________________
मश्रियशोवीरप्रबन्धः।
४९ ६१०७) श्रीहेमसूरिशिष्यौ रामचन्द्र-बालचन्द्रौ । गुरुमिः सुशिष्यं भणित्वा रामचन्द्रस्य विशेषविद्याः दत्ताः। मानं च दत्तम् । तत्कोपेन बालचन्द्रो निःसृतः। तस्याजयपालेन सह मित्रत्वं जातम् । राज्ये प्राप्तेऽजयपालेन रामचन्द्रस्योक्तम्-श्रीहेमचन्द्रसूरीणां सकला विद्या मम मित्राय बालचन्द्राय देहि । तेनोक्तम्-गुरूणां विद्याः कुपात्राय न दीयन्ते । राज्ञोक्तम्-तर्हि अग्नि........................तत्र जिह्वां खण्डयित्वा उपविशता तेन दोध क पञ्च श ती कृता ॥
___३१. धर्मस्थैर्ये सजनदण्डपतिप्रबन्धः (B.) १०८) अथ दण्डपतिसजनप्रबन्धः-श्रीपत्तने ग्रथिलभीमदेवो राज्यं करोति स । तेन सहस्रकला वेश्याऽन्तःपुरे क्षिप्ता । सा राज्यचिन्तां सकलां करोति । दण्डपतिः सज्जनः श्रीमालज्ञातीयो मजाजैनो राज्याधिकारं करोति स। स देवपूजां विना न भुङ्क्ते, प्रतिक्रमणं विना न शेते । अथैकदा पत्तनोपरि तुरुष्काणां सैन्यमाययौ । दण्डनायकसजनेन बनासनदीतीरे गाडरो नामाऽरघट्टस्तत्र रणक्षेत्रं सजीकृतम् । देवी सहस्रकला स्वयं सज्जनदण्ड-10 [नाय-]केन सह सैन्यमादाय सम्मुखमागता । अश्वसहस्र २४ मनुष्यसहस्र ३२ सार्धम् । तत्र प्रातयुद्धमिति निश्चिकाय । रात्रौ शस्त्रजागरणं कृतम् । वीराणां सन्नाहाः समर्पिताः । गजा १८ गुडिताः । अश्वाः सर्वेऽपि सन्जिताः। प्रक्षरां ग्राहिताः । इतो देव्या सजनो दण्डपतिः सैनान्येऽभिषिक्तः । स सन्नाहमादाय यामिन्याः पाश्चात्यप्रहरे गजमधिरूढः । चतुर्दिक्षु सन्नद्धैवीरैर्वृतः। इतो मत्रिणा गजस्कन्धे स्थापनाचार्य निवेश्य प्रतिक्रमणं कृतम् । पार्श्वस्वैश्चिन्तितम्-असात्कि युद्धं भविष्यति । तेन सामायिक पारितम् । रणरसोत्सुका वीरा उभयोः पक्षयोर्मिलिताः। 15 महान् रणः समजनि । सजनदण्डेशेन स्वयमुत्थापनिका कृता । शरीरे घातदशकं लग्नम् । परं म्लेच्छसैन्यं निर्धाटितम् । रणः शोधितः । इतो देवी स्वयमेत्य दुकूलाञ्चलेन सज्जनगात्रं प्रमाj गुप्तोदरे निनाय । इतः पार्थस्यैरुक्तम्-देवि! दण्डनायकस्य काऽप्यपूर्वा वार्ता । पाश्चात्ययामिन्यां 'एकेन्द्रिया [द्वीन्द्रिया]' इत्युक्तम् । प्रातयुद्धं तथा कृतं यथा केनापि न क्रियते । देव्या पृष्टम्-दण्डेश! किमेतत् ? । देवि! रात्रौ खकार्यं कृतम् , प्रातस्तव । यत् पिण्डस्त्वदीयस्तेन यत्कृतं तत्तव कार्यम् । मम साय...... तन्मम । एवं च तुरुष्कान्विजित्य देवी पत्तनं 20 प्राप्ता । मत्री सजाङ्गो जातः ॥ इति धर्मस्थैर्ये सज्जनदण्डपतिप्रबन्धः ॥
३२. मत्रियशोवीरप्रवन्धः (P.) ६१०९) श्रीजावालिपुरे श्रीसमरसिंहनृपाङ्गजः श्रीउदयसिंहस्तस्य मत्री दुसाजस्तत्पुत्रो यशोवीरस्तस्य भार्या सुहागदेवी, सुतः कर्मसिंहः । एकदा सण्डेरगच्छोद्भवैः श्रीईश्वरसूरिभिरुक्तम्-हे मत्रिन् ! तव पुरे धारागिरिवाटिकास्ति । तत्र अद्यदिनात् षोडशमे दिने तव वाटिकामध्ये स्थितस्य द्विप्रहरवेलायां यो द्विजः समभ्येति, 25 त्वया तसिन् दृष्टमात्रे 'पादमवधार्यताम् , अधुना प्राप्तकालं शीतोदनं क्रियताम् । तत्र कूरकरम्बो दना कृतः, शाके लिम्बुकं च भोजनीयम् । तदनु द्रम्मसहस्र (३०००) वासणे प्रक्षिप्य एका त्रिपट्टदुकूला मड्डिया । भव्यरीत्या चिन्तनीयम् । मत्री तां सामग्री कृत्वा वाटिकायां गतस्तत्र क्रीडितुं प्रवृत्तः । इतो नागडनामा भट्टपुत्रस्त्रिदिनलङ्घनावसाने-अद्य यशोवीरं बन्दी करिष्ये वा मे चिन्तितं भोजनं प्रयच्छति-इति विचिन्त्य मत्रिणं वाटिकायां मत्वा विवेश । मत्रिणा दृष्टमात्र एव उक्तः-सत्वरमेत्य भुज्यताम् । भोजने दर्शिते सुस्थीभूतः । मुखं प्रक्षाल्य 30 भोक्तुमुपविष्टः। अनन्तरं मत्रिणा वस्त्राणि द्रम्माश्च दर्शिताः। तेनोक्तम्-मत्रिन्! ममाभिप्रायः त्वया कथं ज्ञातः। अद्य मे मनसि इत्यासीत्-यदेवं ददाति वा मारयामि । मत्रिणोक्तम्-किमत्र ज्ञानम् १ । नागडेनोक्तम्-मत्रिन् ! मया तवोपकारः कथं कर्तुं शक्यः । परं तथापि मे देवः किमपि ददाति, त्वयाऽऽत्मानं ज्ञाप्यम् । एवमाख्याय
पु०प्र० स०7
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org