Book Title: Puratana Prabandha Sangraha
Author(s): Jinvijay
Publisher: ZZZ Unknown

Previous | Next

Page 135
________________ पुरातनप्रबन्धसङ्घ सर्वसाधारणा । त्वं तु कुत्रापि यास्यसि । अतोऽहं सर्वविदितं औषधं विधास्ये । तेन पीलूकुलीयकः कथितः । ततो राज्ञा सन्मानितः । बहुद्रव्यं दत्तम् । औषधं सर्वत्र विदितं कृतम् । $ १८३) अन्यदा आशापल्यां राजीमतीछिंपिकया गुरुपार्श्वे आगमोक्ततपांसि द्वात्रिंशन्मितानि कृतानि । तत आंबिलवर्द्धमानतपोऽभिग्रहे गुरुभिरुक्तम् - यत्तपसि क्रोधो न विधीयते । क्रोधेन तपःक्षयो भवति । इति 5 क्रोधस्याभिग्रहो गृहीतः । एवं राजश्रीवीसलदेवस्य सदसि महं० सात्कस्य व्यासस्य च होडा जाता । यन्मनुष्यः सक्रोधो भवत्येव । मंत्रिणोक्तम् - अहमक्रोधिनं दर्शयिष्यामि । ततो वंठपार्श्वात्तुरगखुरै रंगभांडभंगे कृते तस्याः, तया तु तुरगचरणानां शीतलजलेन क्षालनं विहितम् । राज्ञा तदवगत्य तस्याः पंचांगप्रसादः, सर्वांगाभरणानि दत्तानि । ततस्तया तेन द्रव्येण प्रासादः कारितः । ८० १८४) मंत्रिणि श्री [ वस्तुपाले] दिवंगते पं० सोमेश्वरदेवेन व्यासविद्यासमर्थिता ( ०र्थना ?) त्यक्ता । ततः 10 श्रीवीसलदेवेन महानप्युपरोधो विहितः । विशेषग्रासलाभोऽपि दर्शितः । परं [तेनोक्तम् - मंत्री श्री ] वस्तुपालस्याग्रे व्यासविद्यां विधाय नान्यस्य पुरो विदधामि । ततो राज्ञा गणपतिनामा व्यासः कृतः । ( अत्रार्द्धप्राया पंक्ति 20 25 १९८६) अथ भद्रेश्वरे वसाहजगहूनामा वसति । अन्यदा राजकीयप्रवहणे वाजिपंचक राशिर्विहितः । आग15 च्छमानं यानं तटे एव भग्नम् | राजा समुद्रोपकंठे विलोकनाय गतः । तत्र समेतेन मनुष्येणैकेन प्रवहणमध्यस्वरूपं समग्रमपीति कथितम् । याने १४४ घोटका आसन् । तेषां मध्यात् प्रधानाश्वपंचकं वसाहजगडूकस्य । तेषां मध्ये करडाकनामा सर्वोत्तमस्तुरगो विद्यते । ततो वसाहेनोक्तम् - मदीया अश्वाः समेष्यंत्येव । राज्ञोक्तम्कथमस्माकं तुरगा यास्यति, कथं तवोद्गरिष्यंति ? | वसाहेनोक्तम् - तवापि ममापि च भाग्यं सदृशं नेति वार्त्ता कुर्वतोर्द्वयोः समुद्रान्तश्चतुर्भिस्तुरगैः सह करडाकः प्रकटीबभूव । समागतश्च सकलोऽपि लोकश्चमत्कृतः । $ १८५) पुरा मुद्गलबंदीकृतवसा हजगड श्रीवीसलदेवेन दुर्गादागत्य निशि ...... र्नष्टा ) .. ...... द्रव्यमादाय नष्टः । भद्रेश्वरे व्यवहारी जातः । (१८७) अन्यदा सं० १३१५ वर्षे दुर्भिक्षकाले श्रीवीसलेन चणकत्रुटौ भद्रेश्वरव्यापारिणो नागडस्य लेखः प्रहितः । जगकोऽत्र धृत्वा समानेतव्यः । तेन तस्य लेखं दर्शयित्वा श्रीपत्तने तेन सह गतः नागडः । सर्वायपि रंककुटुंबानि तत्रागतानि । तेषां दानं दातुमारब्धम् । ततः स्थालैः ३६० तटा कृता । विशुद्धवेपाणां वणिक्पुत्राणां मध्ये तं सामान्यवेषस्थं वीक्ष्य राजा नोपलक्षयति । ततो मंत्रिणा दर्शितः । राज्ञोक्तम्-कथमीश एव वेषः । तेनोक्तम् - राजन् ! (२६१) तन्वंति डंबर भरैर्महिमा न मन्ये श्लाघ्यो जनस्तु गुणगौरवसंपदैव । शोभाविभूषणगणैरितरांगुलीनां ज्येष्ठत्वमेव रुचिरं खलु मध्यमायाः ॥ इति अष्टादशखंडै: सिंगिणिर्विदेशराज्ञा प्रहिता तस्यार्पिता । उक्तं च - राजन् ! किमर्थमहमाकारितः १ । राज्ञोक्तम् – चणकहेतोः । तेनोक्तम् - मयानंतगुणं लाभं विचार्य कणकोष्ठागाराः सर्वेऽपि रंकहेतोर्दत्ताः । राज्ञो - क्तम्-तर्हि मया वडरंकेन भाव्यम् । एवं हर्षितेन मूढकशत १८ चणकसमर्पणं विहितम् ' । + अत्र पृष्टस्योपरितनभागे एतादृशी टिप्पणी Jain Education International अ य मूडसहसा बीसलदेवस्स सोल हम्मीरा । एकवीसा सुलताना पर्यादिन्ना जगड दुकाले ॥ नवकरवाली मणिअडा तिहिं अग्गला चियारि । दानसाल जगडूतणी कित्ती कलिहि मझारि ॥ निर्यातदानदाता हरिकांता हृदय हार शृंगारः । दुर्भिक्षसंनिपाते त्रिजगडू जगडू चिरं जीयात् ॥ For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220