________________
५२
पुरातनप्रबन्धसङ्ग्रहे
क्तम्- द्रव्ययुतां भूमिमर्पयिष्यामि । तत्र जिनायतनं कार्यम् । इह बकुलचम्पकौ स्तः । तयोस्तले द्रम्मलक्ष २७ सहितं निधानमस्ति । अम्बयाऽचिन्ति - कः प्रासादं कारयिष्यति । इतश्चन्द्रावतीं परित्यज्य धंधूपरमारः श्री भीमदेवेन समं विरोधात् धारापुरीं गतः । पश्चान्नृपेणाश्वसहसैर्द्वादशभिर्युतो विमलदण्डनायकश्छत्रं दत्त्वा प्रहितश्चन्द्रावत्याम् ।
5
10
25
दण्डपतिना उक्तम्–भूमिः क्व १ । देव्याह - श्रीमातयाऽर्पितमस्ति । दण्डपेनोपरि गत्वा स्थानं निरूपितम् । कुङ्कुमगोमय.........दिव्यपुष्पदर्शनेन च । पूर्वं धारायां धंधूपरमारपार्श्वे मनुजमत्रैषीत् । भवतामनुमतिर्भवति तदा जैनं प्रासादं कारयामि । भवतां भव्यं करिष्यामि । पुनरत्रानयिष्यामि । तेन कथापितम् - वयमत्र गोष्ठिकाः । इतो देवी स्थानं दर्शयित्वा रैवतं गता । कर्मस्थायो यावान् दिने भवति तावान् रात्रौ पतति । कर्मस्थायः स्थितः । तत्र प्रासादः शुभमुहूर्ते प्रारब्धः । षण्मासान्ते देवी समाययौ । प्रासादं स्थितं दृष्ट्वा देवी जगौ - किमिदम् ? । 15 तेनोक्तम् - देवी पादमन्यत्रावधारिता । कथं निष्पद्यते ? । देव्या उक्तम् - इह देवकुल्यां वालीनाहोऽस्ति । तस्य भूरियम् । अतः स पातयति । प्रातरुपवासं कृत्वा पूजोपचारमादाय तं ध्यायन्, वालीनाहाग्रे उपविश । स प्रकटीभविष्यति । मद्यं मांसं याचयिष्यति । भवता नैवेद्यं माननीयम् । यदि न मन्यते तदा खङ्गं कर्षयित्वा वाच्यम् - याहि नो वा मारयिष्यामि । अहं खङ्गेऽवतरिष्यामि । तथाकृते स आराटिं कृत्वा प्रणष्टः । तत्र देवकुल्यां क्षेत्रपालः स्थापितः । तत्पार्श्वेऽम्बाया देवकुलिका कारिता । दण्डपतिदेवतावसरे श्री आदिनाथबिम्बमस्ति । अतो 20 युगादिदेवप्रासादः कारितः । चतुर्गच्छोद्भवैश्चतुर्भिराचार्यैः प्रतिष्ठा कृता । आदौ शैलमयं बिम्बम् । तदनु पित्तलमयं भारा १३ तुलामाश्रित्य । पूर्वं ठकुरनीतस्तत्सुतो लहरस्तत्सुतो मत्रीनेह (ढ) स्तेन दीक्षा गृहीता । विमलः श्रीभीमेन गजं छत्रं च दत्त्वा नृपतिः कृतः । तत्सुतेन चाहिलेन रङ्गमण्डपः कारितः । एवं प्रासादे निष्पन्ने केनापि चारणेनोक्तम्
(१४२) मंडी मुरकी रद्द करउ छंडउ मंसह ग्गाह । विमलडि खंडुं कडिअडं नहउ वालीनाहु ॥ ॥ इति विमलवसही प्रबन्धः ॥
(१४०) प्राग्वाटवंशाभरणं बभूव रत्नं प्रधानं विमलाभिधानम् । यत्तेजसा दुस्समयान्धकारमग्नोऽपि धर्मः सहसाऽऽविरासीत् ॥
अथ देव्यम्बा प्रासादार्थे प्रत्यक्षीभूय विमलदण्डपतिं जगाद -
(१४१) अथैकदा तं निशि दण्डनायकं समादिदेश प्रयता किलाम्बिका । इहाचले त्वं कुरु सद्म सुन्दरं युगादि भर्त्तुर्निरुपाधिसंश्रयः ॥
३४. अथ लूणिगवसही- - प्रबन्धः (P. BR )
$११४) धवलकपुरे मंत्री आसराजः । सहघरी कुमारदेवी । पुत्र ४ - मत्रि लूणिग १, मालदे २, वस्तुपाल ३, तेजपालाख्याः ४ । परं निर्द्रव्याः । एकदा लूणिगो मन्दो जातः । अन्त्यावस्थायां वस्तुपालेनोक्तम् - बन्धो ! किमपि द्रव्यव्ययं याचख । तेनोक्तम्- नवकारलक्षाः ३ गुणनीयाः । अपरं किमपि दृश्यते तर्हि याच्यते । तथापि 30 किञ्चिद्याचख | लूणिगेनोक्तम् अत्र काचिदाबाधा न । परमहमर्बुदाद्रौ देवान्नन्तुं गतः । ममेति मनोरथ आसीत् । यद्यत्र विमलवसह्यां आलकेऽपि बिम्बं लध्वपि करिष्यामि । यदि काऽपि शक्तिर्भवति तदा कार्यम् । अत्र न काऽप्यवष्टब्धिनी । इति वदन्ननशनाद्दिवं ययौ । पश्चाद् व्यापारे जातेऽर्बुदे श्रीमाताऽबोटीपार्श्वाद्विमलवसहिकोपरि मूल्येन भूर्गृहीता द्रम्मैराच्छाद्य । एवं द्रम्ममूडा ३६ तीरिताः । तैरुक्तम् - अतः परं पूर्णम् । तव द्रव्यसामग्री बही ।
Jain Education International
For Private Personal Use Only
www.jainelibrary.org