Book Title: Puratana Prabandha Sangraha
Author(s): Jinvijay
Publisher: ZZZ Unknown

Previous | Next

Page 134
________________ वीसलदेववृत्तम् । ६९७८) श्रीवीसलदेवस्याग्रेऽवसरे जायमाने रागानभिज्ञस्य राज्ञो रागसंकेताः कृताः संति श्रीनागलदेव्या । श्रीरागस्य शरीरं, वसंतस्य कुसुमं, भैरवस्य भेरीरवः, पंचमस्यांगुलिपंचकं, मेघरागस्याकाशः, नट्टनारायणस्य चक्रं, कानडा कर्णः, धनासी धान्यं, नाटसारि पासकः, सोरठी पश्चिमा, गूर्जरी सिंहासनं, देवशाखायां द्वारशाखादर्शनम्-एवम् । एकदा कोऽपि बइकारः समागतो देवशाखायामवलगां करोति । राजा रागं न वेत्ति । राज्ञी तु वारं वारं द्वारशाखां दर्शयति । एवं बइकारेणोक्तम्-राज्ञि! भवती चेत् द्वारशाखां विदारयति, ततोऽपि राजा 5 न वेत्ति । इत्युक्ते राजा हसितः । $१७९) एकदा श्रीवीसलदेवेन नागलदेव्यग्रे न्यगादि-यन्मां रागपद्धति शिक्षय । एवमुक्ते दिनपंचसप्तकानंतरं यवनिकांतरितया देव्या बहुदासिकाभिः प्रत्येकं तदेव कार्य निजगदे । राज्ञोक्तम्-देवि! किमेतत् सर्वा अपि दासिकास्तदेव कार्य निगदंति ? । देव्योक्तम्-देव! काः कियंत्योऽभूवन् ? । राज्ञा सर्वा अपि नामग्राहं कथिताः । देव्यूचे-राजन् ! रागपद्धतिरेवमेव ज्ञायते । ततो देव्या वीणामादाय राजा रागान् सर्वानपि शिक्षितः। 10 ६१८०) अन्यदा मध्यरात्रौ नागलदेवी राज्ञश्चरणसंवाहनं कुर्वाणा श्रांता । ततस्तयोक्तं वृद्धमहिलीबउलीपुरःयत् त्वं चरणसंवाहनं कुरु । अहं श्रांतासि । ततो मयणसाहारेणोक्तम्-यत् त्वं आत्मानं पखाउजीपुत्रीत्वं न वेत्सि । पखाउजसत्कं भोजनं कुसणाती निर्विण्णा न । अधुना खिन्ना । ततो रुषितया (रुष्टया?) तया मयणसाहारस्य नासाच्छेदः कारितः। ततो देवगिरौ गतः । राज्ञा सिंहणदेवेन पृष्टः । तेनेत्युक्तम्-अत्र स आगच्छति यस्य नासा न स्यात् । इति श्रुतेन नूतना नासा कुतोऽप्यानीय तत्क्षणमारोपिता । लग्ना । अन्यदा पुन: 15 श्रीपत्तने समागतः । राज्ञा पृष्टः स वक्ति-अन्यस्य समीपे नासा याति । परं सिंहणदेवसमीपे गतापि समागच्छति । इति हृष्टेन प्रसादो दत्तः। ६९८१) श्रीवीसलदेवस्य द्वारभद्देन नीराजनावतरणसमये प्रचुराकारणैरागताया नागलदेव्याः कथितमितिकथं आत्मानं न जानासि । इयती वेलां विलंबसे । इति कथिते कुपिता[ऽत्यर्थं] तद्वचनेन । मारणे गाढाग्रहां मत्वा राज्ञा न मारितः, किं तु मयणसाहारस्य नेत्राकर्षणं कृतम् । तेनापमानेन स मालवपतिनरवर्मसमीपं 20 गतः । तेनावर्जितेन ग्रासशासनादि समर्पितम् । एकवेलं राज्ञा कथितम्-मदन ! वीसलेन राज्ञा तव नेत्रे कथं कर्षिते ? । गाढाग्रहं पृष्टेन तेनोक्तम-विवेकनारायण! गर्जरधराधिपतिरस्मत्स्वामी विवेकबहस्पतिः । यथा रणभन्नस्य नृपाधमस्य मुखमसाकीनानि पात्राणि द्वारभट्टादीनि न पश्यति । अत एवं विहितम् । स नरवर्मराजा वीसलेन वारत्रयं भग्नोऽस्ति । श्रुत्वैव स्थितः। [ज्ञातं ] चरपरंपरया श्रीवीसलदेवेन । मयणसाहारः समाकारितः । अतीव मानं दत्तम् । एकदा पृष्टम्-कथमीदृग्वाक्येन नरवर्मराज्ञो विषादो न जातः ? 125 तेनोक्तम्-स उभयवंशविशुद्धः, न भवादृशः । यतः-भवान् (भवत् ? ) पितृपक्षे लूणसीहः स पदातिमात्रः । मातृपक्षे महिषीभक्षका जेठेया इति । राज्ञा किमपि न कथितम् । ६१८२) एकदा श्रीवीसलदेवस्य दक्षिणे चक्षुपि अंजनीरोगो जातः । तद्यथा दिनत्रयस्य मध्ये बहुभिरुपचारैरपि नोपशमति । ततोऽरिसिंहराजवैद्यस्याकारणं प्रहितम् । तेन समेतेन गदितं इति-अहो प्रधाना! विहिते भेषजे राज्ञो घटिकाचतुष्टयं यावन्महती व्यथा भविष्यति । तदाहं मार्यमाणो रक्षणीयो भवद्भिः। तैरुक्तम्-भवतु । 30 इत्युक्ते भेषजं दत्तं वैद्येन । ततो विशेषेण वेदना जाता । ततो राज्ञोक्तम्-अमुं मारयत । परं स रक्षितः। अथ घटिकाचतुष्कादनंतरं निरामयेन राज्ञा वैद्यस्यामंत्रणं प्रेषितम् । प्रधानरुक्तम्-स मारितः । राजातीव दुःखितोऽभूत् । तदनु समानीतो वैद्यः । तत्पुरो राज्ञोक्तम्-मम भेषजं कथय, अन्यथा मारयिष्ये । व्यथा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220