________________
अजयपालप्रबन्धः। ६९८) एकदा श्रीकुमारपालेनात्मनः श्रीजयसिंहस्यान्तरं पृष्टम् । सभ्यैरुक्तम्-श्रीसिद्धराजस्याष्टौनवति गुणाः, दोषद्वयं देहे । भवति अष्टनवति दोषाः, गुणद्वयम् । भवान् विक्रमी, कृतज्ञश्च । श्रीसिद्धराजस्तु मत्सरी, दीर्घरोपी च ॥
६९९) श्रीसङ्घयात्रायां जायमानायां रैवतगिरौ छत्रशिलाकम्पे जायमाने राज्ञा पृष्टैर्गुरुभिरूचे-द्वात्रिंशल्लक्षणोपेतं पुरुषद्वयं यदि शिलाधो यास्यति तदा शिला पतिष्यति । अतो नव्यपद्यया देवनमस्करणं विधास्यामः। 5 इत्युक्ते आम्बाकेन नव्या पद्या कारिता ॥
६१००) अथ महापूजायां महाभोगे विधीयमाने धूपधूमान्तरिते गर्भगृहान्तरे प्रभुभिः श्रीसोमेश्वरः प्रत्यक्षीकृतः । देवादेशेन ततः प्रभृति मजाजैनः कुमारपालोऽभूत् ॥
६१०१) अथ श्रीदेवेन्द्रसूरिभिः श्रीसेरीसके तीर्थे निम्मिते कान्तीत आकृष्टिविद्यया महाबिम्बानि समानीतानि । मनसीति चिन्ता जाता-श्रीपत्तनं सेरीसकं च एकमेव विधास्यामि । अत्रान्तरे गाजणपतिनृपतेरुपरि 10 कटकं विधाय श्रीकुमारपालदेवः श्रीप्रभुभिः सह तत्रागतः। श्रीदेवपादानमस्कृत्य श्रीदेवचन्द्रसूरयो नमस्कृताः। श्रीसूरयः कथितवन्तः-राजन्! वर्षासु कथं कटकबन्धः । राज्ञोक्तम्-साम्प्रतं छलं विना गाजणपतिर्न विनश्यति । सूरिभिरुक्तम्-कथं भवद्गुरूणां एतावत्यपि शक्तिर्नास्ति । राजा मौनेन स्थितः। ततस्तैरुक्तम्-अत्राद्य कटकं स्थापय । अहं गाजणपतिमानेष्यामि। निशि सूरिभिराकृष्टिविद्यया देवतावसरं कुर्वद्भिर्गाजणपतिरानीतः। परस्परं मैत्री जाता । अक्षरैः पाङ्गुलां (१) पत्राणि जातानि ॥
६१०२) श्रीहेमाचार्यैरवसानसमये सगद्दं राजानं समीक्ष्योक्तम्-मम तव च षण्मासान्तरमेवास्ति । ततः प्रभोरवसानानन्तरं रामचन्द्रेण श्रीसङ्घस्य पुरः पठितमिति-"महि वीढह सचराचरह० ॥"
६१०३) अथ षण्मासान्तरे श्रीकुमारपालेन भूमौ मुक्तेन श्रीवीतरागविम्बदर्शने उक्तमिति-"सावयघरंमि० ॥” अत्रान्तरे मल्लिकार्जुनभांडागारनीतसंयोगसिद्धिसिमा जलपानार्थ याचिता। अजयपालदेवोक्तैवारक्षकैर्नार्पिता । तदा चारणेनोक्तम्-"कुयरड कुमरविहार०॥"
15
20
३०. अजयपालप्रबन्धः (P.) ६१०४) अथाजयपालेन प्रासादेषु पात्यमानेषु, यमकरणं तारणदुर्गोपरि सन्नद्धं प्रातः प्रयास्यतीति श्रुत्वा वसाह-आभडमुख्यः समग्रोऽपि सङ्घः पर्यालोचितवान्-विलोकयत श्रीकुमारपालदेवेन प्रासादाः कारिताः, अनेन दुरात्मना पातिताः । कोऽपि इदं न वेत्स्यति यन्नृपः श्रावकोऽभून्न वा । तारणदुर्गप्रासादो रक्षितुं शक्यते तदा भव्यम् । सीलणाग कुतिगिया विनाऽन्योपायो नास्ति । तस्य गृहे चलत । ते तत्र गताः । सङ्घस्तेनाभ्युत्थितः । 25 करौ संयोज्य उक्तम्-मयि विषये महान् प्रसादः। किं कार्यम् ? । भोस्त्वं वेत्सि पूर्वनृपेण प्रासादाः कारिता अनेन पातिताः। एकस्तारणदुर्गस्यावशेषोऽस्ति, सोऽपि प्रातः पतिष्यति । यदि त्वया रक्ष्यते । अन्यः कोऽप्युपायो नास्ति । तेनोक्तम्-एप भवतां प्रमादः। पूर्व ज्ञापितोऽभूवं तदैकोऽपि नापतिष्यत् । यजातं तज्जातम् । त्वयाऽमुं रक्षता सर्वेपि रक्षिताः। सङ्घः सत्कृत्य विसृष्टः। स नृपसमीपं गतः। देव ! मुत्कलाप्य यामि । भोः क यासि । देव वयमुत्पन्नभक्षकाः । सर्व भक्षितम् । क्वापि रायने गत्वा त्वन्नाम्ना द्रविणमादाय पुनरेष्यामः । नृपेणोक्तम्-यदि 30 पत्तनं विहाय यूयमन्यत्र यात तदाऽहं लज्जे । अवसरं दास्यामि । देव ! अवसरो भवति वा यामि ? तर्हि सजतां कृत्वा सन्ध्योपर्येहि । नृपेण सर्वः कोऽप्याहूतः । प्रारब्धं प्रेक्षणम् । इतः सीलणेन इष्टिकाः समानीय पातिताः मृत्तिकारासभानि रङ्गान्तः समाजग्मुः । पानीयं च । कटिकस्त्वाकारितः। प्रासादं कुरु । तेन कृतः । मध्ये
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org