________________
६६
पुरातनप्रबन्धसङ्ग्रहे ___६१४१) तदनु विश्वमल्ले किश्चिद् यौवनाभिमुखे सति धवलक्ककात् सर्वमापृच्छय', मत्रिणं पाश्चात्ये विमुच्य, तेजःपालं सहादाय पत्तने गत्वा राणकं वीरमं च मुत्कलाप्य महता परिकरण गङ्गां प्रति चचाल । ततो मतोडातीर्थे दानादि दत्त्वा कुण्ड्यन्तर्विवेश । सा द्विजै|ल्यमानापि न बुडति । तेजःपालेनोक्तम्-कापि हृदि आतिः । राणकेनोक्तम्-राज्यं वीरमस्य भविष्यति वीसलिको रुलिष्यति । मम करे जलं क्षिप-वीसलस्य राज्यं मया 5 देयम् । मत्रिणा तथा हस्ते जलं क्षिप्तम्-एषा चिन्ता न विधेया । तदनु कुण्डी मना। तेजःपालः सुकृत्य विधाय क्रमेण पत्तनमायातः। इतो राणकस्तेजःपालमागतं श्रुत्वा सशोकः सभायामुपविष्टः । तावता तेजःपालेन विश्वमल्लस्योत्तारके राणकपदव्यास्तिलकं कृतम् । वादित्रवादनं श्रुत्वा राणकेन पृष्टम्-किमिदं विश्वमल्लस्योत्तारके? । इतस्तेजःपालो नृपगृहे प्राप्तः । राणकेनोक्तम्'-तेजल ! वादित्रवादने को हेतुः । देव ! विश्वमल्लः
स्वामिनः पट्टे अभिषिक्तः । इतो गोध्रियकेनोक्तम्-राज्ञाऽभिषिक्तो भवति त्वया वा?, मया न कथं ? । त्वं तु 10 पट्टस्य पदातिरसि । अद्य स्वस्वामिसुतो राणकः कृतोऽस्ति । कल्ये राजानं करिष्यामि । एवं गोधियन्तेजपालौ विवदानौ राणकेन निषिद्धौ । वार्ता" पृष्ट्वा सुतस्यौदेहिकं कृतम् ।।
श्रीवीरधवले दिवंगते मत्रिणा वस्तुपालेनोक्तम्(१९८) आयान्ति यान्ति च परे ऋतवः क्रमेण जातं तदेतदृतुयुग्ममगत्वरं तु ।
वीरेण वीरधवलेन विना जनानां वर्षा विलोचनयुगे हृदये निदाघः॥
15
अत्र मोजदीनमातुः सम्बन्धः।। [एष सम्बन्धः P सज्ञके आदर्श लिखितो नास्ति; परं B सझके आदर्श उपलभ्यते । तत एवात्रावतार्यते । यथा-]
६१४२) {इतश्च सुरत्राणमाजेदीनमाता कादिकश्च हजयात्रां कर्तुं पत्तनमायातौ । मत्रिणा प्रवेशोत्सवपूर्वक प्राघुणकं विधाय सम्प्रेषणपूर्वकं स्थाने स्थाने, मत्रिवचसा गौरवमनुभवन्तौ हजयात्रां कृत्वा प्रत्यावृत्तौ। प्रवेशपूर्वकं
भोजितौ । मात्रोक्तम्-त्वं मत्सुतः सुरत्राणादप्यधिकः । किमपि याचख । मातः! नागपुरप्रत्यासन्ने मकडाणा 20 ग्रामे पाषाणस्य खनिरस्ति । तस्याः प्रस्तरत्रयं स्वमातुः सकाशाद्याचे । तयोक्तम्-तथा करोमि, यथा मे सूनुः
समर्पयिष्यति । तथा उपायने तेजी ५०० प्रहितानि सार्द्धम् । इतः सुरत्राणः जनन्याः सम्मुखमाययौ । गुरुरुक्तः सुखेन यात्रा कृता?। वस्तुपालप्रसादेन | हिंदुकं किं प्रशंसयसि ? । तेनोक्तम्-तस्य भक्तिः सा या एकया जिह्वया वक्तुं न पार्यते । इदमुपायनम् । तदवलोक्याह-स किं याचते ? । प्रस्तरत्रयम् । एवं त्वं कथयन् हरामं जनयसि ? । किं करोमि?-तस्य सा भक्तिर्ययाऽहं बलादपि कथाप्ये । सुरत्राणेन फलहीत्रयमर्पितम् । मार्गे 25 रहकलानि भज्यन्ते । मत्रिणा कथापितम् यद् रहकलेषु उभयोरपि पक्षयोरखण्डधारा घृतस्य देया। एवं महोत्सवे जायमाने फलहिकाः श्रीशत्रुञ्जये प्राप्ताः। मन्त्री संघ संमील्य यात्रार्थमुपरि गतः । तत्र संघस्याञ्जलिपूर्व विज्ञप्तिकां चक्रे-संघस्त्ववधारयत । एप मे मनोरथः कदापि सिद्धिं मा प्रयात् । यतः पूर्वतीर्थस्यानर्थे जाते
पविशति । एतद्युगान्तेऽपि मा भूयात । परं न ज्ञायते । कदाचित्कालयोगेनानर्थः स्यात्तदिदं बिम्बं श्रीसंघेन प्रसादं विधाय स्थापनीयम् । संघस्याङ्के क्षिप्तमस्ति । एवमुक्त्वा एकां युगादिदेवस्य फलहिकाम् , एकां 80 पुंडरीकस्य, एकां कपर्देः-एवमभिधाय भूमिगृहे व्यधात् ।}
4
1 B मुत्कलाप्य। 2 B मागतोडा। 3 एतद्वाक्यस्थाने B 'कृतं एतत् ।' 4 B बुडिता। 5 B शोकवान् । 6 B नृपसमन्यायातः। 7 B पृष्टम्। 8 B तेजःपाल। 9 P भविष्यति । 10 P 'कथं अग्रे 'त्वया' शब्दोऽधिकः। 11 B वार्ता पृष्टा । 12 B विदधे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org