________________
पुरातनप्रबन्धसङ्ग्रहे गतः।क्रमेण नागडस्य श्रीपत्तने श्रीकरणं जातं राज्ञः श्रीवीसलदेवस्य । पश्चात् राउल-उदयसिंहराजादेशे समायाते मूं(वी?)सलदेवस्य ककिंडिकमर्पय । नागडात्रा(झ)गडं च कथयति । राज्ञा रुष्टेन ससैन्यो मत्री नागडः प्रहितः। सुन्दरसरोपकण्ठे कटकं स्थितम् । विग्रहः प्रारब्धः। टङ्कशाला पतितुमारब्धा । षण्मासान्ते दण्डेन भव्यं विधाय म......स्थाने गतः । उदयसिंहस्तु तथैव जल्पति । नागडो नृपाग्रे प्रतिज्ञामाधाय जावालिपुरग्रहणे प्रौढकटकेन 5 निःसृतः । क्रमेण स्वर्णगिरि[दुर्ग]पृष्टौ वाघरा......कटकमावासितम् । राउलेनोपरि स्थितेन सर्व दृष्ट्याऽवलोक्य, यशोवीरं प्रत्युक्तम्-मत्रिन् ! सर्वस्वमपि दत्त्वा नागडं पश्चा......वर्त्तय । जीवतां सर्व भविष्यति । मत्री मध्याहवेलायां भव्यार्थे चलितः । इतः प्रतोल्यग्रे खेजडीतरोस्तले गोगामठे एकश्चारणश्चटितोऽस्ति तेन......मत्रिणं प्रति......
(१२७) [दूसा]...जन (?) वीर जउ आव्यां दल वाघराइं । मोटी हूंती हीर देसह वासेवा तणी ॥ 10 मत्रिणा चिन्तितम्-वलमानोऽस्य कर्णावपाकरिष्ये......गतः। राणकः प्रतीहारेण विज्ञप्तः-देव! मारुकस्य प्रधानः समागतोऽस्ति । मध्ये निवेशयत । ततः प्रणम्य मत्री आसीनः। राणकेनोक्तम्-भो मत्रिन् ! तव ठक्कुरः एतावन्ति दिनानि विरूपवक्ता आसीत् । अधुना मय्यागते किं करोति ? । देव ! प्राघूर्णकार्थे सजीभूय स्थितोऽस्ति । सत्वरमागच्छत । मत्रिन् ! अहं नागडः । यदि दुर्गं पृथग् पृथग् भक्त्वा न क्षमामि । मत्रिणोक्तम्-सत्वरमागन्तव्यम् । इत्युक्त्वा मत्री निःसृत्य गतः। राणकेनोक्तम्-रे! क एष मत्री ? । देव! यशोवीरः। तर्हि सत्वर15 माकारयत । मत्री आकारितः। राणकेनोक्तम्-मत्रिन्! मामुपलक्षयसि। देव ! त्वां को न वेत्ति । राणक
स्त्वाह-यस्त्वया अमुकवर्षे वाटिकान्तः कूरकरम्बं भोजितस्तमुपलक्षयसि । देव! [कथं] नोपलक्षे। मत्रिन् ! स अहम् । तस्योपगा(का)रस्यैकवेलं भव्यं त्वया लभ्यम् । लोहटिकं विना यामि । इदं तव मानम् , परं स्वस्खामी विरूपाणि वदन्निवार्यः। मत्री परिधापितः। मत्रिणोक्तम्-यद्येवं तर्हि अधुनैव प्रयाणं कुरु । यथा मे स्वामी प्रत्येति । तदैव प्रयाणं कृत्वा कटकं पश्चाद्गतम् । मत्री ईर्ष्या विहरन् चारणे, यावत्तत्रैवायातः, तावत्तेनैव तत्रस्थेनोक्तम्(१२८) जिम केतू हरि आजु तिम जइ लंकां हुत दुसाजुत्र । नांऊं बूडत राजु राणाही[व] रावण तणउं॥
मत्री परिधापनिकां तसे दत्त्वा पुरे प्रविष्टः। राउलेन सम्भूषितः । (१२९) ओं आगिलउ जु होइ सो जसवीर न जाणीउ । ए बूझइ सहु कोइ एकावन बूझही नहीं ॥ ... ६११०) मत्रिणा यशोवीरेण तलहट्टिकायां स्वर्णगिरेश्चन्दनवसह्यां श्रीवीरबिम्ब कारितं प्रतिष्ठापितं च । तदनु 25 श्रीजयमङ्गलसूरिभिरुक्तम्(१३०) यत्त्वयोपार्जितं वित्तं यशोवीर! प्रतिष्ठया। तल्लक्षगुणितां नीतं यशो वीरप्रतिष्ठया ॥
तदनु आलङ्कारिकैः श्रीमाणिक्यसूरिभिः(१३१) यशोवीर ! लिखत्याख्यां यावचन्द्रे विधिस्तव । न माति भुवने तावदाद्यमप्यक्षरद्वयम् ॥
१११) अथ एकदा गूर्जरत्रां भक्त्वा तुरुष्का व्यावृत्ताः सुन्दरिसरिजलं पीत्वा सिराणाग्रामे आवासिताः। 30 तत्र राउलेन तैः सह सङ्ग्रामं विधाय भग्नाः । अइबुको नाम मुख्यो मल्लिको मारितः । तदनु चारणेनोक्तम्
(१३२) सुन्दरसरि असुरांह [दलि] जलु पीधउं वयणेहिं ।
उदयनरिदिहिं कहिउँ तह नारीनयणेहि ॥ __ तदनु परिभवमसहमानः श्रीजलालदीनसुरत्राणः सं० १३१० वर्षे माघमासस्य पञ्चम्यां स्वयमागत्य पर्वतस्य वर्णगिरेः शृङ्गे आवासान् दत्त्वा स्थितः । प्रत्यहं ढोये (?) जायमाने सुरङ्गाखानकैः खण्डिः पातयितुमारब्धा ।
Dn
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org