________________
४३
15
कुमारपालदेवतीर्थयात्राप्रबन्धः। सह-उदयनसुतो वाग्भटश्चतुर्विंशतिमहाप्रासादकारापकः, नागराजश्रेष्ठिभूः श्रीमानाभडः, षड्भाषाचक्रवर्ती प्राग्वाटश्रीपालः, तत्तनयः सिद्धपालः कवीनां दातॄणां धुर्यः, भाण्डागारिकः कपर्दी, परमारवंश्यः प्रह्लादनपुरनिवेशकारकः प्रह्लादनः, राजेन्द्रदौहित्रः प्रतापमल्लः, नवनवतिलक्षस्वर्णस्वामी ठक्करछाडाकः, तथा श्राविका देवी श्रीभोपलदे, नृपपुत्री लीलू, राणाअंबडमाता, वसाह आभडपुत्री बाई चांपलदे-इत्यादिकोटीश्वरो लोकः । सूरयः-श्रीदेवाचार्याः, श्रीअभयदेवसूरिशिष्याः श्रीजिनचन्द्रसूरयस्तेषां गुरुवान्धवाः श्रीजिनवल्लभ- 5 सूरयः, श्रीचैत्रगच्छीयाः श्रीधर्मसूरयः, श्रीवीराचार्याः-इत्यादिसूरिवर्गः। श्रीदेवसूरीणां भगिनी प्रवर्तिनी सरखती, श्रीहेमचन्द्रसूरीणां महत्तरापुष्पचूलाद्याः साध्व्यः लक्षसंख्या मानवाः। एवंविधेन सङ्ग्रेन सह स्थाने स्थाने प्रभावनां कुर्वन् चैत्यपरिपाटीं च कुर्वन् याचकेभ्य इच्छानुरूपं भोजनं यच्छन् श्रीवर्धमानमार्गेण रैवतकाद्रौ गतः । सांकलिआलीपद्यातले श्रीसङ्घः स्थितः । राज्ञोक्तम्-प्रभो ! पादमवधारयत, यथोपरि गम्यते । गुरुभिरुक्तम्-हे कुमारपालराजन् ! यूयं गच्छत, वयं पश्चादेष्यामः । नृपेणोक्तम्-गुरून्विनोपरि कथं यामि ? । गुरु-10 भिरुक्तम्-अत्रेदृशो जनप्रवादः, यत् यदोत्तमनरद्विकं छत्रशिलाऽधो यास्यति तदाऽनर्थः । अतो यूयं पूर्व ब्रजत । नृपस्तु धौतवासांसि परिधायोपरि गतस्तदनु गुरवः । सर्व तीर्थकायं कृत्वा नृपो वाग्भटदेवेन नूतनपद्यया मत्रिणाऽऽप्रेण कारितयोत्तारितः । तदनु तलहट्टिकायां जीर्णदुर्गे सङ्घवात्सल्यं सङ्घपूजां च कृत्वा देवपत्तने ससङ्घो नृपो गतः। तत्र श्रीचन्द्रप्रभादितीर्थान्नमस्कृत्य वलमानः श्रीशत्रुञ्जयमधिरूढवान् । चैत्यपरिपाट्यां जायमानायां भाण्डारिकः कपर्दी पाह(१२५) श्रीचौलुक्य ! स दक्षिणस्तव करः पूर्व समासूत्रित
प्राणिप्राणविघातपातकसखः शुद्धो जिनेन्द्रार्चनात्। . वामोऽप्येष तथैव पातकसखः शुद्धिं कथं प्राप्नुया
न स्पृश्येत करेण चेद्यतिपतेः श्रीहेमचन्द्रप्रभोः॥ - ६८५) मेरुमहाध्वजा-महापूजा-अमारिकादिसर्व प्रवर्तितम् । मालोद्घट्टनसमये राज्ञि सङ्घ चोपविष्टे मत्री 20 वाग्भटदेवो द्रम्मलक्षचतुष्कमवदत् । केनापि च्छन्नेनाष्टौ लक्षाः कृताः। एवं क्रमेण वर्द्धमानेषु कश्चित्सपादकोटीश्वकार । नरेन्द्रश्चमत्कृतोऽवादीदुत्थाप्यताम् । स उत्थितः । यावदृश्यते मलिनवसनो वणिक् । राज्ञा मन्त्री उक्त:द्रम्मसौस्थ्यं कृत्वा मालां प्रयच्छ । मन्त्री तेन सह पादुकान्तिके गत्वा द्रम्मसौस्थ्यं पप्रच्छ । तेन सपादकोटिमूल्यं माणिक्यं दर्शितम् । मत्रिणा पृष्टम्-इदं ते कुतः । तेनोक्तम्-महुआवास्तव्यो मम पिता हंसो नाम सौराष्ट्रिकः प्राग्वाटः । तत्पुत्रोऽहं जगडः । माता मे धारू । मम पित्रा मरणसमयेऽहं भाषितः-वत्स ! मया प्रवहण-25 यात्राश्चिरं कृताः, फलिताश्च । मेलितं धनम् । तेन क्रीतं सपादकोटिमूल्यं रत्नमेकैकम् । एवमधुना मम श्रीयुगादिचरणः शरणम् । अनशनं प्रतिपन्नम् । उक्तं च-एकं श्रीनेमिने, एकं श्रीचन्द्रप्रभाय, द्वयमात्मनोऽन्तर्धनं दध्याः । बाह्यधनमपि तव प्रचुरमस्ति । इदानीं यात्रायै मया माता सहानीताऽस्ति । कपर्दिभवने मुक्ताऽस्ति । तां जरन्तीं मातरं सर्वतीर्थाधिकतया पुराणपुरुषैनिवेदितां मालां परिधापयिष्यामि । श्रुत्वा मत्री हृष्टः सङ्घ च सम्मुखं नीत्वा महोत्सवेनानीय सङ्घसमक्षं मालापरिधानं कारितम् । तन्माणिक्यं स्वर्णजटितं कृत्वा कण्ठाभरणे 30 मध्यमणिस्थाने निवेश्य श्रीयुगादिदेवाय दत्तम् । देवं मुत्कलाप्य स्वयमारात्रिकमाधाय सङ्घः समुत्तीय क्रमेण चलितः। प्राप्तः श्रीपत्तने । प्रवर्तितं सङ्घवात्सल्यम् । प्रतिलाभिताश्च [ साधवः] | अमारिस्तु शाश्वतैव ॥
॥ इति श्रीकुमारपालदेवतीर्थयात्राप्रबन्धः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org