________________
वस्तुपाल-तेजःपालप्रबन्धः। १४३) एवं पुण्यानि राजकार्याणि कुर्वतोरेकदा राणक लूणप्रसादेन तेजलं उक्तः-मत्रिन् ! को राजा कार्यः ? । वीरधवलः स्वर्गामी जातः । तत्पुत्रः शिशुः । यदि तव विचारे एति तदा वीरमस्य राज्यं दीयते । मत्रिणा उक्तम् -स्वामिन् ! मया स्वस्वामिसनोर्वीसलस्साङ्गीकृतमस्ति । राणकः प्राह-यद्यप्येवं तथापि मद्वाक्य मन्यस्व । मत्रिणा मानिते, रात्रौ वीरमः समेत्य राणकं लत्तया प्रहृत्य, प्राह-भो डोकर ! अद्यापि राज्याशां न मुश्चसि ?, किं द्वितीयमपि नियमाणं अपेक्षसे ? । एवमुक्त्वा गतः । राणकेन चिन्तितम्-अनेन कीलिकाभङ्गो न । प्रतीक्षितः । स कोऽप्यस्ति यः प्रातःप्रहरमध्ये वीसलमानयति । नागडेन भट्टपुत्रेणोक्तम्-अहं धवलक्के रात्रिपाश्चात्यप्रहरे यास्यामि । (तदनु करभीमारुह्य समेष्यति । स लेखं दत्त्वा प्रहितः । वीसलं सुप्तमुत्थाप्य प्राह-यदि त्वं राजा तदा मे किं ?। श्रीकरणम् । तर्हि चल । करभीमारुह्यायात् । प्रातः राणकः सकलपरिग्रहं सम्मील्य सहस्रलिङ्गोपकण्ठे उत्तारकं" दत्त्वा स्थितः । वीसलेन राणकस्तत्रैत्य नमस्कृतः । __ ततो राणकेन तिलकं कृत्वा तूर्यनादपूर्व धवलगृहे नीतः, सिंहासने उपवेशितश्च । वीरमः-किं ? किं ? याव-10 द्वक्ति" तावन्निखाननिखनपूर्वकं श्रीवीसलदेवाज्ञा श्रुता । अश्वसहादशभिः समं पृथग् भूत्वा स्थितः । इतस्तेजःपालबुद्ध्या राज्ञाऽचिन्ति-वृद्धस्य वीरमोपरि मोहोऽस्ति, मा कदाचिदेतद्विघटयतु-इति विमृश्य वट्टके विषं क्षिप्वा सन्ध्यायां राणकपार्श्वे गन्तुं प्रवृत्तः। राणकेन तु चिन्तितमस्ति"-मया विरूपं कृतम् । अद्यापि राज्यं प्रातरिमस्य दास्ये । उक्तम-द्वारे कोऽपि विशन रक्ष्यः । इतो राजा द्वारस्थैनिषिध्यमानोऽपि मध्ये प्रविश्य राणकं प्राह-ता अमृतमिदं सत्वरं पिबत" । वत्स! तव विचारे आयातम् । आयातं तानीतम् । राणकेन उक्तम्-त्वया राज्य-15 निर्वाहो भावी -एवमुक्त्वा पीतम् । तत्कालं दिवंगतः। तेजःपालस्य "राजस्थापनाचार्यः" इति विरुदं जातम् ।
१४४) इतो मत्रिबुद्ध्या श्रीवीसलदेवेन तृतीये दिने वीरमो भाणितः-यन्मे वीरमस्तातसमः । अतो यदि वक्ति तदा राज्यं मुञ्चामि, सेवां करोमि । तदनु प्रधानैर्महाधरैश्चोक्तं वीरमं प्रति-देव! राजा मान्यः । यस्त्वेवं वक्ति" । वीरमः प्राह-यदि मे नगरपञ्चकं नृपो ददाति-एकं प्रह्लादनपुर, द्वितीय विद्यापुरं, तृतीयं वर्द्धमानपुरं, चतुर्थं धवलकं, पञ्चमं पेटलाउद्रपुरं । एतानि पञ्च पुराणिः तथा वर्ष प्रति द्रम्म लक्ष ३ । एवं 20 यदि नृपो मन्यते तदा प्रणामं करोमि । नृपेण मानितम् । मत्रिणा तत्कालं "तन्नगरपरिसरे पञ्च ग्रामाणि तन्नाम्ना वासितानि । वीरमो मिलितः। नृपं प्रणम्य वीरमो वाटके स्थितः। वीसलदेवस्य राज्यं निष्कण्टकं जातम् । नागडस्य श्रीकरणं जातम् । मत्रिणो व्यापारो निवृत्तः । नृपेण “वृद्धामात्या" इति दत्तमानाः सेवां कुर्वाणाः सन्ति ।
(१९९) सूत्रे वृत्तिः कृता दुर्गसिंहेनापि मनीषिणा। विसूत्रेऽपि कृता तेषां वस्तुपालेन मत्रिणा॥* __ एकदा वीरमेन नगरपञ्चकं याचितम् । राज्ञा ग्रामपञ्चकं दर्शितम् । तेनोक्तम्-नगराणि याचे । राज्ञोक्तम्-25 एषु दत्तेषु किमवशिष्यते ? । तर्हि न स्थास्ये । व्रज । स सपरिच्छदो मालवं प्रति वजन् , राज्ञा जावालिपुरीयस्य चाचिगदेवस्य पार्थात् सइंवाडीघाटसमीपे मारितः।
६१४५) इतश्च-अर्बुदचैत्ये गजशालां वीक्ष्य यशोवीरेण मत्रिणा पृष्टम् -भवतां पूर्वजः कः श्रीकरणः । पृष्टम्-कथम् ? । श्रीकरणं विना गजशाला सत्या न भवति । तदनु तेजःपालेन गजः समानायितः। तं ___ 1 P 'राणक' नास्ति। 2 B तेजःपालो व्याहृतः। 3 राज्यं कस्य दीयते। 4 B सुतस्तु। 5 B समेति । 6 B नास्तीदं वाक्यम् । 7 B मम वाक्याद् वीरमस्यास्तु। 8 B डोल्लत्कर। 9 B नियन्तं । 10 B 'रात्रि' नास्ति । एतद. न्तर्गतपंक्तिस्थाने B आदर्श "तदनु करभीमधिरुह्य चलितः।" इत्येव पाठो विद्यते। 11 B चतुरकं। 12 B वीसलः समायातः । राणकं नमस्कृत्य यावदास्ते तावद्।। 13 B विधाय। 14 B.पुरस्सरं। 15 विधत्ते । 16 B सह। 17 B 'अस्ति' नास्ति । 18 B रक्षणीयः। 19 B कुरुत। 20 B समायातं । 21 B आयातेनानीतं । 22 B व्याहृतं। 23 B भविष्यति । 24 B कथयति । 25 नास्तीदं पदं B1 26 B मानयोग्यः। 27 B अभिदधाति । 28 B अपरं। 29 B नगराणां परिः। 30 B नास्तीदं वाक्यं । * P आदर्श एष श्लोको नास्ति। 31 B उक्तं। 32 B गजशाला न घटते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org