Book Title: Puratana Prabandha Sangraha
Author(s): Jinvijay
Publisher: ZZZ Unknown

Previous | Next

Page 81
________________ 5 पुरातनप्रबन्धसङ्ग्र (६७) प्रभाधिनाथैर्मुनिभिः कलाभृत् मुख्यैरुपेतो गुरुतारकौघैः । अनन्तलीलाकलितः किलास्ते गच्छो बृहद्गच्छ इति प्रतीतः ॥ (६८) तत्र चित्रचरितः परितापं हर्तुं मेघ इव भव्यजनानाम् । शिष्यवृद्धिकर संवर वानप्युज्वलोऽजनि गुरुर्मुनिचन्द्रः ॥ (६९) दुःषमाजलधौ येन मग्ना सुविहितस्थितिः । हेलयेव समुह धरित्रीवादिपोत्रिणा ॥ तच्छिष्य : - ( ७० ) पडिबोहिअमहिलओं निन्नासिअकुमततिमिरखरो । सचपबोहकरो जयउ जए देवसूरिरवी ॥ तावचिअ गलगजिं कुणंति परवाइमत्तमायंगा । चरणचवडचमकं न देइ जा देवसूरिहरी || (७१) २६ 10 ९५३) तस्य चरितारम्भ: - * धन्याधारदेशे मड्डाहडपुरे वीरणागश्रेष्ठी प्राग्वाटज्ञातीयो वसति । तत्प्रिया जिनदेवी । साऽन्यदा स्वमे चन्द्रं मुखे विशन्तं ददर्श । अथ गुरूणां श्रीमुनिचन्द्रसूरीणामुक्तम् । तैरुक्तम् - चन्द्रवत्सौम्यः तो भावी । सा समये शुभदिने सं० ११४३ वर्षे वैशाखशुद्धदशम्यां सुतमस्त । पूर्णचन्द्र इति नाम कृतम् । कदाचिन्मड्डाहडेऽशिवमुत्पन्नम् । लोको दिशोदिशं गतः । वीरणागोऽपि भृगुकच्छे गतः । पूर्णचन्द्रस्तु अष्टवा - र्षिकः सन् शुष्कभक्षिकां विक्रीणाति । गुरवस्तत्रायाताः । स शुष्कभक्षिकां विक्रेतुं कस्यापि गृहे गतः । तद्गृहे15 शोऽपि निधानद्रव्यमङ्गाररूपं त्यजन् पूर्णचन्द्रेणोक्तः - स्वर्णं किं त्यजसि १ । तेनोक्तम् - मम भाग्यादङ्गारा जाताः, त्वं स्वकरे कृत्वा ममार्पय । तेनार्पितम् । धनिकेन कनकं दृष्टम् । धनिकेन शुण्डो भृत्वा स्वर्णस्यार्पितः । तेन पितुरर्पितः । पित्रा गुरूणामुक्तम् । सूरिभिरुक्तम् - एष न सामान्यः, यद्यस्माकं ददासि तदा प्रभावको भावी । पित्रोक्तम्-अहं वृद्धः; तथा एकमुतो निर्द्रव्यः । पूज्यानां च वचोऽन्यथा कर्तुं न शक्यते । गुरुभिरुक्तम्-मम तपोनानां पञ्चशत्यस्ति ते सर्वे तव सूनवः । स दयितां पृष्ट्वा पुत्रं गुरूणां ददौ । सं० ११५२ वर्षे दीक्षा । प्राज्ञ - 20 त्वात् समग्रशास्त्रपारङ्गतो जातः । रामचन्द्र इति नाम दत्तम् । स महावादी जातः । पूर्वं धवलकापुरे धन्धो नाम द्विजो जितः । काश्मीरदेशीयो द्विजः सत्यपुरे सागरो जितः । नागपुरे गुणचन्द्रो दिगम्बरो जितः । चित्रकूटे शिवभूतिर्भागवतो जितः । गोपगिरौ गंगाधरो द्विजः, धारायां धरणीश्वरः, पुष्करिण्यां पद्माकरः । इतो विमल'चन्द्र- हरिचन्द्र- पार्श्वचन्द्र-सोमचन्द्र-शान्तिकलश-अशोकचन्द्राद्याः सहायाः सञ्जाताः । गुरुभिः सं० ११६२ वर्षे पदे स्थापितः - देवर इति नाम जज्ञे । तथा वीरणागश्रेष्ठिना जिनदेवीसहितेन तथा सरस्वतीनाच्या पुत्र्या25 न्वितेन व्रतमात्तम् । पुत्र्याश्चन्दनबालानाम्ना गुरुभिर्महत्तरापदमदायि । १५४) अन्यदा धवलक्कके विहारे गताः । तत्र ऊदाश्रेष्ठिना श्री सीमन्धरप्रासादोऽकारि । तस्यायमभिप्रायःयत् सीमन्धरो यं कथयति तेन प्रतिष्ठां कारयामि । उपवासत्रयं जातम् । सङ्घो मिलितः । शासनदेवी स्मृता । कार्ये निवेदिते, देव्या उक्तम् - श्रीसङ्घः कायोत्सर्ग करोतु । तस्य बलात् देवी तत्र गता । श्रीसीमन्धरं नत्वा * B सङ्ग्रहे एतच्चरितस्यारम्भः किञ्चिद्भिन्नपाठक्रमेणोपलभ्यते । यथा मड्डाहम्मि नयरे निवसइ सेट्टी अ वीरणागु त्ति । सिरिपोरवाडवंसे जिणदेवी तस्स भज्जा य ॥ तयोस्तनूजः शुभस्वमसूचितो रामचन्द्र नामास्ति । अन्यदाऽवृष्टौ सत्यां दुर्भिक्षवशात् भृगुपुरे सुभिक्षं श्रुखा श्रेष्ठी तत्र गतः । रामचन्द्रस्तु नौवित्तवाक्यां वाणिज्याय यदपि तदध्यादाय याति । एकदा श्रीमुनिचन्द्रसूरयो विहारेणाजग्मुः । वीरणागो वन्दनायायातः । इतो रामचन्द्रेण षोडशवर्षदेशीयेन पौषधागारमागत्योक्तम्-तात ! मया चणकान् दत्त्वा तावत्यो द्राक्षाः समानीताः । गुरुभिर्लक्षणान्यवलोक्य श्रेष्ठी उक्तः श्रेष्ठिन् ! पुत्रो महाभाग्यवान्, त्वद् गृहे सन् तव कुलस्यैव द्योतको भावी; परं गृहीतदीक्षः सकलस्यापि जिनशासनस्य द्योतको भविता । ततः श्रेष्ठिना श्रेष्ठिन्या च क्षमाश्रमणं वृत्तम् । भगवन् ! सपुत्रयोरप्यावयोर्दीक्षया प्रसादं कुरु ।... ( इतोऽग्रे B सङ्ग्रहः खण्डितः ) Jain Education International For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220