________________
पुरातनप्रबन्धसङ्गहे शिरश्छित्वा वाहीआलीकिसोरसप्तशती, शेषतुरगाश्वभाण्डागारम् , कोष्ठागारम् , सेडूयकं दन्तिनम् , नव धडी हिरण्यस्य, चतुरस्रं कलशम् , मूटक ९ मौक्तिकानाम् , माणिकउ पछेडउ, शृङ्गारकोडि साडी, सहस्रकिरणताडङ्क २, पापक्षयो हारः, संयोगसिद्धिः शिप्रा-एवंविधं सर्वमादाय अम्बडः पत्तनं गतः । नृपः सम्मुखमाययौ । मल्लिकार्जुनशिरसा नृपपादावपूजयत् । नृपस्तुष्टः, अम्बडस्य लाडदेशमुद्रां ददौ । हस्ती दत्तः, कलशस्य(श्च) 5 मल्लिकार्जुनजयसूचकः । स्वगुप्तोदरादयः । इतो हस्तिनमादायाम्बडः खगृहं गतः । वाग्भटदेवो नमस्कृतः । वत्स ! देवं नमस्कुरु । तथा कृते सति पुनरप्युक्तं बाहडदेवेन मत्रिणा-इयन्ति दिनानि राजपुत्रस्त्वमभूः। अधुना व्यापारी जातः । अतः श्रीहेमसूरीन् कुलगुरून्नमस्कुरु । पौषधागारे गतः। तैस्तु धर्मलाभो न दत्तः। आशीर्वादोऽस्तु । गृहे गत्वा प्रोक्तम्-अहं पौषधागारे गतः। तत्र गुरूणां धर्मलाभस्यापि सन्देहः । मत्रिणा वाग्भटदेवेन
गुरव उक्ताः-यद्भवद्भिर्धर्मलाभो न दत्तः । गुरुभिरुक्तम्-यदि अस्माभिर्नोक्तिस्तर्हि किं भृगुकच्छेन गतः। प्रासादं 10 कथं श्रीमुनिसुव्रतस्वामिन उद्धरिष्यति । अनेकानन्यायान् करिष्यति । मत्रिणा वाग्भटदेवेनाम्बडस्याग्रे उक्तम् ।
तेनोक्तम्-मम गुरव उद्धृतेः । प्रासादे हृष्टाः । द्विवेलमुद्धृते भोक्ष्ये, परं भूज (१) विना युष्माभिः किमपि न वक्तव्यम् । ततश्चलित्वा भृगुपुरे गतः । प्रवेशे जाते मञ्चमुपविष्टः। इतो देवीपूजिका योगिनीभिरन्विता समेत्यानभ्युत्थिता समीपे समीपे समेत्य विवेश । अम्बडेन कूर्पराहता मञ्चकाद्धहिः पपात । मृता । कर्मस्थायः प्रारब्धः।
वर्षेण सम्पूर्णः। शिलाकोटिघटितः प्रासादो जातः, राणकोदयनस्य मनोरथश्च । अम्बडेन श्रीपत्तने एका विज्ञप्तिः 15 श्रीकुमारपालदेवस्य १, एका गुरूणां २, एका वाग्भटदेवस्य, ३ एका श्रीसङ्घस्य एवं ४ प्रहिताः । वाग्भटेन
श्रीगुरूणां पुरो विज्ञप्तिमुक्ता । इदं किम् ? । एषा अम्बडस्य विज्ञप्तिः । वर्षमेकं गतस्यासीत् । अद्य का विज्ञप्तिः १ । विलोकयत । प्रतिष्ठोपर्याकारणमागतम् । मत्रिन्! एतत् सत्यम् । अहं किं जाने, विज्ञप्तिः कथयति । तर्हि चल्यताम् । नृपो गुरुभिः सह प्राचालीत् । इतोऽर्द्धमार्गे जनः सम्मुखमाययौ । यदम्बडो न शक्नोति ।
गुरवः सङ्घ विमुच्य भृगुपुरे गताः । इतः प्रक्षीणधातुरम्बडो दृष्टः । देवीप्रासादं गत्वा ध्यानेन निविष्टाः। 20 इतो मुख्यपूजिकोदरे उदरवाढिर्जाता । सा कोकूयते । परिचारिका एत्य प्रभुमूचुः । अस्माकं स्वामिनी मुच्यताम् ।
तर्हि अम्बडोऽपि मुच्यताम् । स सकलो जग्धः पीतश्च । तर्खेषाऽपि म्रियताम् । जीवन्ती किं करोति । एक एव सार्थोऽस्तु । सा अत्यर्थं पीडिता प्रभूनेत्यावदत्-प्रसादं कृत्वा मां मुश्चत । अम्बडमपि मुश्च । तरु(?)वेष्टितं कृत्वा घृतकुम्भ्यां प्रक्षिप्ते यदिति वक्ति, म मारिति मां कर्षति । ततः कृष्ट्वा स्त्रानं कार्यः । यदि जल्पिष्यते स तदा त्वमपि सज्जा भविष्यसि । दिनत्रयान्ते अम्बडः सजो जातः । साऽपि च । इतः श्रीसङ्घान्वितो नृपः प्राप्तः । 25 गुरुभिः साकमम्बडः सम्मुखो ययौ । अम्बडेन दत्तकरा गुरवः प्रदक्षिणां यच्छन्ति । प्रासादं तुङ्गमालोक्य गुरुभिरुक्तम्-मया देवं गुरुं विना कोऽपि न स्तुतः। तव कीर्तनेन किञ्चिद्वक्ष्यामः । आदिशत । (१२०) किं कृतेन न यत्र त्वं यत्र त्वं किमसौ कलिः।
कलौ चेद्भवतो जन्म कलिरस्तु कृतेन किम् ॥ प्रतिष्ठा जाता । आरात्रिकोत्तारणाय नृपो विज्ञप्तः । नृपेणोक्तम्-त्वमेवोत्तारय । वाग्भटेनाप्यनुमतः । 80 कर्तुमुद्यतः। नृपेण शृङ्खलं कनकमयं खकण्ठादुत्तार्याम्बडगले क्षिप्तम् । तेन च याचकानां पठतां गृहसारं दत्तम् ।
द्वारभट्टस्य तसिन् शृङ्खले दत्ते नृपेणोक्तमवतारय । तथा कृतेऽम्बडेन पृष्टम्-देव! किमुत्सुका जाताः । मया ज्ञातं जीवमपि दास्यसि । मम त्वया बहुकार्यमस्ति । सङ्घार्चादिषु जातेषु पुनः सङ्घः पत्तनं प्राप्तः । तत्र चैत्यबलानके ९ धडी सुवर्णस्य चतुरस्रं कलशं ददौ ।
६८२) अथैकदा नृपः सेवायातं मल्लिकार्जुनसुतं प्राह-पापक्षयादिरत्नपञ्चकस्यौत्पत्यं वद । देव ! मल्लिकार्जु35 नादेकविंशः पूर्वजो धवलार्जुनस्तस्य पञ्चदश प्रिया आसन् । एका नरेन्द्रसुता खङ्गेन परिणीता । आनीय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org