________________
पुरातनप्रबन्धसङ्ग्रहे
२८. कुमारपालपूर्वभवप्रबन्धः (B.) .६८६) एकदा श्रीकुमारपालेन श्रीहेमसूरयः पूर्वभवस्वरूपं पृष्टाः। ततः सूरयः सिद्धपुरे गताः। प्राचीमाधवाग्रे श्मशानभूमौ चतुरः श्रावकान् कृतोपवासान् चतुर्दिक्षु तपोधनांश्चत्वारो विदिक्षु स्थाप्य स्वयं त्रिभुवनस्वामिनी विद्यां स्मृतवन्तः । देव्याह-सरणकारणं वदत । तैस्तु नृपभवः पृष्टः । देव्याह-मेदपाटदेशे चित्रकूटप्रत्यासन्ने 5 ऊपरमालपर्वते परमारवंशीयो जैत्रः पल्लीपतिरासीत् । सोऽन्यदा धाराया गगनधूले यकस्य दशसहस्रबलीवईमितं सार्थं जगृहे । नायको नंष्ट्वा मालवेशमाह । राज्ञोक्तम्-मया तस्य किमपि कर्तुं न शक्यते । तेनोक्तम्-मया शक्यते। कटकमादायाज्ञातवृत्त्या पक्ष्यां गतः। जैत्रो नष्टः । तेन कीटमारिं कृत्वा जयतापल्याः सगर्भाया बालं भूमावास्फोव्य वलित्वा च तं नृपं प्रति स्ववृत्तमुक्तम् । नृपेणादृष्टव्योऽयमिति तिरस्कृतो जनैर्निन्धमानस्तापसाश्रमे गत्वा शुद्धिकृते तपस्वी जातः । अथ जैत्रः स्थानभ्रंशाच्चोरवृत्त्या जीवन्नेकस्मिन् सार्थे मिलितः। सार्थे 10 स्थिते श्राद्धा देवपूजां विधाय सरसः पालौ ब्रजन्तो वीक्ष्य तैः सार्धं गतः । ते तपोधनान् नमस्कृत्य धर्मोपदेशं
श्रुत्वा क्षमाश्रमणपूर्व तपोधनानादाय गताः। स तथैव स्थितस्तपोधनाः समायाताः। स न उत्तिष्ठति । मयि बुभुक्षिते कथं भोक्ष्यन्ति मुनयः। श्राद्धानाहूय भोजितः । तदनु गुरुभिरुक्तम्-त्वं चौर्यस्यादत्तस्य नियमं गृहाण । तेनोक्तम्-यादरपूरणं भवति तदा नाहं करोमि । तैः श्राद्धपार्थाच्छम्बलं दापितम् । स क्रमेण सार्थाचलितो गुरुभिर्नियम सारितः । उरंगलपत्तने गतः। तत्र ओंढरनायकाट्टे उपविष्टः । तेनागतेन पृष्टम्-क यास्यसि । 15 तेनोक्तम्-यत्रोदरपूर्तिर्भविष्यति । नायकेन स्थापितः । शुद्धवृत्त्या सञ्चरन् विश्वासपात्रं जातः । एकदा चतुष्पदे विसाधनहेतौ प्रहितः । इतो हट्टान् दीयमानान् दृष्ट्वा पृष्टम् । तैरुक्तम्-सूरयः समायाताः । सम्मुखैर्गम्यते । तेन चिन्तितम्-अहमपि यामि । यदि ते मे गुरवो भवन्ति । इति मत्वा सूरीनुपलक्ष्य नमस्कृतवान् । गुरुभिः कुशलं पृष्टम् । स क्रमेण विसाधनमादाय गतः । नायकेन पृष्टम् । तेन वृत्तमुक्तम् । नायकः सुभद्रकत्वात्तत्र तेन सह
गतः । “न कयं दीणुद्धरणं" इत्यादिव्याख्यानान्ते सुबुद्धो धर्ममङ्गीकृतवान् । गुरूनाह-दक्षिणां याचत । 20 तैरुक्तम्-अत्र जिनालयो नास्ति तं कारय । तथाकृते प्रासादप्रतिष्ठा जाता। एकदा पर्वदिने नायको वस्त्राणि निर्मलानि परिधाय जैत्रेण सह प्रासादं गतः। तेन पूजा कृता । जैत्रायोक्तम्-त्वमपि पूजां कुरु । तेन किमपि द्रव्यमासीत्तेन पुष्पाण्यादाय पूजा कृता । पौषधागारे नायकैनोपवासः कृतो जैत्रेणापि । पश्चाद् गृहे गतो धौतवस्त्राणि मुक्तानि । जैत्रो भोजनायोपविष्टः । परिवेष्य यावत् स्थितस्तावत्पारणार्थी मुनिराययौ । कालेनानशनमादाय स्वर्ग्यभूत् । जैत्रोऽप्यनशनमादाय त्रिभुवनपालदेवसुतो जज्ञे । नायकजीवस्तु जयसिंघदेवो जातः । 25 पूर्वभवपातकादनपत्यो जातः । ततो गुरुभिर्नुपाय निवेदितम् । नृपो हृष्टः ॥ इति कुमारपालदेवपूर्वभवप्रबन्धः॥
२९. द्वात्रिंशद्विहारप्रतिष्ठाप्रबन्धः ( BR. ) ६८७) एकदा श्रीपत्तने द्वात्रिंशद्विहाराणां प्रतिष्ठां महदुत्सवेन प्रारब्धां श्रुत्वा वटपद्रपुरनिवासी वसाह कान्हाकः स्वयं कारितप्रासादबिम्बमादाय श्रीपत्तने प्रतिष्ठार्थमाययौ । हेमाचार्याः प्रतिष्ठार्थेऽभ्यर्थिताः । तैर्मानितम् । इतस्तस्मिन् दिने जनसम्मः जातः । रात्रौ घटी मण्डिता । इतो वसाहस्य भोगाद्युपस्कारो विस्मृतः । तेन तमानीतुं 30 गते लग्नघटी असमये वादिता । स आगतः । मध्ये प्रवेशं अलब्ध्वा लग्नघटीं श्रुत्वा विषण्णः । प्रतिष्ठापश्चाजनो विरलो जातः । कान्हाकोऽप्यन्तः प्रविश्य गुरूणां चरणयोर्लगित्वा बाढं रुरोद । मदीयं बिम्ब प्रभो ! स्थितम् । गुरुभिरूद्धमवलोकितम् । लग्नं तदा वहमानं विलोक्योक्तम्-भो ! त्वं पुण्यवान् , लग्नमधुनास्ति, परिच्छेदं कुरु विम्वप्रतिष्ठायाम् । स न मन्यते । गुरुभिः प्रतिष्ठां विधायोक्तम्-यदि न मन्यसे तथा देवं पृच्छ-एतत्तथ्यं न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org