Book Title: Puratana Prabandha Sangraha
Author(s): Jinvijay
Publisher: ZZZ Unknown

Previous | Next

Page 97
________________ पुरातनप्रबन्धसङ्ग्रहे तसादमूभ्यो मांसं नेष्टं किन्तु भवतामेवेष्टम् । तस्मादहं जीववधं न करिष्ये । ते विलक्षाः स्थिताः । छागमूल्यसमेन धनेन नैवेद्यानि कारितानि । अथाश्विनशुक्लदशम्यां कृतोपवासः मापो निशि चन्द्रशालायां स्थितः । ध्यानेन पञ्चपरमेष्ठिपदं जपन्नस्ति । बहिःस्थाः सन्ति । गता वही निशा । एका दिव्या स्त्री प्रत्यक्षीभूय जगादराजन्नहं तव कुलदेवी कण्टेश्वरी । त्वयाऽस्माकं देयं च न दत्तम् । नृपेणोक्तम्-दयालुरहम् , अतःपरं पिपीलिका5 मपि न हन्मि, का कथा पशूनाम् । कण्टेश्वरी इति श्रुत्वा क्रुद्धा नृपं शिरसि त्रिशूलेन हत्वा गता । नृपस्तत्क्षणात्कुष्ठी जातः । विखिना भृत्येन उदयनतनूजं वाग्भटमाकार्य पप्रच्छ-मत्रिन् ! देवी पशून् याचते, दीयन्ते न वा । मत्रिणा दाक्षिण्यादुक्तम्-देव ! दीयते । मत्रिन् ! वणिगसि, यदेवं ब्रूषे तर्हि ममातः परं जीवितव्येनालम् । राज्यं प्राप्तम् , धर्मो लब्धः संसारतारकः, शत्रवो हताः। त्वरितं काष्ठसञ्जतां कुरु । येनेदृशं मां दृष्ट्वा जनो धर्मस्योड्डाहं विधास्यति । गुरुन् गत्वा मुत्कलापय । राज्ञा विसृष्टो गतो गुरूणां पार्थे । स्वरूपं निवेदितम् । 10गुरुभिर्नीरमानाय्य कलापनीय( B कालापानीय )मर्पितम् । तेन पूर्व देहाभ्यङ्गः कृतः पश्चात्पीतं च । नृपस्त क्षणं सुवर्णवर्णो जातो वपुषि । प्रातर्गुरूणां नन्तुं गतः । ततो गुरुभिर्देशना चक्रे । पश्चादमारिविषये विशेषोद्यमः कृतः॥ एवममारिविषये कुमारपालप्रबन्धः॥ २७. कुमारपालदेवतीर्थयात्राप्रबन्धः (B.) ८४) एकदा गुरुभिरुपदेशो दत्तः_15 (१२२) शूराः सन्ति सहस्रशः प्रतिपदं विद्याविदोऽनेकशः ___ सन्ति श्रीपतयो निरस्तधनदास्तेऽपि क्षिती भूरिशः। [ज्ञात्वाकर्ण्य निरीक्ष्य चान्यमनुजं दुःखार्दितं यन्मन स्ताद्रूप्यं प्रतिपद्यते सपदि ते सत्पूरुषाः पञ्चषाः ॥ एकदा प्रभुभिर्भरतस्य चक्रिणः साधर्मिकवात्सल्यकथा कथिता । नृपस्तां श्रुत्वा प्रतिग्राम प्रतिपुरं साध20 मिकवात्सल्यमारेभे । तदृष्ट्वा कविः श्रीपालपुत्रः सिद्धपालोऽपाठीत् (१२३) क्षित्वा वारिनिधिस्तले मणिगणं रत्नोत्करं रोहणो _रेवावृत्त्यसुवर्णमात्मनि दृढं बद्धा सुवर्णाचलः। क्ष्मामध्ये च धनं निधाय धनदो विभ्यन् परेभ्यः स्थितः किं स्यात्तैः कृपणैः समोऽयमखिलार्थिभ्यः स्वमर्थ ददन् ॥ . द्रम्मलक्ष १ दानम् । पं० श्रीधरेणोक्तम्- . (१२४) पूर्व वीरजिनेश्वरे भगवति प्रख्याति धर्म स्वयं प्रज्ञावत्यभयेऽपि मन्त्रिणि न यां कर्तुं क्षमः श्रेणिकः। अक्लेशेन कुमारपालनृपतिस्तां जीवरक्षा व्यधात् यस्यासाद्य वचस्सुधांशुपरमः श्रीहेमचन्द्रो गुरुः ॥ 30 अत्रापि लक्षदानम् । अन्येयुः कथाप्रसङ्गे प्रभवः प्राहुः-पूर्वं भरतो राजा श्रीमालपुरे श्रीशत्रुञ्जये सोपारकेऽष्टापदे च जीवितखामिप्रतिमाश्चकार । श्रीसङ्घस्खचक्रोच्छलितरजःपुञ्जध्यामलितदिक्चक्रवालः सङ्घपतिर्भूत्वा ववन्दे । तदाकर्ण्य श्रीकुमारपालनृपतिः स्वयं कारिते देवालयेऽर्हदिम्बमारोप्य ससैन्यः शत्रुञ्जयोजयन्तादियात्रायै चचाल । सङ्घन 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220