________________
द्वात्रिंशद्विहारप्रतिष्ठाप्रबन्धः ।
४५
वा । बिम्बेनोक्तम्-तथ्यं भो ! तव बिम्बं वर्षशतत्रयायुः । एतानि वर्षत्रयायूंषि भविष्यन्ति । इतः कश्चित् व्यव हारी स्तम्भतीर्थं वाणिज्याय गतः । तत्र तेन श्रीदेवाचार्या नमस्कृताः । पृष्टम् - किमद्य कल्ये नृपः पुण्यकर्म्म तनोति ? । तेनोक्तम्-द्वात्रिंशद्विहाराणां प्रतिष्ठा जाता । तस्य उत्सवस्य किं वर्ण्यते । लग्नं वेत्सि ? । अमुकमनुमानम् । इदं लग्नं हेमाचार्यैर्निरूपितं न वा ? | यदि निरूपितं तदा महत् क्षुण्णं जातम् । स पुनः पत्तनमाययौ । हेमाचार्यैः पृष्टम् - श्रीदेवसूयो नमस्कृताः । स्वरूपमुक्तम् । त्वया कारणं किमपि न पृष्टम् ? । मया ज्ञातं यदुन्नति - 5 मसहमानाः कथयन्ति । इतः श्रीदेवाचार्याः पत्तनमागताः । श्रीहेमाचार्यान्नमस्करणायाऽऽगच्छतो विलोक्योक्तम्-तपोधनाः ! नृपगुरूणामर्थे उपवेशनमानयत । श्रीमाचार्या विस्मिताः । यावद्वन्दन्ते तावदुक्तम्- हे नृपगुरवः! इहास्यताम् । हेमाचार्यैरुक्तम् - प्रभो ! ममोपरि कथमप्रसाद ः १ । प्रभुभिरहं दर्शनविरुद्धे पथि सञ्चरन् दृष्टः श्रुतो वा । कथयत-प्रतिष्ठालग्नं भवद्भिर्निरूपितं न वा ? । निरूपितम् । तत्र क्रूरकर्त्तरीयोगोऽस्ति । एतल्लमं पूर्वकृतानामपि प्रासादानामनर्थहेतुः । भगवन् ! किं क्रियते ? । गुरुभिरुक्तम् - स्तोकदोषं बहुगुणं कार्यं कार्य 10 विचक्षणैरिति विचिन्त्य यदमी प्रासादा मूलतोऽप्यपाकृत्य नूतनास्तदा सर्वेऽपि प्रासादाः स्थिराः स्युः । प्रभो ! एतन्न युज्यते । तर्हि भवितव्यतैव बलवती भवतां कोऽपराधः ॥ इति द्वात्रिंशद्विहारप्रतिष्ठाप्रबन्धः ।।
(G.) सङ्ग्रहे कुमारपालसम्बन्धिवृत्तम् ।
९८८) श्रीकुमारपाल : भावस्थितौ भ्रमन् श्रीसिद्धपुरे गतः । तत्र शकुनान्वेषणे तेन कोऽपि मारवोऽभ्यर्थित:किं मे भविता ? । अत्रार्थे गतौ बहिः । ततो देव्याह्वाने कृते देवी श्रीमुनिसुव्रतचैत्ये आमलसार के स्वरद्वयं कृत्वा, 15 ततः कलशे त्रयं, ततोऽपि दण्डे स्वरचतुष्टयं च विधाय स्थिता । ततः स शाकुनिकः प्राह - तव जिनभक्तस्य सतो राज्यप्रायादि अधिकाधिकं पदं भवितेति ॥
९८९) अन्यदा श्रीकुमारपालस्य कस्यापि कौटुम्बिकस्य गृहे हालिकत्वेन वर्त्तमानस्य सकणशकणांचाभारमुद्वहतः शिरस उपरि दुर्गयोपविश्य स्वरोऽकारि । ततः शाकुनिकः पृष्टः । तेनोक्तम् - तव राज्यं भविष्यति । परं तत्र सन्ततिर्न भविता । यतो युगन्धरीधान्यं सर्वधान्योत्कृष्टम् तेन राज्यम् । यतः प्रभोर्हेतोर्भारकः, तेन न 20 सन्ततिस्तव ॥
९९०) तपोधनवृत्त्या वर्तमानस्य श्रीकुमारपालस्य राज्यावसरे श्रीप [तनो ] परि गच्छतः पथि [दुर्गा ] पूर्व बब्बूलवृक्षे निविश्य स्वरचक्रे तदनु राफमध्यान्निःसृतफणिः फणोपरि.. . सार्थे वहमानः मारुयकः पृष्टः । तेनोक्तम् - दिनत्रयेण तव राज्यं भविष्यति । परं प्रहरत्रयेण विघ्नं विद्यते । तदनु सार्थे तृतीये यामे मेघवृष्टौ ... .. मध्यान्निःसृते कुमारपाले द्वादशजनोपरि विद्युत्पातः समजनि । ततस्तृतीये दिने राज्यं जातम् ॥
25
९९१) अन्यदा श्रीजयसिंहदेवो दिवं गतः । तदनु अष्टादशदिनानि यावत्पादुकया राज्यं कृतम् । ततः श्रीहेमसूरिकथितदिनोपरि कुमारपालः समागच्छन् निशि कडीग्रामपाद्रप्रासादे सुप्तः । तत्रारक्षकः परिभ्रमन् आगतः । चरच्छलेन कुट्टयित्वा प्रावरणकम्बलादि गृहीत्वा स मुक्तः । प्रातः समुत्थाय पत्तने नड्डुलाकान्हडदेवस्य निजभावुकस्य गृहं गतः । ततो भगिन्या दुकूलानि दवा राजभवनं प्रेषितः । तत्राग्रे त्रयो राजप्रतिपन्नपुत्रा राज्यं दत्त्वोत्थापिताः । कुलक्षणैरेभिः । तत् एकेनोक्तम् - अहं सर्वं मारयिष्यामि । द्वितीयेनोक्तम् - यत् यूर्य भणिष्यथ 30 तदहं करिष्यामि । तृतीयो दुकूलाञ्चलै रुलमानैरुपविष्टः । अत्रान्तरे कुमारपालः समागतः । कान्हडेनोक्तम् - भव्यं कृतं यदधुना समागतः । राज्ये भवानेव । इत्थं वारितेनापि कृष्णदेवेन राज्यं दत्तम् । ततचतुर्द्दशराज्यस्थानमहाधर, ४ राउल, ७२ मंडलीक, ८४ राणा, ३६० सामन्तपरिवारः प्राकारबहिर्निर्गत्य स्थितः । ततो नित्यं कथापयन्ति कृष्णदेवस्य ते प्रधानाः - त्वया किं कृतं यदस्मै राज्यं दत्तम् । तेन कथितमहं न मारयिष्यामि,
Jain Education International
For Private Personal Use Only
www.jainelibrary.org