Book Title: Puratana Prabandha Sangraha
Author(s): Jinvijay
Publisher: ZZZ Unknown
________________
15
७२
पुरातनप्रबन्धसङ्ग्रहे (२३१) हंसैर्लब्धप्रशंसैस्तरलितकमलप्रत्तर स्तरङ्गै
रैरन्तर्गभीरैर्वकचटुलकुलग्रास[लीनैश्च मीनः । पालीरूढद्रुमालीतलसुखशयितस्त्रीप्रणीतैश्च गीत
___ र्भाति प्रक्रीडदातिस्तव सचिव! चलचक्रवाकस्तटाकः ॥१०॥ 5 अत्र पं० सोमेश्वरेण षोडशयमकव्यये षोडशसहस्रा द्रम्माणां प्राप्ताः । [पुनः] पं० सोमेश्वरेण(२३२) दिग्वासाश्चन्द्रमौलिविहरति रविरयं वाहवैषम्यकष्टं
राहोः सातङ्कमिन्दुर्विचरति गरुडानागवग्र्गो बिभेति । रत्नानां धाम सिन्धुस्त्रिदशगिरिपतौ वर्णमद्यापि यस्मा
कि दत्तं रक्षितं वा किमु किमुत जगत्यर्जितं येन गर्वः ॥ ११ ॥ 10(२३३) कलिकवलनजाग्रत्पाणिखेलत्कृपाणः द्युतिलहरिनिपीतप्रत्यनीकप्रतापः ।
जयति समरसत्त्वारम्भनिर्दम्भकेलिप्रमुदितजयलक्ष्मीकामुको वस्तुपालः ॥ १२॥ (२३४) यदि विदितचरित्रैरस्ति साम्यस्तुतिस्ते कृतयुगकृतिभिस्तैरस्तु तद्वस्तुपालः ।
चतुरचतुरुदन्वबन्धुरायां धरायां त्वमिव पुनरिदानी कोविदः कोऽविदग्धः ॥ १३ ॥ (२३५) मुञ्ज-भोजमुखाम्भोजवियोगविधुरं मनः।श्रीवस्तुपालवक्त्रेन्दौ विनोदयति भारती॥१४॥ (२३६) त्वं जानीहि मयास्ति चेतसि धृतः सर्वोपकारवती
किं नामा सविता न शीतकिरणो न स्वर्गवृक्षो नहि । पर्जन्यो नहि चन्दनो नहि ननु श्रीवस्तुपालस्त्वया
ज्ञातं सम्प्रति शैलपुत्रिशिवयोरित्युक्तयः पान्तु वः॥१५॥ (२३७) गाम्भीर्ये जलधिर्वलिर्वितरणे पूषा प्रतापे स्मरः
सौन्दर्ये पुरुषव्रते रघुपतिर्वाचस्पतिर्वाङ्मये । लोकेऽस्मिन्नुपमानता[मुपगताः सर्वे पुनः सम्प्रति
___ प्राप्तास्तेऽप्युपमेयतां तदधिके श्रीवस्तुपाले सति ॥ १६ ॥ (२३८) श्रीवस्तुपालः श्रियमेष केषां हृदि स्थितो हार इवातनोति ।
विश्राणयन्त्यक्षिगतापरागकणा इवात्तिं तु नियोगिनोऽन्ये ॥ १७ ॥ (२३९) दीपः स्फूर्जति सन्जकजलमला लेहं मुहुः संहर
__ निन्दुर्मण्डलवृत्तखण्डनपरः प्रवेषि मित्रोदयम् । सूरः क्रूरतरः परस्य सहते तेजो न तेजखिन
स्तत्केन प्रतिमं द्र(ब्र?)वीमहि महः श्रीवस्तुपालाभिधम् ॥ १८ ॥ (२४०) आयाताः कति नैव यान्ति कति नो यास्यन्ति नो वा कति
स्थानस्थाननिवासिनो भवपथे पान्थीभवन्तो जनाः। अस्मिन्विस्मयनीयबुद्धिजलधिर्विध्वस्य दस्यून्करे कुर्वन्पुण्यनिधिर्धिनोति वसुधां श्रीवस्तुपालः परम् ॥ १९ ॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220