________________
पुरातनप्रबन्धसङ्घहे पृष्टम् । पूज्यैरिति भणितम्-अस्याः कुक्षौ पुत्ररत्नद्वयमतिशायि विद्यते, यजिनशासनप्रभावकं [स्यात् ] ! अन्यदाश्वराजे साधुमदनपालसमीपे उपविष्टे सति तस्य लेखकं न मिलति । व्यवहारिणो लेखक मेलयित्वा समर्पितमश्वराजेन । ततस्तस्स द्रम्मौ द्वौ दिन प्रति ग्रासे कृत्वाऽऽत्मपार्श्वे स्थापितः । पुत्री गृहव्यापारे मुख्या । कदाचिदुभयोः स्नेहो जातः । मात्रा वृत्तान्तं ज्ञात्वा द्रव्यदशसहस्राणि समर्प्य प्रेषितौ सोहालकनाम नगरम् ( Ps. 'मंड5 लीनगर्यां गतः।' पुनरस्मिन्नेव सङ्ग्रहेऽन्यत्र 'स्तम्भतीर्थे गतः' एतल्लिखितं लभ्यते)।
आसराजस्य चत्वारः पुत्राः-मत्री लूणिगो १, मल्लदेवोऽपरः २, वस्तुपालस्तृतीयः ३, चतुर्थस्तेजपालः ४ । पुत्र्यः सप्त-साऊ १, भाऊ २, माऊ ३, धनदेवी ४, सोहगा ५, वयजूका (तेजूका Ps.) ६, पद्मलदेवी ७।
(१४५) श्रीवस्तुलस्य पत्नी ललितादेवीति विश्रुता जगति ।
तेजःपालस्य तथाऽनुपमदेवीति सत्कान्ता ॥ 10 लूणिग-मल्लदेवौ अल्पायुषो जातौ । क्रमेण आसराजः पुत्राभ्यां सह धवलकमागतः। तत्रावासः कृतः। सुतावुभावपि व्यवसायं कुरुतः । इति आसराजप्रबन्धः ॥
६११७) इतो व्याघ्रपल्लीयो राणक आनाको भीमेनापमानितो देशसीमनि गतः । परिग्रहेणाकारितो नायाति । राज्यं विनष्टम् , आगत्य किं करोमि । परं पदातिमात्रः सन् ऑलगां करिष्यामि-इति पत्तने समायातः। तत्सुतो लूणपसानामा भस्त्रकवरोऽस्ति । *तस्य द्वे कान्ते । वीरम-वीरधवलौ सुतौ । इतो लवणप्रसादेन 15 वीरममाता सपुत्रापि त्यक्ता । सा मेहतावास्तव्येन त्रिभुवनसिंहकौटुम्बिकेन धृता । लवणप्रसादस्तन्मारणाय तस्य गृहे सन्ध्यायां प्रविष्टः । इतः कौटुम्बिकः कान्तया वैकालिकायोपवेशितः । तेनोक्तम्-वीरमः क । तया प्रोक्तम-कापि रन्तं गतः। तेनोक्तम-आकारयत. तं विना नाहं भोक्ष्ये। तया निर्बन्धादक्तोऽपि न विशति । इतो लवणप्रसादेन चिन्तितम्-अनेन मम कान्ता धृता, परं मे पुत्रेण सह बाद स्नेहवानसौ । अतः कथं हन्यते । इति विचिन्त्य प्रकटो जातः । तेनाभ्यार्थितः कस्त्वम् । स्वभावे उक्ते तयोमिथः प्रीतिर्जाता । स लवणप्रसादस्तेन 20 भोजितः। वस्त्रादि दत्त्वा प्रहितः । इतः स क्रमेण भीमदेवेन राणकः कृतः (B. Ps. प्रधानः कृतः
राणिमा दत्ता) स राज्यचिन्तां कर्तुं प्रवृत्तः। [B. Ps. नृपस्तु स्वयं विकलः । अथ लवणप्रसादेन] राज्यमात्मायत्तं कृतम् । इतो राज्ञि दिवं गते स एवाधिपो जातः। वीरमः खसमीपमानीतः। वीरधवलस्स कुमारमुक्तौ धवलकं दत्तम् । तस्य प्रिया जइतलदेवी। [Ps. पुत्रस्नेहेन लवणप्रसादो धवलक्कपुरे घनं तिष्ठति । पत्तने अमात्याः कर्णवारां कुर्वन्ति ।] 25६११८) इतो वस्तुपाल-तेजःपालौ हट्ट मण्डयतः। तेजःपालस्य राणकेन सह प्रीतिर्जाता। राजकुले वस्त्राणि
पूरयति । अथ एकदा देवपत्तने ठ० धरणिगस्तेजःपालस्य श्वशुरोऽनुपमदेवीजनकः । तेन वपुत्री अनुपमदेवी श्वशुरकुले प्रहिता । तया गृहमागतया सर्व वस्तु ज्येष्ठप्रभृतिकुटुम्बस्स दर्शितम् । तत्र कपूरस्य सर्वोऽपि शृङ्गारः। वस्तुपालस्तेजःपालमाह-आवां वणिमात्रौ । एष ईश्वराणां स्वामिनां वा योग्यः शृङ्गारः। यदि वधूविचारे आयाति 'तदा राणकपन्यै दीयते । अनुपमयोक्तम्-स्त्रीतनुर्भायत्ता, आभरणानां तु का कथा । ततो राणकं निमव्य _ * एतदन्तर्गतं वर्णनं Ps. आदर्श नास्ति । । एतदन्तर्गतं वर्णनं Ps. आदर्श परित्यक्तम् । 1 B तदा देव्यै जयतलदेव्यै उपायनीक्रियते। * एतदन्तर्गतपाठस्थाने B आदर्श एतादृशः पाठः प्राप्यते-"अनुपमदेव्योक्तम्-स्त्रीणां शरीरं भर्तुरायत्तमाभरणानां तु का कथा। विशेषतो यच्छध्वम् । वस्तुपालः प्राह-यगाणकं भोजनाय सपत्नीकं निमंत्र्य भोजय। तथा कर्तुं गते वस्तुपालो हट्टे गतः । राणकः प्राप्तः । भोजितश्च। आभरणे दर्शिते देवी प्राह-स्वामिन् ! इदमाभरणं अद्ययावत् न दृष्टं न श्रुतम् । तदा गृह्णामि यदि मुद्रां तेजःपालो गृह्णाति । भवत्वेवं समापीष्टमिदम् । तेजःपालेनोक्तम्-वृद्धभ्रातरं पृच्छामि । प्रष्टुं गतोऽट्टे । भ्रात्रोक्तम्-किं मुद्रया । यदि ददात्येव तदेति वक्तव्यम्यट्टिप्पा कारयत । यत्तत्र भवति तदर्पयित्वा शेषमादाय वयं मोच्याः। एवमस्तु । इत्युक्त्वा मुद्रा समर्पिता। व्यापारो जातः । तदनु कूर्चालसरस्वतीत्येवंविधानि बिरुदानि पच्यमानैाह्मणैर्मक्षिकाजालमिव वेष्टितः । अनन्तबन्धनं कृतम् । एकदा कुलगुरवः श्रीविजयसेनसुरयो वन्दा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org