देव ! यया त्वमिहानीतः। सुरत्राणेन वदने निष्ठीवनं कृत्वा एकसै धगडाय, या पत्युर्न जाता सा मे भविष्यति इति वदता, प्रदत्ता । पुत्रस्तु तुरुष्कः कृतः। .. ॥ इति श्रीजैत्रचन्द्रनृपतेः प्रबन्धः ॥ (G.) सङ्ग्रहे जयचन्द्रनृपवृत्तम् । 16 ६२०६) अन्यदा कोपकालाग्निरुद्र १, अवंध्यकोपप्रसाद २, रायगृहबोलादि विरुदानि श्रीपरमर्दिनः श्रुत्वा श्रीजयचन्दोऽसहमानस्तदुपरि ससैन्यश्चचाल । तद्देशभंगं कुर्वाणः कल्याणकटकनाम्नी राजधानीमाजगाम स क्रमेण । परं कोऽपि विज्ञप्तिकां कर्तुं न शक्रोति यत्कटकमागतम् । परं स्वयं परमर्दिराजा परसैन्यं दृष्ट्वा दुग्गातः...... । ततो राजा सैन्येन रुद्धः। वर्षमेकं जातम् । पश्चात्परमर्दिना राज्ञा मल्लदेवमहामात्येन सह मंत्र विधाय तत उमापतिधरं मंत्रिराजमाकार्य इत्युक्तम्-यत् मंत्रिविद्याधरसमीपं गत्वा तस्स किंचित्कथयित्वा त्वं 20 सैन्यमुत्थापय । ततः स 'आदेशः प्रमाण मित्युक्त्वा सायं प्रतीहारमुक्तः सन् मंत्रिविद्याधरसमीपमगमत् । उमापतिधरमंत्रिणा एकं सुभाषितं पत्रे विलिख्य मंत्रिराज्ञो विद्याधरस्याने मुक्तम् । तदिदम्(२८०) उपकारसमर्थस्य तिष्ठन् कार्यातुरः पुरः। मूर्त्या यामतिमाचष्टे न तां कृपणया गिरा ॥ एतदर्थमवधार्य निशीथे एव पल्यंकस्थितो राजा समुद्धृत्य क्रोशपंचके मुक्तः । प्रातः राजा दुग्गं न पश्यति । ततः पृष्टम् । मंत्रिणा विद्याधरेणोचे सर्व स्वरूपम् । राजा क्रुद्धः । ततो विद्याधरः प्राह-राजन् ! कथं 25 ममोपरि कोपं कुरुषे । कणवृत्तिः क्वापि न गताऽस्ति । ततो राजाह-अतोऽहं क्रुद्धः, यतस्त्वया मम लीला विनाशिता । अनेन सुभाषितेन मम राज्यमपि कथं नार्पितम् । एतद्भणने बिरुदानि मुक्तानि । मानं राज्यं च सर्व मुक्तम् । इति भणित्वा जयचन्द्रः स्वस्थानमगमत् । ४२. वराहमिहिरवृत्तम् (G.) ६२०७) पुरा वराहमिहिरो विद्यार्थी ज्योति शास्त्रं पठन् उपाध्यायगोरक्षणां करोति । तत्र नित्यं लग्नं मण्डयित्वा 80 पठिताभ्यासं करोति । एकदा सिंहलग्नं मण्डितम् । प्रमादाद्विसर्जनं विस्मृतम् । गृहगतेन तेन भोजनसमये स्मृतम् । तत्र गतः । शिलोपरि निविष्टः सिंहो दृष्टः । निर्भयेन सता सिंहोदराधो लग्नं विसर्जितम् । सूर्यस्तुष्टः । षण्मासं विमानस्थितेन नक्षत्रग्रहतारागणं विलोक्य समागतेन 'वाराहीसंहिता'प्रमुखज्योतिःशास्त्राणि निर्ममे । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220