________________
विमलवसतिकाप्रबन्धः ।
५१
पतिता कर्करकोष्ठके । स्थानान्तरस्यैः पत्तिभिर्धान्यं रन्धमानैः स्थाल्युच्छलात् परिज्ञाता । प्रभोरग्रे निवेदितम् । राउलेन चापडो राजपुत्रो भव्यं कर्त्तुं नियुक्तः । तेन सुरत्राणं नत्वा उक्तम् - देव ! दण्डं कुरु । सुरत्राणेन लक्ष ३६ द्रम्माणां याचिता । बापडेनोक्तम्-वयं द्रम्मान् न जानीमः । पाहू (रू)थकान् दास्यामः । पार्श्वस्यैरुक्तम् - देव मान्यताम् । एकस्मिन् पारूथकेऽष्टौ द्रम्मा भवन्ति । सुरत्राणेन मानितम् । तेनोक्तम् - देव ! प्रसीदख, करं देहि । करो दत्तः । इतश्च वर्द्धापनिकेनोक्तम् - देव ! सुरङ्गा पातिता बापडेनोक्तम् - देव! त्वं महाराजस्तव जिह्वा 5 अन्यथा न स्यात् करश्च [दत्तः ] | सुरत्राणेनोक्तम्-तव बुद्धिश्रेष्ठाय मास्मै (?) भैषीत् । दण्डमानय । तदनु राउलेनोक्तम्-सुताः पञ्च मे । कं गृहाण ! | सुरत्राणेनोक्तम् - यशोवीरसुतमर्पय । राउलेन मत्रिपत्नी अभ्यर्थिता । तया स्वसुतस्त्वेकोऽपि समर्पितः । कटकमुत्थितम् । तदनु देवद्विजादीनां सर्वस्वमात्तम् । दण्डादुद्ध रितवित्तेन तेन श्रीस्वर्णगिरौ दुर्गः कारितः । राउलेन यशोवीरपुत्रस्य कर्मसिंहस्य गृहागतस्य रामशयनं प्रसादे दत्तम् ॥ इति राउलउदयसीह- मत्रियशोवीरप्रबन्धः ॥
10
(G.) सङ्ग्रहे यशोवीरस्योल्लेखो यथा
(१३३) ओ आगिलउ जु होइ पई जसवीर न सिक्खियउ । महि मंडल सहु कोइ बावन्नइ बूझइ बहू ॥ चारणदानमदातुर्मत्रिणः पुरवारणेन पठितम् । तस्मै घोटको दत्तः । (१३४) संतः समंतादपि तावकीनं यशो यशोवीर ! तव स्तुवंति । जाने जगत्सज्जनलज्जमानः प्रविश्य कोणे त्वमतः स्थितोऽसि ॥ इति पठिताय भट्टा मत्रियशोवीरेण कोणाग्रामस्योद्राहितं दत्तम् ॥
३३. विमलवसतिका प्रबन्धः (B. )
(११२) अथ विमलवसतिकाप्रबन्धः
(१३५) श्रीविक्रमादित्यनृपाद्व्यतीतेऽष्टाशीतियाते शरदां सहस्त्रे । श्री आदिदेवं शिखरेऽर्बुदस्य निवेशितं श्रीविमलेन वन्दे ॥ (१३६) भीमदेवस्य नृपस्य सेवाममन्यमानः स तु ब (ध) न्धुराजः । धाराधिपं भोजनृपं प्रपेदे स्ववंश्यसेवा हि नृणां विपत्सु ॥ (१३७) विघ्नाधिव्याधिसंहर्त्री मातेव प्रणताङ्गिषु । श्रीपुञ्जराजतनया श्रीमाता साऽस्तु वः श्रिये ॥
(१३८) मेरुणा मनुजदुर्लभेन किं किं हिमैकनिधिना हिमाद्रिणा । साहिना मलयपर्वतेन किं नन्दिवर्द्धनसमो न भूधरः ॥
(१३९) भूभृतां निजगृहेषु तिष्ठतां वाञ्छितं यदचिरान्न सिद्ध्यति । नन्दिवर्द्धनविटङ्कवासिनो हेलयैव शबरीजनस्य तत् ॥
Jain Education International
15
For Private Personal Use Only
20
(११३) अथ श्रीमातादेव्या अम्बाया दैवयोगान्मैत्री जाता । अम्बा गिरनाराधिष्ठात्री । अन्तरान्तरा प्रीत्या - 30 बुदे समभ्येति । श्रीमाता तु तत्र न याति जैनव्यन्तरभयेन । एकदा श्रीमातयोक्तम् - भगिनि । अत्रैव यदि स्थास्यसि तदावयोः प्रीतिर्निरन्तरा स्यात् । अम्बयोक्तम् - जिनभुवनं विना स्थानं न । तदत्र नास्ति । श्रीमातयो
25
www.jainelibrary.org