________________
पुरातनप्रबन्धसङ्ग्रहे तसादमूभ्यो मांसं नेष्टं किन्तु भवतामेवेष्टम् । तस्मादहं जीववधं न करिष्ये । ते विलक्षाः स्थिताः । छागमूल्यसमेन धनेन नैवेद्यानि कारितानि । अथाश्विनशुक्लदशम्यां कृतोपवासः मापो निशि चन्द्रशालायां स्थितः । ध्यानेन पञ्चपरमेष्ठिपदं जपन्नस्ति । बहिःस्थाः सन्ति । गता वही निशा । एका दिव्या स्त्री प्रत्यक्षीभूय जगादराजन्नहं तव कुलदेवी कण्टेश्वरी । त्वयाऽस्माकं देयं च न दत्तम् । नृपेणोक्तम्-दयालुरहम् , अतःपरं पिपीलिका5 मपि न हन्मि, का कथा पशूनाम् । कण्टेश्वरी इति श्रुत्वा क्रुद्धा नृपं शिरसि त्रिशूलेन हत्वा गता । नृपस्तत्क्षणात्कुष्ठी जातः । विखिना भृत्येन उदयनतनूजं वाग्भटमाकार्य पप्रच्छ-मत्रिन् ! देवी पशून् याचते, दीयन्ते न वा । मत्रिणा दाक्षिण्यादुक्तम्-देव ! दीयते । मत्रिन् ! वणिगसि, यदेवं ब्रूषे तर्हि ममातः परं जीवितव्येनालम् । राज्यं प्राप्तम् , धर्मो लब्धः संसारतारकः, शत्रवो हताः। त्वरितं काष्ठसञ्जतां कुरु । येनेदृशं मां दृष्ट्वा जनो धर्मस्योड्डाहं विधास्यति । गुरुन् गत्वा मुत्कलापय । राज्ञा विसृष्टो गतो गुरूणां पार्थे । स्वरूपं निवेदितम् । 10गुरुभिर्नीरमानाय्य कलापनीय( B कालापानीय )मर्पितम् । तेन पूर्व देहाभ्यङ्गः कृतः पश्चात्पीतं च । नृपस्त
क्षणं सुवर्णवर्णो जातो वपुषि । प्रातर्गुरूणां नन्तुं गतः । ततो गुरुभिर्देशना चक्रे । पश्चादमारिविषये विशेषोद्यमः कृतः॥ एवममारिविषये कुमारपालप्रबन्धः॥
२७. कुमारपालदेवतीर्थयात्राप्रबन्धः (B.) ८४) एकदा गुरुभिरुपदेशो दत्तः_15 (१२२) शूराः सन्ति सहस्रशः प्रतिपदं विद्याविदोऽनेकशः
___ सन्ति श्रीपतयो निरस्तधनदास्तेऽपि क्षिती भूरिशः। [ज्ञात्वाकर्ण्य निरीक्ष्य चान्यमनुजं दुःखार्दितं यन्मन
स्ताद्रूप्यं प्रतिपद्यते सपदि ते सत्पूरुषाः पञ्चषाः ॥ एकदा प्रभुभिर्भरतस्य चक्रिणः साधर्मिकवात्सल्यकथा कथिता । नृपस्तां श्रुत्वा प्रतिग्राम प्रतिपुरं साध20 मिकवात्सल्यमारेभे । तदृष्ट्वा कविः श्रीपालपुत्रः सिद्धपालोऽपाठीत्
(१२३) क्षित्वा वारिनिधिस्तले मणिगणं रत्नोत्करं रोहणो
_रेवावृत्त्यसुवर्णमात्मनि दृढं बद्धा सुवर्णाचलः। क्ष्मामध्ये च धनं निधाय धनदो विभ्यन् परेभ्यः स्थितः किं स्यात्तैः कृपणैः समोऽयमखिलार्थिभ्यः स्वमर्थ ददन् ॥ .
द्रम्मलक्ष १ दानम् । पं० श्रीधरेणोक्तम्- . (१२४) पूर्व वीरजिनेश्वरे भगवति प्रख्याति धर्म स्वयं
प्रज्ञावत्यभयेऽपि मन्त्रिणि न यां कर्तुं क्षमः श्रेणिकः। अक्लेशेन कुमारपालनृपतिस्तां जीवरक्षा व्यधात्
यस्यासाद्य वचस्सुधांशुपरमः श्रीहेमचन्द्रो गुरुः ॥ 30
अत्रापि लक्षदानम् । अन्येयुः कथाप्रसङ्गे प्रभवः प्राहुः-पूर्वं भरतो राजा श्रीमालपुरे श्रीशत्रुञ्जये सोपारकेऽष्टापदे च जीवितखामिप्रतिमाश्चकार । श्रीसङ्घस्खचक्रोच्छलितरजःपुञ्जध्यामलितदिक्चक्रवालः सङ्घपतिर्भूत्वा ववन्दे । तदाकर्ण्य श्रीकुमारपालनृपतिः स्वयं कारिते देवालयेऽर्हदिम्बमारोप्य ससैन्यः शत्रुञ्जयोजयन्तादियात्रायै चचाल । सङ्घन
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org