________________
४८
पुरातनप्रबन्धसङ्ग्रहे एकस्य देवस्य स्थानं कुरु । तेन कृतम् । ध्वजाऽऽरोपं कृत्वोक्तम्-देव! गजान्ता लक्ष्मी, ध्वजान्तो धर्मः। अथाहममुं निर्माय कृतकृत्यो जातः। शयनं विधाये इति शुकटी (मुखे पटीं?) कृत्वा सुप्तः। इतः पुत्रेणागत्य देवकुलिका पातिता । सीलणः पटीं त्यक्त्वोत्थितः सन् प्राह-रे! केनेदं पातितम् । भवतो ज्येष्ठपुत्रेण । सीलणेन स चपेटया हतः । रे! त्वमस्यापि सदृशो न; एतस्यापि नृपतेहीनः । अनेन नृपति[ना पित]रि मृते तस्य कीर्तनानि पातितानि, 5 त्वया तु मम जीवतोऽपि पातितम् । मम मृत्युरपि न प्रेक्षितः । इति श्रुत्वा नृपस्य नेत्रयोर्नीरं पपात । सीलण ! किं कथयसि ? । देव ! विमृश तथ्यमिदमतथ्यं वा । गृहस्थः कीर्तनं कारयति यावन्मम कोऽपि भविष्यति तावदस्य सारा भविष्यति । ये पतितास्ते पतिताः, शेषाः सन्तु । एक एवावशेषोऽस्ति यः स तव नाम्ना । यमकरणं व्यावर्त्यताम् । इत्थं कृते प्रासादाश्चत्वार उद्गरिताः ॥ इति तारणगढप्रासादरक्षणप्रबन्धः॥
६१०५) अथ राज्यात्तृतीये वर्षे पर्युषणापर्वणि थारापद्रीये प्रासादे श्रावका मिलिताः । आभडवसाहेनोक्तम्10 समयं विलोकयत ! । यत्र तपोधनानां सहस्रा आसन् तत्राद्य स कोऽपि न दृश्यते यस्य मुखात्प्रत्याख्यानमपि क्रियते । क्वापि केन............ [पत्त]नमध्ये श्रुतो वा दृष्टो वा । एकेन कर्णे प्रविश्योक्तम्-यद्राजपुत्रवाटके धरणिगः श्रेष्ठ्यस्ति । तेन जङ्घाबलपरिक्षीणाः स्वगुरवः स्थापिताः सन्ति च्छन्नम् । तदनु वसाहस्तस्य गृहे गतः । तेनाभ्युत्थितः, पादमवधार्यताम् । अद्य सांवत्सरिकपर्वणि तपोधन......व तपोधनाः सन्ति ? । तेन भूमिगृहे
नीत्वा गुरवो दर्शिताः । वसाहस्तु चरणयोर्निपत्य रोदितुं प्रवृत्तः-भगवन् ! स कोऽपि नास्ति यो......दुरात्मानं 15 नृपं शिक्षयति । गुरुभिरुक्तम्-शक्तिरस्ति परं सान्निध्यकर्ता कोऽपि विलोक्यते । वसाहस्तु तस्यैव श्रेष्ठिन: शिक्षा
दत्त्वा ययौ । गुरवो जनुं प्रवृत्ताः । इतस्तृतीयदिने.........र्जाता। यतो मदीयौ धांगा-वइजलियाख्यौ पदाती स्तः । तयोर्माता सुहागदेवी । सा स्वैरिण्यस्ति । सा नृपेणानीयान्धकारे स्थापिताऽस्ति ।............... वइजलिकः पीत्वा समायातः। नृपेण हास्ये प्रारब्धे उक्तम्-रे ! याचस्व खैरम् । तेनोक्तम्-देव ! अधुनाऽवसर
योग्यं दीयताम् । नृपेणोक्तम्-उपवरिकायां व्रज । परं वदनं नावलोकनीयम् । स तत्र गतः । इतः पृष्ठे दीपकरः 20 समाययौ । तेनाम्बा दृष्टा, सवित्र्या पुत्रो दृष्टः । परस्परं लज्जितौ । वइजलेन धांगाऽग्रे उक्तम्-नृपेणैवंविधं हास्यमकारि । तदहं मरिष्ये । तेन साक्षेपमुक्तम्-मारयिष्ये न वदसि, मरिष्ये वदसि । अमुं मारयिष्यावः । इति निश्चित्य स्थितौ । नृपस्तु राजपाट्यां निर्ययौ । वलमानः सन्ध्यायां सुखासनासीनोऽन्धकारे प्रतोल्यां प्रविशन् , वइजलेन कपाटपार्शन्निर्गत्य धांगाकेन सह स्थितेनोभाभ्यां नृपो हतः। कलकले जाते वइजलो नष्टः, धांगाको
हतः । राजा तु तत्रैव पपात । जनो दिशो दिशं गतः। इतो लब्धसंज्ञस्तृषितो राजा रिंखन् प्रतोलीप्रत्यासने 25 तन्तुवायगृहे प्रविष्टः । गर्तायां मुखे वाहिते, तन्तुवायेन लकुटः क्षिप्तः, खानं मत्वा । तेन दीर्णशिरा पपाठ
(१२६) धांगा दोसु न वहजला न वि सामंतह भेउ ।
जं मुणिवर संताविया तह कम्मह फलु एहु॥ इति वदन् पीडया मृत्वा श्वभ्रं ययौ ॥ इत्यजयपालप्रबन्धः॥
(G.) सङ्ग्रहगतं अजयपालवृत्तम् । 30 ६१०६) श्रीअजयपालेन श्रीकपर्दिमन्त्री अमात्यताहेतोरुपरुद्धः। मत्रिणोक्तम्-मनसा समालोच्य देवादेश विधास्यामि । इति भणित्वा गृहं प्रति गच्छत ईशानदिशि वृषभखरपञ्चकं वामभागेऽजनि । तन्मारुयकस्य मत्रिणा कथितम् । तेनोक्तम्-न भव्यम् । यदयं वृषः शिववाहनम् । अतः परं शिवशासनं विजयि भविता । ततश्च न गृहीतं अमात्यत्वम् । राज्ञा धृतः । तत्रस्थरामचन्द्रेणोक्तम्-"जो करिवराण कुम्भे०॥"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org