________________
वस्तुपाल-तेजःपालप्रबन्धः । त्वं पर्वतमपि गृह्णासि । १२८६ वर्षे शोभनदेवसूत्रधारमाहूय प्रासादं प्रारेमे । १२९२ ध्वजारोपो जातः । तत्र द्रव्यकोटीद्वादश, लक्ष ५३ एवं द्रव्यसंख्या । लूणिगवसहीति नाम कृतम् । श्रीनेमिनाथप्रतिमा स्थापिता। (१४३) विमलदण्डपतिर्विमलाचलाधिपजिनालयमारचयत्पुरा ।
इह गिरावसको तु स कौतुकी व्यधत्त रैवतदेवतमन्दिरम् ॥ ___ तत्र प्रासादे मत्रिणा यशोवीरेण त्रयोदश दोषा उक्ताः । आदौ विलासमण्डपो न युक्तः १, परं स्तम्भेषु । बिम्बानि २, सिंहमध्ये ३, हरिणगवेक्षण ४, द्वारे गजशालापरं पाश्चात्ये ५, तपोधना आकाशे ६, सोपानानि हस्खानि ७, सूत्रधारमातुश्छत्रं ८, मुख्यद्वारं पुरबाह्ये ९, तथा घण्टा महत्तरा १०; त्रयं तज्ज्ञलोकाज्ज्ञातव्यम् ॥
॥ इति लूणिगवसहीप्रबन्धः * ॥
10
३५. अथ वस्तुपाल-तेजःपालप्रबन्धः (B. BR. P. Ps.) (१४४) श्रीमत्प्राग्वाटवंशेऽणहिलपुरभुवश्चण्डपस्याङ्गजन्मा
जज्ञे चण्डप्रसादः सदनमुरुधियामङ्गभूस्तस्य सोमः । आशाराजोऽस्य सूनुः किल नवममृतं कालकूटोपभुक्ति
च्छेकश्रीकण्ठकण्ठस्थल विषजमलच्छेदकं यद्यशोऽभूत् ॥ .६११५) आसराजप्रबन्धाद् वस्तुपाल-तेजःपालोत्पत्तिज्ञेया ।......[ अत्र सूचित आसराजप्रबन्धः B सञ्जकसङ्ग्रहस्य खण्डितत्वात् तत्र न लब्धः परं BR सञ्ज्ञके सनन्हे स उपलभ्यते । तत एवात्र समवतार्यते । यथा-] 15
६११६) अथ आसराजप्रबन्धो यथा-अणहिल्लपत्तने मलधारिश्रीदेवप्रभ (Ps. हेमप्रभ) सूरिव्याख्याने गादीयां १४ शत उपविष्टेषु, तस्मिन् व्याख्याने साधुमदनपालपुत्री ( Ps. 'आभूनन्दिनी'; तथा अत्रैवादशेऽन्यत्र 'तिहुअणपालपुत्री' इति लिखितम् । ) कुमारदेवी बालविधवा व्याख्याने उपविष्टासीत् । नियोगी अश्वराजस्तत्रोपविष्टोऽभूत् । यावद्वाचको वाचयति तावदाचार्यदृष्टिस्तत्र कुमारदेव्यां विश्राम्यति । विदग्धेनाश्वराजेन कारणं
* P सज्ञके पुस्तके एष एव प्रबन्धः निम्नलिखितस्वरूपेण प्राप्यते
'एकदा लूणिगेऽनशनं गृह्णति धर्मव्ययो याचितः यदहं अर्बुदागौ देवं नन्तुं गतः। तत्रेति मनोरथ आसीत् । यद्यन्नालके एकं बिम्ब स्थापयामि तदा भव्यम् । अतो यदा भवतां पाहति......... तदा तत्र किञ्चित्कीर्तनं काराप्यम्। पश्चाद्व्यापारे जाते विमलवसतरुपरि भूर्मूल्येन गृहीता, द्रम्मैराच्छाद्य । एवं दाममूडा ३६ ती.........रुक्तम्-अतः] परं पूर्णम् । तव द्रव्यसामग्री बबी । त्वं पर्वतमपि गृह्णासि । तत्र १२८६ वर्षे शोभनदेवं सूत्रधारमाकार्य प्रासादं प्रारेभे......सं० १२९२ ध्वजारोपः कृतः ।
सङ्कीर्णसोपानमपाच्यगाध्वपृष्ठेऽत्रशाला मुनयश्च घमें । स्तम्भेषु बिम्बानि च दीर्घपट्टाः सिंहाप्रगैणा रतिमण्डपाच ॥ छन्नं च शीर्षे स्थपतेर्जनन्या गजाधिरूढा निजपूर्वजाश्च । स्तम्भा अतुल्या तनुरक्षरश्च ते द्वादशामी कथिताः कलङ्काः ।।
-मत्रियशोवीरेणैतानि दूषणानि श्रीअर्बुदप्रासादे कथितानि ।' + एतत्पद्यं P सङ्घहे नोपलभ्यते।
एतत्प्रबन्धगतवर्णनं P सज्ञके सङ्घहे निम्नगतेन प्रकारेण लिखितं लभ्यते'एकदा मलधारिगणाधीशाः श्रीहेमप्रभसूरयो धवलकापुरे चतुर्मासकं स्थिताः । तत्र व्याख्याने सर्वः कोऽप्येति । तत्र ठकुरतिहुणपालपुत्री कुमारादेवी मात्रा सह व्याख्याने आगता । परं विधवा । अथ गुरूणां व्याख्यानान्तरे तरुण्यां विश्रामो दृष्टेः स्थितः । मन्त्री आशराजो देशनान्ते गुरूनाह-भगवन् ! चन्द्रमसोऽङ्गारवृष्टिर्न स्यात्, परं पूज्यानां दृष्टिः कुमारादेव्यां किमासीत् । निर्बन्धेन पृष्टा अवदन्[Ps. यदेषा विधवा ] अस्याः कुक्षावेकादशरत्नानि सन्ति । पुत्र ४, पुत्री ७; पुत्रद्वयं लोकोत्तरम्-इति श्रुत्वा तिहुणपालस्योलगा प्रारब्धा । तेन आवासलेखकवही दत्ता। ग्रासः कृतः । आसंघे जाते तया पुच्या सह प्रीतिरभूत् । मात्रा ज्ञातवृत्तया वाहिनीमर्पयित्वा सपुत्रीकः प्रहितः । स्तम्भतटे गतः । तत्र पुत्रा जाताः। लूणिग-मल्लदेव-वस्तुपाल-तेजपालाः । पुश्यः सप्त ।
धर्मविधाने भुवनच्छिद्रपिधाने विभिन्नसन्धाने । सृष्टिकृता नहि सृष्टः प्रतिमल्लो मल्लदेवस्य ॥' .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org