Book Title: Puratana Prabandha Sangraha Author(s): Jinvijay Publisher: ZZZ UnknownPage 99
________________ पुरातनप्रबन्धसङ्ग्रहे २८. कुमारपालपूर्वभवप्रबन्धः (B.) .६८६) एकदा श्रीकुमारपालेन श्रीहेमसूरयः पूर्वभवस्वरूपं पृष्टाः। ततः सूरयः सिद्धपुरे गताः। प्राचीमाधवाग्रे श्मशानभूमौ चतुरः श्रावकान् कृतोपवासान् चतुर्दिक्षु तपोधनांश्चत्वारो विदिक्षु स्थाप्य स्वयं त्रिभुवनस्वामिनी विद्यां स्मृतवन्तः । देव्याह-सरणकारणं वदत । तैस्तु नृपभवः पृष्टः । देव्याह-मेदपाटदेशे चित्रकूटप्रत्यासन्ने 5 ऊपरमालपर्वते परमारवंशीयो जैत्रः पल्लीपतिरासीत् । सोऽन्यदा धाराया गगनधूले यकस्य दशसहस्रबलीवईमितं सार्थं जगृहे । नायको नंष्ट्वा मालवेशमाह । राज्ञोक्तम्-मया तस्य किमपि कर्तुं न शक्यते । तेनोक्तम्-मया शक्यते। कटकमादायाज्ञातवृत्त्या पक्ष्यां गतः। जैत्रो नष्टः । तेन कीटमारिं कृत्वा जयतापल्याः सगर्भाया बालं भूमावास्फोव्य वलित्वा च तं नृपं प्रति स्ववृत्तमुक्तम् । नृपेणादृष्टव्योऽयमिति तिरस्कृतो जनैर्निन्धमानस्तापसाश्रमे गत्वा शुद्धिकृते तपस्वी जातः । अथ जैत्रः स्थानभ्रंशाच्चोरवृत्त्या जीवन्नेकस्मिन् सार्थे मिलितः। सार्थे 10 स्थिते श्राद्धा देवपूजां विधाय सरसः पालौ ब्रजन्तो वीक्ष्य तैः सार्धं गतः । ते तपोधनान् नमस्कृत्य धर्मोपदेशं श्रुत्वा क्षमाश्रमणपूर्व तपोधनानादाय गताः। स तथैव स्थितस्तपोधनाः समायाताः। स न उत्तिष्ठति । मयि बुभुक्षिते कथं भोक्ष्यन्ति मुनयः। श्राद्धानाहूय भोजितः । तदनु गुरुभिरुक्तम्-त्वं चौर्यस्यादत्तस्य नियमं गृहाण । तेनोक्तम्-यादरपूरणं भवति तदा नाहं करोमि । तैः श्राद्धपार्थाच्छम्बलं दापितम् । स क्रमेण सार्थाचलितो गुरुभिर्नियम सारितः । उरंगलपत्तने गतः। तत्र ओंढरनायकाट्टे उपविष्टः । तेनागतेन पृष्टम्-क यास्यसि । 15 तेनोक्तम्-यत्रोदरपूर्तिर्भविष्यति । नायकेन स्थापितः । शुद्धवृत्त्या सञ्चरन् विश्वासपात्रं जातः । एकदा चतुष्पदे विसाधनहेतौ प्रहितः । इतो हट्टान् दीयमानान् दृष्ट्वा पृष्टम् । तैरुक्तम्-सूरयः समायाताः । सम्मुखैर्गम्यते । तेन चिन्तितम्-अहमपि यामि । यदि ते मे गुरवो भवन्ति । इति मत्वा सूरीनुपलक्ष्य नमस्कृतवान् । गुरुभिः कुशलं पृष्टम् । स क्रमेण विसाधनमादाय गतः । नायकेन पृष्टम् । तेन वृत्तमुक्तम् । नायकः सुभद्रकत्वात्तत्र तेन सह गतः । “न कयं दीणुद्धरणं" इत्यादिव्याख्यानान्ते सुबुद्धो धर्ममङ्गीकृतवान् । गुरूनाह-दक्षिणां याचत । 20 तैरुक्तम्-अत्र जिनालयो नास्ति तं कारय । तथाकृते प्रासादप्रतिष्ठा जाता। एकदा पर्वदिने नायको वस्त्राणि निर्मलानि परिधाय जैत्रेण सह प्रासादं गतः। तेन पूजा कृता । जैत्रायोक्तम्-त्वमपि पूजां कुरु । तेन किमपि द्रव्यमासीत्तेन पुष्पाण्यादाय पूजा कृता । पौषधागारे नायकैनोपवासः कृतो जैत्रेणापि । पश्चाद् गृहे गतो धौतवस्त्राणि मुक्तानि । जैत्रो भोजनायोपविष्टः । परिवेष्य यावत् स्थितस्तावत्पारणार्थी मुनिराययौ । कालेनानशनमादाय स्वर्ग्यभूत् । जैत्रोऽप्यनशनमादाय त्रिभुवनपालदेवसुतो जज्ञे । नायकजीवस्तु जयसिंघदेवो जातः । 25 पूर्वभवपातकादनपत्यो जातः । ततो गुरुभिर्नुपाय निवेदितम् । नृपो हृष्टः ॥ इति कुमारपालदेवपूर्वभवप्रबन्धः॥ २९. द्वात्रिंशद्विहारप्रतिष्ठाप्रबन्धः ( BR. ) ६८७) एकदा श्रीपत्तने द्वात्रिंशद्विहाराणां प्रतिष्ठां महदुत्सवेन प्रारब्धां श्रुत्वा वटपद्रपुरनिवासी वसाह कान्हाकः स्वयं कारितप्रासादबिम्बमादाय श्रीपत्तने प्रतिष्ठार्थमाययौ । हेमाचार्याः प्रतिष्ठार्थेऽभ्यर्थिताः । तैर्मानितम् । इतस्तस्मिन् दिने जनसम्मः जातः । रात्रौ घटी मण्डिता । इतो वसाहस्य भोगाद्युपस्कारो विस्मृतः । तेन तमानीतुं 30 गते लग्नघटी असमये वादिता । स आगतः । मध्ये प्रवेशं अलब्ध्वा लग्नघटीं श्रुत्वा विषण्णः । प्रतिष्ठापश्चाजनो विरलो जातः । कान्हाकोऽप्यन्तः प्रविश्य गुरूणां चरणयोर्लगित्वा बाढं रुरोद । मदीयं बिम्ब प्रभो ! स्थितम् । गुरुभिरूद्धमवलोकितम् । लग्नं तदा वहमानं विलोक्योक्तम्-भो ! त्वं पुण्यवान् , लग्नमधुनास्ति, परिच्छेदं कुरु विम्वप्रतिष्ठायाम् । स न मन्यते । गुरुभिः प्रतिष्ठां विधायोक्तम्-यदि न मन्यसे तथा देवं पृच्छ-एतत्तथ्यं न Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220