________________
कुमारपालकारितामारिप्रबन्धः ।
४१
चन्दीवास्थापि । नृपस्तां वेत्तीव न । शेषा मान्यतमाः । सा तु दैवमेवोपालभते स्म । अन्यदा पुरे काचित् परिव्राजिका आगता । सा चेटीभिः राज्ञीसकाशमानीता । तयोक्तम्- किं वेत्सि ? । साऽऽह
(१२१) दंसेमि तं पि ससिणं वसुहावन्नं थंभे वि तस्स वि रविस्स रहं नहद्धे । आमि सवसुरसिद्धगणं गणाओ तं नत्थि भूमिवलये महू जं न सिद्धं ॥
प्रसीद, मम पतिं वशीकुरु । तया करे सर्षपा जपित्वा ऽर्पिताः । यथा तथा नृपस्य [ भोजन ] मध्ये देयाः । 5 तया शाकं कृत्वा शिप्रां भृत्वा चेट्युक्ता - भोजनावसरोऽस्ति देवस्य परिवेषय | सा शृङ्गारं कर्तुं गता । देव्या चिन्तितम् - न ज्ञायते कदाचिदेषा वैरिणा प्रहिता स्यात्तदा मे पतिमारिकायाः का गतिः स्यादिति मत्वा गवाक्षस्याधः समुद्रस्तत्र शिप्रां ढालयामास । चेटी उक्ता - शाकं सम्प्रति तिष्ठतु । कथम् । तत् करात्पपात । इतस्तेन वशीकृतः समुद्रो नृपरूपं कृत्वा रात्रावायातः । स तु देव्या नृपवदुपचरितो नित्यमेति । इतो देवी सगर्भाभूत् । चेटीं प्राहिणोत् - देव ! सीमन्तोन्नयनाय मुहूर्त्तमस्मत्स्वामिन्या गणापयत । नृप आह - का त्वम् १, 10 का तव स्वामिनी ? | अहं तस्या नामापि न जाने । कस्य सुता.. .. णीता । तया यदकृत्यं कृतं तन्मम किमुच्यते । साऽऽगत्य देवीं प्राह - इत्थं निवेदयति । तयोक्तं समये ज्ञास्यते । इतः पुत्रो जातः । सूतकशुद्धेरनन्तरं बा.........य प्रतोलीमेत्य उपविष्टा । मम शुद्धिं यच्छत । जातायां बालः स्तनं गृहीष्यति । नृपेणोक्तम्- मम साराऽपि न । अधुना खङ्गेन परिणीता श्रुता, परं दृष्ट्वापि न । पुत्रस्य का... ... प्रधानान् प्रैषीत् । एन्मम दूषणं तत्र न मया सोढव्यम् । सा न मन्यते । पट्टराज्ञी प्रहिता । स्त्री स्त्रीभणितेन मन्यते । सा एत्यावादीत् किमिदमार- 15 ब्धम् १ । तयोक्तम्-तव कुले इदं .. .. मम तु न । नृपः स्वयमेत्य तां प्राह - तव ममाधुना दर्शनम्, पुत्रस्य तु का कथा ? । उत्थीयताम् । देव ! सर्वथापि वार्त्ता दिव्यं विना न वाच्या । प्रधानैर्दिव्यं दत्तम् । राज्ञी सुत...
..बहिर्ययौ । पौरसहितो नृपश्च । तत्र लोहमयी नौस्तस्यां समधिरोप्य, दिव्यकर्त्ता क्षिप्यते । शुद्धे तरत्यशुद्धे डति । सा राज्ञीति कामा श्रावणामकरि.. .. त्यवद्राव इत्युक्त्वा नावमधिरुरोह । सपुत्रापि बुडिता । लोकः कोलाहलं यावत्करोति तावन्नावमधिरूढा देवी सशृङ्गारा शृङ्गारकोटिशाटीपरिधाना, सहस्रकिरणताड - 20 काभ्यामलङ्कृतकपोला, पापक्षयेण हारेण विराजितवक्षःस्थला, माणिक्यपटेनाच्छादितबाला, संयोगसिद्धिशिप्राकरा सर्वैरपि दृष्टा शुद्धताला पपात । नृपेण नगरमध्ये प्रवेशिता । नृपो निशि तद्वेश्मनि इयाय । तयोपचरितः पृष्टवान्- अहं सर्वथा न जाने त्वं तु सत्येव या समुद्रेण शोधिता । इतः समुद्रदेवेन, प्रत्यक्षीभूयादितोऽपि स्वरूपमुक्तम् – नास्यापराधः । नृपेण सुतस्य बालधवल इति अभिधा चक्रे । सा राज्ञी पट्टराज्ञी कृता । एतानि तानि रत्नानि तस्यैव समर्पितानि ॥ इति राणकाम्बडप्रबन्धः ॥
२६. कुमारपालकारितामारिप्रबन्धः (B.P.)
९८३) अथैकदा श्रीकुमारपालदेवेन अमारौ प्रारब्धायामाश्विनशुदिपक्ष आयातः । कण्टेश्वरीप्रभृतीनामबोटिकैर्नृपो विज्ञप्तः - देव! सप्तम्यां पशूनां सप्त शतानि सप्त महिषाः, अष्टम्यामष्टौ शतानि अष्टौ महिषाः, नवम्यां नव शतानि छागानां नव महिषाश्च देव्यै नृपेण देयाः । पूर्वराज्ञामयं क्रमः । नृपः प्रभ्रूणां पार्श्वे गतः । कथिता वार्त्ता । कर्णे उक्तं नृपः श्रुत्वोत्थितः । भाषितास्ते देयं दास्यामः । वहिकाप्रमाणेन पशवो देवीसदने निक्षिप्ताः | 30 तद्वारे तालकं दत्वा नृपः स्वसौधं गतः । प्रातरायातो नृपः । उद्घाटितानि द्वाराणि । मध्ये दृष्टाः पशवः रोमन्थायमानाः । राज्ञा अबोटिका' अभिहिताः - यद्यमूभ्यो देवीभ्यो रोचिष्यन्त तदा ग्रसिष्यन्त । परं न ग्रस्ताः ।
1 B प्रभृतिपूजकैः । 2 B पूजकाः । 3 B नास्ति । + एतदन्तर्गता पंक्तिः पतिता P आदर्शे ।
पु० प्र० स० 6
Jain Education International
25
For Private Personal Use Only
www.jainelibrary.org