________________
10
15
वस्तुपाल-तेजःपालप्रबन्धः। प्रस्थिताः । मार्गे श्रान्तास्तृषिता एकस्य तरोस्तले देवं नमस्कृत्यानशनाद्विनष्टाः । शश्वरेऽधिष्ठायको जातः । ज्ञानेन मत्रिणो गतिमन्वेष्टुं प्रवृत्तः । अजानानो महाविदेहे श्रीसीमन्धरं नमस्कृत्य पप्रच्छ-भगवन् ! वस्तुपालजीवः क्व गतः । स्वामी आह-अत्रैव पुष्कलावतीविजये पुण्डरीकिण्यां कुरुचन्द्रो नाम नृपो जातः । स तृतीयभवे सेत्स्यति । अनुपमदेवीजीवः श्रेष्ठिनः सुता अत्रैव विजये जाता । साष्टवार्षिकाऽस्माभिर्दीक्षिता, देशोनां पूर्वकोटिं तपस्तत्वा सेत्स्यति । इति तेन व्यन्तरेणात्र भरते वस्तुपालानुपमदेव्योर्गतिः प्रकटीकृता ।
॥ इति वस्तुपाल-तेजःपालप्रबन्धः ॥ . (एतत्प्रबन्धप्रान्ते P सञ्जके सङ्ग्रहे निम्नगतं विशेषवर्णनं लिखितं लभ्यते-) ६१४९) अत्राग्रेतनः प्रबन्धः कथनीयः । वीरधवलेन वामनस्थल्यां जयतलदेविभ्रातरौ साङ्गण-चामुण्डराजौ मारितौ । युद्धे जाते १४ शततुरङ्ग स० ५ जजी (?) (२०३) जीत छहि जणेहिं सांभलि समहरि वाजीइ ।
बिहुँ भुजि वीरतणेहिं चिहुं पगि ऊपरवटतणे ॥ इति चारणोक्तिः। .६१५०) गोध्राधिपो घूघलमण्डलीकस्तेजःपालेन बद्धः धवलकपुरसभायामानीतः । तदा सोमेश्वरोक्तिः(२०४) मार्गे कर्दमदुस्तरे जलभृते गतशतैराकुले
खिन्ने शाकटिके भरेतिविषमे दूरे गते रोधसि । शब्देनैतदहं ब्रवीमि महता कृत्वोच्छ्रितां तर्जनी
मीदृक्षे गहने विहाय धवलं वोढुं भरं कः क्षमः॥ ६१५१) एकदा मत्री स्तम्भने आगतः । तत्राचार्यैरुक्तम्- . (२०५) अस्मिन्नसारसंसारे सारं सारङ्गलोचना ।
___मन्त्री रुष्टः । शृङ्गारिण एते । अष्टमे दिने
यत्कुक्षिप्रभवा एते वस्तुपालभवादृशः ॥ दशसहस्रदीनारा दत्ताः । न गृहीताः । भृगुपुरे लेप्यप्रतिमास्थाने अन्या कारिता तद्रव्येण । ६१५२) एकदा मत्रिभिः पलितं दृष्ट्वा चिन्तितम्(२०६) अधीतान कला काचित् न च किश्चित्तपः कृतम्। दत्तं न किश्चित्पात्रेभ्यो गतं च मधुरं वयः॥ (२०७) आयुर्योवनवित्तेषु स्मृतिशेषेषु या मतिः । सैव चेजायते पूर्व न दूरे परमं पदम् ॥ ६१५३) सङ्घप्रारम्भ नरचन्द्रसरिभिरुक्तम्- - __ (२०८) चौलुक्यः परमाहतो नृपशतखामी जिनेन्द्राज्ञया
- निर्ग्रन्थाय जनाय दानमनघं न प्राप जानन्नपि । सम्प्राप्तस्त्रिदिवं खचारुचरितैः सत्पात्रदानेच्छया।
त्वद्रूपोऽवततार गूर्जरभुवि श्रीवस्तुपालो ध्रुवम् ॥ मत्री यात्रायां वृषभं प्रति पपाठ-"आसं कस्य न वीक्षितं० ॥" (२०९) यदाये द्यूतकारस्य यत् प्रियायां वियोगिनः । यद्राधावेधिनो लक्ष्ये तद्ध्यानं मेऽस्तु ते मते॥ :
रैवते नेमि प्रति(२१०) कल्पद्रुमस्तरुरसौ तरवस्तथाऽन्ये चिन्तामणिर्मणिरसौ मणयस्तथाऽन्ये ।
धिग जातिमेव ददृशे बत यत्र नेमिः श्रीरवते स दिवसो दिवसास्तथाऽन्ये ।।
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org