________________
४६
पुरातनप्रबन्धसङ्ग्रहे
यूयं मारयथ । मया राजा समग्रपरिवारो राजपाटिकोपायेन बाह्ये निःकासितोऽस्ति । ततो राजा दृष्टिकलया विनष्टं वीक्ष्य पश्चाद्वलितः । प्राकारासन्नं कान्हडदेवं विसूत्रयित्वा ततो निशि सप्तशतमितगढसंखराजपुत्रहस्ते दीपिका अर्पयित्वा राजगोधईयाकं सुप्तं विधृत्य एकरात्रिमध्ये समग्रमपि राजचक्रं वशीकृत्य राज्ये निविष्टः ॥
९९२) श्रीकुमारपालेन राज्ये प्राप्ते तत्क्षणं कडीतलारक्षस्याकारणे सुखासनेन समं लेखः प्रहितः । स च विस्म5 यापन्नमनाः समागतो राज्ञा सन्मानितः । ततो विशेषविस्मयोऽजनि । अत्रान्तरे युगपत् स्नानद्रोणी. .. तेन पृष्टिर्दर्शिता .. .. सकशाप्रहारां वीक्ष्य विषण्णेन चिन्तितं यदसौ मां मारयिष्यति विषं दत्त्वा । ततो भोजनावसरे राज्ञा बहुमानेन निजरसवतीं भोजयित्वा राणकपदं दत्तम् । इत्थं विपि (प ) ण्णः क्षीणतेजा जातः । राजा तु पुनः पुनः चरान् परिपृच्छति । स चाद्यापि जीवति । स इत्थं चतुःपथानतिक्रम्य प्रतोलीद्वारे गतो मृतः । राज्ञोक्तम् - [आ ! बाढं ] ढाढसिकः । सर्वैः पृष्टं - राजन् ! किमेतद्वयं न विद्मः । अतो राज्ञापि सर्वो वृत्तान्तो 10 निगदितः । अतो मया मारणार्थमस्य प्रौढिदत्ता । यथा मम महत्त्वं स्यात् ॥
९९३) एकदा कुमारपालदेवः सप्तदिनानि यावत् बुभुक्षितः कस्यापि गोधूमक्षेत्रे कलिङ्गानि गृहीत्वा अरघट्टघटिकया वाफयित्वा रात्रौ यावद्भक्षितुं लग्नः, तावद् हालिको दण्डमुद्यम्य धावितः । परं क्षेत्रपतिना रक्षितः । राज्ये प्राप्ते कालिङ्गीयको नाम्ना ग्रामो दत्त आघाटे तस्मै ॥
९९४) अन्यदा श्रीकुमारपालो दिनत्रयं क्षुधितः परिभ्रमन् कस्यापि व्यवहारिणो गृहे प्रविश्य निविष्टः । 15 गृहाधिपतेर्लेखकं विदधतो मध्यरात्रिरजनि । ततस्तेन चिन्तितं - यद्यसौ न भुक्तोऽस्ति, तदा भोजयिष्यामि । ततः पृष्टे स वल्लभकलत्रगृहे प्रेषितः । तया तस्मै भोजनं न दत्तम् । द्वितीयया हर्षितया दत्तम् । प्राप्ते राज्ये राज्ञः स्थालं गृहीत्वा चौरस्तस्य श्रेष्ठनो हट्टे व्ययितम् । ततो राज्ञा आकारितो व्यवहारी । उपलक्षितः । राज्ञोक्तम्-तव कलत्रद्वयमास्ते । तेनोक्तम् - एवमेव । राज्ञोक्तम् - आकारय तत् द्वितयम् । यथा तव सकुटुम्बस्य निग्रहं करोमि । कुटुम्बे समेते पूर्वोपकारीति भणित्वा राज्ञा तस्य प्रसादो दत्तः ॥
20
९९५) पुरा श्रीकुमारपालेन क्षयाहे पिण्डदानसमये उध्रियमाणे द्वारभट्टेन मयणसाहारेण पितामहपिण्डे प्रोक्तमिति - राजन्! राजपितामहं मल्लिकार्जुनं पितॄणां मेलय तदनु पिण्डं उद्धर । इति श्रुत्वा राज्ञा पिण्डः पश्चान्मुक्तः । राज्ञा बीटके दीयमाने सकलेऽपि राजमण्डलेऽधो विलोकयति बाहडवारितेनापि आम्बडेन बीटकं जगृहे । राज्ञा कटकं राजगिरिं च समर्प्य प्रेषितः । संप्रहारे सकलमपि बलं भग्नम् । तत आम्बडः कृष्णगुरूदरोदरान्तः कृष्णवासाः कस्तूरिकानुलेपनः पत्रपुटभोजी कस्यापि निशि दिने निजवदनं न दर्शयति । राज्ञा तद्विज्ञाय स्वयमागत्य 25 सन्मानं दवेति प्रोक्तम् - मम मल्लिकार्जुनविग्रहे त्वमेव सेनापतिः । पुनर्द्वितीये वर्षेऽश्वसहस्र ४४, पत्तिलक्ष ३ मितं कटकं दत्तम् । तेन मल्लिकार्जुनं विमुच्य नान्यस्य मे प्रहार इति प्रतिज्ञातम् । सत्वरं गत्वावेष्टितः । युद्धे जायमाने निजौ चरणौ परदन्तिदन्ते दत्त्वा तत्राधिरुह्य कौङ्कणस्वामी व्यापादितः । कौङ्कणं गृहीतम् । मूटक १८ मौक्तिक । संयोगसिद्धि सिप्रा । सहस्रकिरण ताडंक २ । अग्निपखालु पछेवडउ । शृङ्गारकोडी साडी । सेडउ पट्टहस्ती । अष्टोत्तरसहस्रमौक्तिकहारः त्रिसरकः । चतुश्चत्वारिंशदङ्गुलप्रमाणं मरकतलिङ्गं नीलकण्ठस्य । एतदानीय 30 राज्ञः पादौ शिरसा सह पूजितौ । अत्रान्तरे द्वारभट्टेनोक्तम्
"कीडी रक्ख करंतु चडिउ रणि मइगल मारइ० ॥"
९९६) श्रीआम्बडोपि रणांगणपतितो जगादिति - देवबुद्ध्या जिनेन्द्र एवास्ति । गुरुः श्रीहेमसूरिरेव । स्वामी श्रीकुमारपाल एव । ततः केनापि कविना इति जगाद - "वरं भद्वैर्भाव्यं० ॥"
(९७) अन्यदा श्रीकुमारपालेन पृथिवीमनृणां कर्तुं गुरवः सुवर्णसिद्धिं पृष्टाः । गुरुभिरुक्तम् - मम गरवो 35 जानते, नाहमिति प्रबन्धो ज्ञेयः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org