Book Title: Puratana Prabandha Sangraha
Author(s): Jinvijay
Publisher: ZZZ Unknown

Previous | Next

Page 136
________________ विश्वासघातकविषये नन्दपुत्रप्रबन्धः । ३६. विश्वासघातकविषये नन्दपुत्रप्रबन्धः (B. ) । ६१८८) एकदा पाटलीपुरे नन्दो नृपस्तस्य भानुमती देवी | एकदा नृपस्त्वाखेटकं गतः । तत्र भोजनवेला जाता। नृपो देवीदर्शनं विना न भुनक्ति । इतो वररुचिना देवी भारतीप्रसादाद्देवीरूपं कृतम् । गुह्यदेशे बिन्दुः पपात । एकवेलमपाकृतः । पुनस्तथैव । तेन चिन्तितमत्रास्ते । राजा देवीं निर्वर्ण्य हृष्टो भुक्तव । बिन्दुं दृष्ट्वा कुपितो नूनमसावन्तःपुरे विनष्टः । राजा रक्षकेण च्छन्नं वररुचिर्मारितः । आरक्षकेण भूमिगृहे स्थापितस्तस्य पुत्रान् 5 पाठयति । इतो नृपस्य तनयो राजपाट्यां गतोऽश्वापहृतो वनं ययौ । अश्वस्तु मुक्तमात्रो मृतः । कुमारोऽपि फलास्वादं कृत्वा वासार्थं वृक्षं प्राप्तः । तत्र उपरि रिछोऽस्ति । इतो नरगन्धाद् व्याघ्रः समायातः । कुमारः प्राणभयाबृक्षमारूढः । रिछेनोक्तम् - एहि एहि त्वं ममातिथिः । व्याघ्रस्तु वृक्षमूले स्थितः । रिंछेनोक्तम् - व्याघ्रस्य मम वैरमस्ति । त्वया तु न भेतव्यम् । कुमारस्तस्य समीपं गतः । रिंछेनोक्तम् - स्वस्थीभूय निद्रां कुरु । स रिंछांके शिरो दत्वा सुप्तः । व्याघ्रेणोक्तम्- भो ! रिंछामुं नरं यद्यर्पयसि तदाऽऽवयोः प्रीतिः स्यात् । आवां स्वजनावेकत्र 10 वनवासिनौ । तेनोक्तम्-नाहं विश्वस्थनः । अमुं युगान्तेऽपि नापयामि । इतः कुमारो जागरितः । रिछेनोक्तम्त्वं जागृहि शयनमहं करोमि । परमसौ मां याचयिष्यति । असौ कपटवानस्ति । त्वया तु मलिनता न कार्या । एवमुक्त्वा स्वकेशान् शाखायां बद्धा सुप्तः । इतो व्याघ्रेणोक्तम्- भो राजपुत्रा ममापय । यथा त्वां जीवन्तं मुञ्चामि । अन्यथा वनात्कथं यास्यसि । असौ मलिनोऽस्ति प्रातस्त्वां हत्वा खादयिष्यति । कुमारेण रिंछस्तद्वचसा क्षिप्तः । स केशैर्बद्धैः स्थितः, न पतितः । तेन कुमार उक्तः - रे किमिदम् ? अधुना किम् ? । स चरणयोर्निप- 15 त्याह-अहं भुल्लः । तेनोक्तम्-त्वं वचनाद्भष्टः । अतस्ते तत् यातु । तेन सदैन्यमुक्तः - अनुग्रहं देहि । तेनोक्तम्'विसेमिरा' एवं जल्पसि । यदि कोऽप्यमुं व्याख्यानयिष्यति तदा ते वचः पटुतरं स्यात् । इतः प्रभाते तुरगपदैः सैन्यमायातम् । व्याघ्रस्तु वनं गतः । रिंछोऽपि गतः । कुमारः पुरमाययौ । परं 'विसेमिरा' एतदेव वक्ति । मात्रिकैर्जल्प्यमानोऽपि तदेव वक्ति । पण्डितेन आरक्षकः पृष्टः - नृपसभायां का वार्ता ? । स्वरूपं श्रुत्वोक्तम्- मां तत्र नयसि तदा सञ्जं करोमि । तेनोक्तम् - चल | ... कथमाकारणं विना गम्यते १ । आरक्षकेण नृपः पृष्टः - देव 120 मम गृहे युवत्येकाऽऽयातास्ति सा सञ्जीकरिष्यति । नृपेणाहूता । पण्डितः स्त्रीवेषो नृपसभां गतः । यवनिकान्तरितः स्थितः । कुमारो जल्पितस्तेन (२६२) विश्वासप्रतिपन्नानां वञ्चने का विदग्धता । अङ्कमारुह्य सुप्तस्य हन्तुः किं नाम पौरुषम् ॥ इत्युक्ते आद्याक्षरो मुक्तः । (२६३) सेतुं गत्वा समुद्रस्य महानद्याञ्च सङ्गमे । ब्रह्महा मुच्यते पापान्मित्रद्रोही न मुच्यते ॥ इति द्वितीयाक्षरः । Jain Education International (२६४) मित्रद्रोही कृतघ्नश्च यो वै विश्वासघातकः । तावत्ते नरकं यान्ति यावच्चेन्द्राश्चतुर्दश ॥ [ इति तृतीयाक्षरः । ] (२६५) राजंस्त्वं राजपुत्रस्य यदि कल्याणमिच्छसि । देहि दानं द्विजातीनां वर्णानां ब्राह्मणो गुरुः ॥ [ इति चतुर्थाक्षरः ।] पु० प्र० स० 11 For Private Personal Use Only ८१ 25 30 www.jainelibrary.org

Loading...

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220