________________
६८
पुरातनप्रबन्धसङ्ग्रहे नृपस्योपायने कृत्वा, एककोटि १६ लक्ष, वर्ष यावत् चडावके कृत्वा गृहीतम् । व्ययस्तादृगेव । केनापि कविना नृपं प्रति प्रोक्तम्(२००) एतावतैव वीसल ! पश्य प्राग्वाट-लाटयोर्भेदम् ।
एक इभानुपनिन्ये प्रथमश्चरमस्तु खरमेकम् ॥ 5 तेजपालेन स हस्ती ढौकने कृतः । लाटेन समराकेन वेसरश्वकः । द्रम्म लक्ष ३६ त्रुटो, द्वितीयवर्षे श्रीकरणं मुक्तम् ।
(२०१) बौद्धैबौद्धो वैष्णवैर्विष्णुभक्तः, शैवैः शैवो योगिभिर्योगरङ्गः ।
जैनस्तावजैन एवेति कृत्वा सत्त्वाधारः स्तूयते वस्तुपालः॥ ६१४६) सं० १२९८ वर्षे मन्त्री नृपं मुत्कलाप्य चलितः । नागडस्तु राणकसाथै मण्डलीं गतः । तत्र 10 तपोधनसाराविषये शिक्षा दत्त्वा अङ्केवालीआग्रामे०............प्रासादः । सरः । सत्रशालात्रयं च कारितम् ।
(B सङ्ग्रहे अत्र एतदेव वर्णनं किञ्चिद्विस्तारेण लिखितं लभ्यते । यथा-) {संवत् १२९८ वर्षे जातकेनायुषोऽन्तं परिज्ञाय नृपं मुत्कलापयामास-देव! क्षम्यताम् , यत्स्वामिन ऊणं खूणं वा कृतः । राजा-हे मत्रिन् ! कथमेतत् ? । देवसेवायै यास्यामि । मनिन् ! त्वं मदीय[तात]वीरधवलसमोऽतस्त्वां
कथं प्रेषये । कदाचिद्देयद्रम्माणां शङ्का भवति। तदा न कार्यम् । मदीयं शरीरं तवायत्तम् , द्रव्यः किम् , 15 द्रम्माणां पत्रं विदारयिष्यामि । परं मा व्रज । मत्री प्राह-देव ! द्रम्माणां किम् ?, द्रम्मा बाह्याः । देहं तु तव पिण्डैः पोषितम् । परमवसाने प्रत्यासन्ने देव ! तीर्थसेवा युक्ता । अश्रुपातपूर्व राज्ञा बीटकं दत्तम् । मत्रिजनान् क्षमयित्वा श्रीवस्तुपालो महता परिच्छदेन सह श्रीशत्रुञ्जयोपरि चचाल । इतो राणकनागडो मत्रिप्रयाणं श्रुत्वा सम्प्रेषयितुं चचाल । मंडल्यां गतेन मत्रिणाभिहितम्-राणक! राजकार्याणि सीदन्ति । यूयं प्रसादं कृत्वा वलत ।
तेनोक्तम्-तव गृहे बटुरसि । तवोपजीवनेन इयतीं ऋद्धिम् । करणीयं किमप्यादिश । मत्रिणोक्तम्20 (२०२) न कृतं सुकृतं किश्चित्सतां संस्मरणोचितम् । मनोरथैकसाराणामेवमेव गतं वयः॥
राणकः प्राह-परं किञ्चन मनसि दुष्यति, ममाग्रे किं नोच्यते । देव! मयि गते सति एते वतिनो दुःखिनो भविष्यन्ति । मत्रिन्! इत्थं कथमुच्यते ? । यद्भवतां पार्थात् सुखिनः करिष्यामि । परमियं चिन्ता न विधेया। इति राणको मुत्कलाप्य वलितः । मत्री अंकेवालिआग्रामे गतः । गुरवस्तत्रोक्ताः-भगवन् ! मेऽनशनं प्रयच्छत ।
तत्र तेजःपालानुमत्या गुरुभिरनशनं प्रदत्तम् । मन्त्री क्षमित-क्षामणापूर्वं पञ्च परमेष्ठिनः स्मरन् स्वर्ग गतः। संस्का25 रादनु तेजःपालेनास्थीनि श्रीशत्रुञ्जये प्रहितानि । तत्र स्वर्गारोहणप्रासादः कारितः । अंकेवालिआग्रामे प्रासादः कारितः । सरोवरं च सत्रशाला च । तत्र धर्मस्थानत्रयं कारितम् । तेजःपालो यात्रां विधाय पत्तने समायातः।)
६१४७) व्यापारे वर्ष १८ तदनु बइठा ऊठि । तथा १३०८ वर्षे महं० तेजःपालेन वर्गमनाय राजा [Ps. वीसलदेवः] मुत्कलापितः । तदा द्रम्मा लक्ष २७ देया आसन् । राज्ञा मुक्ताः'। [तथा राज्ञा द्रम्मा
लक्षत्रयं धर्मव्ययाय वितीर्य* ] तेजःपालः प्रहितः । श्रीसद्धं क्षमयित्वा श्रीशङ्केश्वरोपरि चलितः । चन्द्रोमाणा30 ग्रामे गतः । 'जातकमवलोकितम्-यच्चन्द्रोमाणाग्रामे पाश्चात्यप्रहरे व्ययः । मत्री अनशनमादाय दिवमगमत् । तत्र कीर्तनत्रयम् ।
६१४८) अथ मत्रिणि दिवं गते श्रीवर्धमानसूरयो वैराग्यादाम्बिलवर्द्धमानं तपः कर्तुं प्रारेभिरे । श्रीशद्धेश्वरपार्श्वनाथाभिग्रहं च जगृहुः। यत्तपसि सम्पूर्णे देवं नमस्कृत्य पारणकं करिष्यामः । सम्पूर्णे जाते देवं नन्तुं
, 1 B दम्मान् विमुच्य । * Ps आदर्श एवैतद्वाक्यं लभ्यते। + एतत्पंक्तिस्थाने P 'पाश्चात्यदिने दिवंगतः' इत्येव संक्षिप्तः पाठः। 1B आदर्श एतत्प्रकरणं प्राप्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org